यष्टिः (yaSTiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishयष्टिः [yaṣṭiḥ] ष्टी [ṣṭī], ष्टी [यज्-क्तिन् नि˚ न संप्रसारणम्]
A stick, staff.
A cudgel, mace, club.
A column, pillar, pole
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः 9.285.
A perch, as in वासयष्टि.
A stem, support.
A flagstaff
as in ध्वजयष्टि.
A stalk, stem.
A branch, twig
कदम्बयष्टिः स्फुटकोरकेव 3.42
so चूतयष्टिः 6.2
सालस्य यष्टिः 2.2.32
सहकारयष्टिः
A string, thread (as of pearls), a necklace विमुच्य सा हारमहार्य- निश्चया विलोलयष्टिप्रविलुप्तचन्दनम् 5.8
क्वचित् प्रभालेपिभिरिन्द्र- नीलैः मुक्तामयी यष्टिरिवानुविद्धा 13.54.
Any creeping plant.
Anything thin, slim, or slender (at the end of after words meaning 'the body')
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः 5.85 'with her slender or delicate frame perspiring'.
A reed.
The arm.
Liquorice.
Sugar-cane. -आघातः cudgeling, beating. -उत्थानम् rising with the help of a staff. -ग्रहः a club-bearer, staff-bearer
III.2.9. Vārt.
निवासः a stick or rod serving as a perch for peacocks
वृक्षेशया यष्टिनिवासभङ्गात् 16.14.
a pigeon-house resting on upright poles. -प्राण
feeble or powerless.
out of breath. -मधु , -मधुका liquorice.-यन्त्रम् a particular astronomical instrument.
Apte 1890
Englishयष्टिः
ष्टी f. [यज्-क्तिन् नि° न संप्रसारणं] 1 A stick, staff.
2 A cudgel, mace, club.
3 A column, pillar, pole.
4 A perch, as in वासयष्टि.
5 A stem, support.
6 A flagstaff
as in ध्वजयष्टि.
7 A stalk, stem.
8 A branch, twig
कदंबयष्टिः स्फुटकोरकेव U. 3. 42
so चूतयष्टिः Ku. 6. 2
सहकारयष्टिः &c.
9 A string, thread (as of pearls), a necklace
विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचंदनं Ku. 5. 8
R. 13. 54.
10 Any creeping plant.
11 Anything thin, slim, or slender (at the end of comp. after words meaning ‘the body’)
तं वीक्ष्य वेपथुमती सरसां गयष्टिः Ku. 5. 85 ‘with her slender or delicate frame perspiring’.
12 A reed.
13 The arm.
14 Liquorice.
15 Sugar-cane.
Comp.
ग्रहः a club-bearer, staff-bearer.
निवासः {1} a stick or rod serving as a perch for peacocks &c.
वृक्षेशया यष्टिनिवासभंगात् R. 16. 14. {2} a pigeonhouse resting on upright poles.
प्राण a. {1} feeble or powerless. {2} out of breath.
मधु n., मधुका liquorice.
Apte Hindi
Hindiयष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"लकड़ी, लाठी"
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"सोटा, गदका, गदा"
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"खंभा, सतून, स्तम्भ"
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
अड्डा
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"वृन्त, सहारा"
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
झंड़े का डंडा
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"डंढल, वृन्त"
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"शाखा, टहनी"
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
"डोरी, लड़ी, "
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
कोई लता
यष्टिः
- "यज् + क्तिन्, नि* न संप्रसारणम्"
कोई भी पतली या सुकुमार वस्तु
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
लकड़ी
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
गदा
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
स्तम्भ
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
"सहारा, टेक"
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
ध्वजदंड
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
"डोरी, धागा"
यष्टिः
- यज्+क्तिन् नि* न संप्रसारणम्
"हार, लड़ी"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit स्कम्भः, स्तम्भः, अवष्टम्भः, यष्टिः, धारिका
आधारार्थं कस्यापि वस्तुनः अधः स्थाप्यमाना काचित् रचना।
"अयं सेतुः सप्तसु स्तम्भेषु आधारितः अस्ति।"
मधुयष्टी, मधूकः, मधूकम्, यष्टिः, यष्टी, यष्टीमधु, यष्टीमधुकः, यष्टीकः, मधुकः, मधुकयष्टी
बहुसंवत्सरीयः वृक्षः यस्य उन्नतिः द्वेमीटरपरिमितम् अस्ति तथा च यस्य मूलं भेषजरूपेण उपयुज्यते।
"मधुयष्ट्याः पर्णानि संयुक्तानि तथा च अण्डाकारकानि सन्ति।"
स्थूणा, नासा, यष्टिः, शूर्मिः, सूर्मिः
गृहस्तम्भः
"गृहे नैकाः स्थूणाः सन्ति"
स्तम्भः, स्थूणा, यूपः, यूपम्, यष्टिः
शिलाकाष्ठादिभिः विनिर्मिता वर्तुलाकारा चतुष्कोणयुक्ता वा उन्नताकृतिः।
"स्तम्भात् नरसिंहः आगतः।"
Tamil
Tamilயஷ்டி: : யஷ்டி = கைத்தடி, கதை, தூண், மலை, சரம்.
