| YouTube Channel

यवासशर्करा (yavAsazarkarA)

 
Monier Williams Cologne
English
यवास—शर्करा
f.
a kind of sugar made from Yavāsa,
Suśr.
Madanav.
शब्दकल्पद्रुमः
Sanskrit
यवासशर्करा,
स्त्री,
(यवासेन तद्रसेन कृता शर्करा ।शाकपार्थिववत् समासः ।) यवासरसघटित-शर्करा तत्पर्य्यायः सुधामोदकः मोदकः ३तवराजः खण्डसरः खण्डजः खण्ड-मोदकः अस्या गुणाः अतिमधुरत्वम् ।पित्तश्रमतृषापहत्वम् वृष्यत्वम् विदाह-मूर्च्छार्त्तिभ्रान्तिशान्तिकरत्वम् सरत्वञ्च इतिराजनिर्घण्टः
(यथा, सुश्रुते सूत्रस्थाने ४६अध्याये ।“यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्म-हरी सरा चेति
”)