| YouTube Channel

यवमध्यं (yavamadhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
यवमध्यं,
क्ली,
(यववत् मध्यं यस्य ।) चान्द्रायण-प्रभेदः यथा, --“शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणन्तथा ।यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति
”इति प्रायश्चित्ततत्त्वम्
(पुं, यज्ञभेदः यथा, शतपथब्राह्मणे १३ ।१ ।“यवमध्यः पञ्चरात्रो भवति
”यवाकारमध्ये, त्रि यथा, सुश्रुते चिकित्सा-स्थाने अध्याये ।“शरावनिम्नमध्याश्च यवमध्यास्तथापरे ।एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः
”)