शब्दकल्पद्रुमः
Sanskritयष्टिः, (इज्यते इति । यज् + बाहुलकात्तिः । इति उणादिवृत्तौ उज्ज्वलदत्तः । ४ । १७९ ।)ध्वजदण्डः । इति विश्वशब्दरत्नावल्यौ ॥
भुज-दण्डः । इति मेदिनी । टे, २६ ॥
यष्टिः, (यजते सङ्गच्छते । यज् + तिः ।)तन्तुः । इति शब्दमाला ॥
हारलता । (हारा-वलिः । यथा, रघौ । १३ । ५४ ।“क्वचित्प्रभालेपिभिरिन्द्रनीलै-र्मुक्तामयी यष्टिरिवानुविद्धा ।अन्यत्र माला सितपङ्कजानांइन्दीवरैरुत्खचितान्तरेव ॥
”“यष्टिः हारावलिः ।” इति मल्लिनाथः ॥
* ॥
)भार्गी । मधुका । शस्त्रभेदः । इति मेदिनी ।टे, २६ ॥
शेषस्य पर्य्यायः । दण्डः २ । लगुडः ३इति हेमचन्द्रः । ३ । ४४९ ॥
तद्दानफलं यथा, वह्निपुराणे ।“यष्टिं ये तु प्रयच्छन्ति नेत्रहीने सुदुर्ब्बले ।तेषान्तु विपुलः पुंसां सन्तानो मोहवर्ज्जितः ॥
”(स्त्री, शाखा । यथा, कुमारे । ६ । २ ।“चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥
”“चूतयष्टिः चूतशाखा इव ।” इति तत्र मल्लि-नाथः ॥
यष्टिमधु । तत्पर्य्यायः । यथा, “यष्ट्याह्वं मधुकं यष्टिः क्लीतकं मधुयष्टिका ।यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥
”इति वैद्यकरत्नमालायाम् ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“यज देवपूजासङ्गतिकरणदानेषु”@} 2 याजकः-जिका, याजकः-जिका, 3 यियक्षकः-क्षिका, यायजकः-जिका
4 यष्टा-यष्ट्री, याजयिता-त्री, यियक्षिता-त्री, यायजिता-त्री
यजन्-न्ती, याजयन्-न्ती, यियक्षन्-न्ती
-- यक्ष्यन्-न्ती-ती, याजयिष्यन्-न्ती-ती, यियक्षिष्यन्-न्ती-ती
-- यजमानः, याजयमानः, 5 यियक्षमाणः, यायज्यमानः
यक्ष्यमाणः, याजयिष्यमाणः, यियक्षिष्यमाणः, यायजिष्यमाणः
6 7 देवेट्-देवेड्-देवेजौ-देवेजः
-- -- 8 इष्टम्-इष्टः-इष्टवान्-इष्टी, याजितः, यियक्षितः, यायजितः-तवान्
यजः, 9 सोमयाजी-हविर्याजी 10, अग्निष्टोमयाजी, 11 यज्वा, 12 13 यजमानः, 14 ऋत्विक्, ‘त्वं यज्ञे वरुणस्य 15 अवया असि।’ 16 उपयट्, 17 साधुयाजी, याजः, यियक्षुः, 18 यायजूकः, 19 यायजः
20 यष्टव्यम्, याजयितव्यम्, यियक्षितव्यम्, यायजितव्यम्
यजनीयम्, याजनीयम्, यियक्षणीयम्, यायजनीयम्
21 याज्यम्, 22 देवयज्या, 23 याज्या, याज्यम्, यियक्ष्यम्, यायज्यम्
ईषद्यजः-दुर्यजः-सुयजः
-- -- 24 इज्यमानः, याज्यमानः, यियक्ष्यमाणः, यायज्यमानः
25 यागः-अनुयागः-प्रयागः, 26 प्रयाजः-अनुयाजः, 27 उपांशुयाजः-पत्नीसंयाजः-ऋतुयाजः-उपयाजः, 28 यज्ञः, याजः, यियक्षः, यायजः
यष्टुम्, 29 यष्टुं, याजको 30, याजयितुम्, यियक्षितुम्, यायजितुम्
31 32 इष्टिः- 33 इज्या 34, 35 तिप्रत्यये रूपमेवमिति क्षीरतरङ्गिणी।]] यष्टिः, याजना, यियक्षा, यायजा
यजनम्, याजनम्, यियक्षणम्, यायजनम्
इष्ट्वा, याजयित्वा, यियक्षित्वा, यायजित्वा
अन्विज्य, प्रयाज्य, प्रयियक्ष्य, प्रयायज्य
याजम् २, इष्ट्वा २, याजम् २, याजयित्वा २, यियक्षम् २, यियक्षित्वा २, यायजम् २
