| YouTube Channel

यशस्करः (yazaskaraH)

 
शब्दकल्पद्रुमः
Sanskrit
यशस्करः, त्रि, कीर्त्तिकारकः सुख्यातिजनकः ।यशस्करोति इत्यर्थे (“कृञो हेतुताच्छील्यानु-लोम्येषु ।” २० ।) इति टप्रत्ययेन निष्पन्नः ।यशस्करी विद्या इति व्याकरणम्
(यथा, मनौ ३८३ ।“एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः
”विष्णुक्षेत्रविशेषे, क्ली यथा, नारसिंहे ६२ अः ।“विरजं पुष्पवत्यायां बालञ्चामीकरे विदुः ।यशस्करं विपाशायां माहिष्मत्यां हुताशनम्
”शोभावतीपुर्य्यां जाते ब्राह्मणविशेषे, पुं यथा, कथासरित्सागरे १०४ १९ ।“तस्यां यशस्करो नाम विद्वानाढ्यो बहुक्रतुः ।ब्राह्मणोऽभूदभूत्तस्य सत्पत्नी मेखलेति
”)