यायजित्वा २
36 एणुप्रत्यये रूपम्।
यजेणुः = याजकः, ऋत्विक्।]] यजेणुः
37 इति युच्प्रत्यये, प्रत्ययस्याननुनासिकत्वेनाना- देशाभावे च रूपमेवम्।
यज्युः = अध्वर्युः।]] यज्युः, 38 इत्यत्रन्प्रत्ययः।
इज्यन्तेऽस्मिन् देवता इति यजत्रम् = यज्ञस्थानम्।
अग्निहोत्रमिति केचित्।]] यजत्रम्, 39 इत्युसिप्रत्ययः।
यजुः = वेदः।]] यजुः।
01 (१३३५)
02 (१-भ्वादिः-१००२। सक। अनि। उभ।)
03 [[४। सन्नन्ते सर्वत्र, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः’ (८-२-३६) इति षत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे, षत्वे च रूपनिष्पत्तिरिति ज्ञेयम्।]]
04 [[५। तृजादिषु, ‘व्रश्च--’ (८-२-३६) इति षत्वे, ष्टुत्वे च रूपम्। एवं तव्यदादिष्वपि प्रक्रियोह्या।]]
05 [[B। ‘यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम्।’ शि। व। २। १।]]
06 [पृष्ठम्१०६५+ ३०]
07 [[१। देवान् यजतीति देवेट्। कर्मण्युपपदे, ‘क्विप् च’ (३-२-७६) इति क्विपि ‘वचिस्वपियजादीनां किति’ (६-१-१५) इति यकारस्य सम्प्रसारणे, ‘सम्प्रसार- णाच्च’ (६-१-१०८) इति पूर्वरूपे, षत्वे, जश्त्वे च रूपमेवम्।]]
08 [[२। निष्ठायाम्, यजादित्वेन सम्प्रसारणे पूर्वरूपे, षत्वे ष्टुत्वे च रूपमेवम्। ‘इष्टादि- भ्यश्च’ (५-२-८८) इतीन्प्रत्यये इष्टी इति रूपम्। एवमेव क्त्वाप्रभृतिष्वपि प्रक्रिया ज्ञेया।]]
09 [[३। ‘भूते’ (३-२-८४) इत्यधिकारे, ‘करणे यजः’ (३-२-८५) इति णिनिप्रत्यये रूपमेवम्। सोमेन इष्टवान् सोमयाजी। एवमेव अग्निष्टोमयाजी इत्यादि- सिद्धिरूह्या।]]
10 [[आ। ‘मृषाऽसि त्वं हविर्याजी राघव च्छद्मतापसः।’ भ। का। ६-१२९।]]
11 [[४। भूतार्थे, ‘सुयजोर्ङ्वनिप्’ (३-२-१०३) इति ङ्वनिप्प्रत्यये प्रथमैकवचने उपधादीर्घे नकारलोपे च यज्वा इति रूपम्।]]
12 [[B। ‘यज्वानश्च ससुत्वानो यानगोपीन्मखेषु सः।।’ भ। का। ५-३७।]]
13 [[५। तच्छीलादिषु कर्तृषु ‘पूङ्यजोः शानन्’ (३-२-१२८) इति शानन्प्रत्ययः। शित्त्वात् शपि, ‘आने मुक्’ (७-२-८२) इति मुगागमे यजमानः इति रूपम्। यस्त्वसकृत् यागादिकं करोति स एवमुच्यते।]]
14 [[६। ऋतौ यजते, ऋतुं यजते, ऋतुप्रयुक्तो वा यजतीत्यर्थे धातोरस्मात् ऋतुशब्द उपपदे, ‘ऋत्विक्--’ (३-२-५९) इत्यादिना क्विन्। सम्प्रसारणे, पूर्वरूपे च कृते, निपातनात्, व्रश्चादिषत्वापवादतया ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे च ऋत्विक् इति सिद्ध्यति।]]
15 [[७। ‘अवे यजः’ (३-२-७२) इति मन्त्रे ण्विन्प्रत्यये, उपधावृद्धौ ‘अवयाः श्वेतवाः पुरोडाश्च’ (८-२-६७) इति निपातनाद्रुत्वे च रूपमेवम्। छन्दस्येवायं प्रयोगः।]]
16 [[८। ‘विजुपे छन्दसि (३-२-७३) इति छन्दसि विषये उपोपपदे धातोरस्य विच्प्रत्यये षत्वे जश्त्वे च रूपमेवम्।]]
17 [[९। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिप्रत्यये रूपमेवम्।]]
18 [[१०। ‘यजजपदशां यङः’ (३-२-१६६) इति यङन्तादूकप्रत्यये, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासदीर्घे च रूपमेवम्।]]
19 [[C। ‘तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः।’ भ। का। २-२०।]]
20 [पृष्ठम्१०६६+ २८]
21 [[१। ण्यति, ‘यजयाचरुच--’ (७-३-६६) इति कुत्वनिषेधः।]]
22 [[२। देवशब्द उपपदे छन्दसि विषये कर्मणि यत्प्रत्यये रूपमेवम्। निपातनात् स्त्रीलिङ्ग- त्वम्।]]
23 [[३। यजन्त्यनेनेति याज्या = ऋक्। बाहुलकात् करणे ण्यत्।]]
24 [[४। कर्मणि, यगन्ताच्छानचि सम्प्रसारणे पूर्वरूपे च रूपम्।]]
25 [[५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे च रूपमेवम्। अनुयागः = भोजनम्, उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। प्रयागः = क्षेत्रविशेषः। अत्र सङ्गतिकरणं धातोरर्थः। नदीत्रयसङ्गति- करणं ह्यत्र देशे वदन्ति।]]
26 [[६। घञि, ‘प्रयाजानुयाजौ यज्ञाङ्गे’ (७-३-६२) इति निपातनात् यज्ञाङ्गविषये कुत्वं न। पञ्च प्रयाजाः। त्रयोऽनुयाजाः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घे अनूयाज इत्यपि भवति।]]
27 [[७। “प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्--अन्यत्राप्येवंप्रकारे कुत्वं न भवति। ‘एकादश उपयाजाः’, ‘उपांशुयाजमन्तरा यजति’, ‘अष्टौ पत्नीसंयाजा भवन्ति’ ‘ऋतुयाजैश्चरन्ति’--इत्येवमादि सिद्धं भवति।’ इति काशिका- (७-३-६२) वाक्यमिहावधेयम्। तेनैतेषां साधुत्वं बोध्यम्। ‘जाघन्या पत्नीः संयाजयन्ति’ (शतपथब्राह्मणे-३-७-६-१) इति श्रौतनिर्वचनपर्यालोचनायां तु पत्नीः संयाजयन्तीति पत्नीसंयाजः इति ण्यन्तात् ‘कर्मण्यण्’ (३-२-१) इत्यणेवात्रेति न कुत्वप्रसक्तिः। अतोऽत्रेतरेषां विषये कुत्वाभावस्योपपत्तिकल्पनेऽपि पत्नीसंयाजशब्दविषये नोपपत्तिकल्पनपरिश्रमः कार्यः इति ज्ञेयम्।]]
28 [[८। भावे, ‘यजयाच--’ (३-३-९०) इत्यादिना नङ्प्रत्यये, जकारस्य श्चुत्वे च रूपमेवम्।]]
29 [[९। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्, ण्वुल् च भवतः। यष्टुं याति--यागाय यातीत्यर्थः।]]
30 [वा याति]
31 [पृष्ठम्१०६७+ २९]
32 [[१। ‘श्रुयजीषिस्तुभ्यः--’ (वा। ३-३-९५) इति करणे क्तिन्प्रत्यये सम्प्रसारणादिके च रूपम्।]]
33 [[२। ‘व्रजयजोर्भावे क्यप्’ (३-३-९८) इति स्त्रियां भावे क्यपि, कित्त्वेन सम्प्र- सारणादिकेषु चैवं रूपम्।]]
34 [[आ। ‘निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिन कुमारः।।’ भ। का। २-३७।]]
35 [[३। बाहुलकादौणादिके [द। उ। १-७४]
36 [[४। बाहुलकादौणादिके [द। उ। १-१३३]
37 [[५। ‘यजिमनि--’ [द। उ। १-१३४]
38 [[६। ‘अमिनक्षियजि--’ [द। उ। ८-५६]
39 [[७। ‘अर्त्तिपॄवपियजि--’ [द। उ। ९-३९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
