| YouTube Channel

यवनः (yavanaH)

 
Apte
English
यवनः [yavanḥ], [यु-युच्]
A Greek, an Ionian.
Any foreigner, or barbarian
Ms.*
1.44
(the word is applied at present to a Mahomedan or a European also).
A carrot.
Olibanum.
A courser or swift horse.
Speed.
Wheat.
A kind of grass.-नाः (m.
pl.
)
The Ionians or Greeks.
The Greek astrologers. -नम् Mixing, mingling (esp. with water).Comp. -अरिः
N.
of Kṛiṣṇa. -आचार्यः the reputed author of astronomical book called Tājak.
इष्टः a kind of garlic.
a kind of onion.
the Nimba tree. (-ष्टा) the wild date-tree.
(ष्टम्) lead.
an onion or garlic.
pepper. -देशजम् benzoin. -द्विष्टः bdellium. -प्रियम् pepper.
Apte 1890
English
यवनः [यु-युच्] 1 A Greek, an Ionian.
2 Any foreigner, or barbarian
Ms. 10. 44
(the word is applied at present to a Mahomedan or a European also).
3 A carrot.
4 Olibanum.
5 A courser or swift horse.
6 Speed.
7 Wheat.
8 A kind of grass.
नाः (m. pl.) 1 The Ionians or Greeks.
2 The Greek astrologers.
Comp.
अरिः N. of Kṛṣṇa.
इष्टः {1} a kind of garlic. {2} a kind of onion. {3} the Nimba tree. (
ष्टा) {1} the wild datetree. (
ष्टं) {1} lead. {2} an onion or garlic. {3} pepper.
देशजं benzoin.
द्विष्टः bdellium.
प्रियं pepper.
Apte Hindi
Hindi
यवनः
पुं*
- यु +युच्
"ग्रीस देश का निवासी, यूनान देश का वासी"
यवनः
पुं*
- -
"विदेशी, जंगली"
यवनः
पुं*
- -
गाजर
Wordnet
Sanskrit
Synonyms:
गोधूम, बहुदुग्धः, अपूपः, म्लेच्छभोजनः, यवनः, निस्तुषक्षीरः, रसालः, सुमनाः
noun
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः-स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्
"यवगोधूमजम् सर्व पयसश्चैव विक्रिया [मनु 5.25]"
Synonyms:
गाजरम्, गार्जरः, पिङ्गमूलः, यवनः, गृञ्जनम्, गृञ्जनकम्, सुपीतम्, नारङ्गम्, शिखामूलम्, स्थौणेयम्, स्थौणेयकम्, सुमूलकम्
noun
एकः क्षुपः यस्य कन्दः मिष्टः अस्ति।
"सः कृषीक्षेत्रात् गाजराणि उन्मूलयति।"
Synonyms:
गोधूम, बहुदुग्धः, अपूपः, म्लेच्छभोजनः, यवनः, निस्तुषक्षीरः, रसालः, सुमनाः
noun
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्।
"कृषीवलः गोधूमं भूमौ वपति।"
Synonyms:
यवनः
noun
मुहम्मद महोदयेन स्थापितस्य सम्प्रदायस्य अनुयायी।
"भारतदेशे हिन्दुः यवनः ख्रिस्तः आनन्देन निवसन्ति।"
Synonyms:
यवनः
noun
एकः राजवंशः
"यवनस्य उल्लेखः पुराणे वर्तते"
Synonyms:
यवनः
noun
एका जातिः
"यवनस्य उल्लेखः गौतमधर्मशास्त्रे वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: यवनः
Root: यवनः
Gender: undefined
Number: undefined
अर्थः कुञ्जरग्रहात् जीवति
Meaning(s):
Ugra who is an elephant catcher
Shloka(s):
3|5|72|2 निषादो व्यालादिवधाद्यवनः कुञ्जरग्रहात्॥ (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
3|5|72|2 यवनाः (यवन) (पुं) Ugra who is an elephant catcher कुञ्जरग्रहात् जीवति
Related word(s):
परा_अपरासंबन्धः उग्रः1
Tamil
Tamil
யவன: : வெளி நாட்டவன், கிரேக்க நாட்டினன்.
शब्दकल्पद्रुमः
Sanskrit
यवनः,
पुं,
देशविशेषः (यथा, मात्स्ये १२० ४३ ।“तान् देशान् प्लावयन्ति स्मम्लेच्छप्रायांश्च सर्व्वशः ।सशैलान् कुकुरान् रौध्रान् वर्वरान् यवनान्खसान्
”)वेगः वेगाधिकाश्वः इति मेदिनी
गोधूमः ।गर्जरतृणम् तुरुष्कः इति राजनिर्घण्टः
(यौति मिश्रीभवतीति यु + “सुयुरुवृञोयुच् ।” उणा० ७४ इति युच् ।) जाति-विशेषः इति शब्दरत्नावली
तु यवन-देशोद्भवययातिराजपुत्त्रतुर्व्वसुवंशः यथा, --“यदोस्तु जाता यदवस्तुर्व्वसोर्यवनाः सुताः ।द्रुह्योस्तु तनया भोजा अनोस्तु म्लेच्छजातयः ।पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव !
”इति मात्स्ये ३४ अध्यायः
*
सगरराजेनैषां सर्व्वशिरोमुण्डनं सर्व्वधर्म्मराहि-त्यञ्च कृतं ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वंययुरिति विष्णुपुराणोक्तत्वात् यवनः मोसल-मानेङ्गरेजोभयजातिवाचकः यवनशब्दश्चवर्ग-तृतीयादिरिति रघुनन्दनभट्टाचार्य्येण लिखि-तम्
जवनादीनान्तु सर्व्वधर्म्मराहित्यमुक्तंहरिवंशे यथा, --“सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य ।धर्म्मं जघान तेषां वै वेशान्यत्वं चकार
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।जवनानां शिरः सर्व्वं काम्बोजानान्तथैव
पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः ।निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना
शका जवनकाम्बोजाः पारदाः पह्नवास्तथा ।कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः
वशिष्ठवचनाद्राजन् ! सगरेण महात्मना ।शकानां शकदेशोद्भवानां क्षत्त्रियाणां एवं जव-नादीनामिति अत्र जवनशब्दस्तद्देशोद्भव-वाची चवर्गतृतीयादिः जवनो देशवेगिनो-रिति त्रिकाण्डशेषाभिधानदर्शनात् तेषांम्लेच्छत्वमप्युक्तं विष्णुपुराणे तथा कृतान्जवनादीनुपक्रम्य ते चात्मधर्म्मपरित्यागात्म्लेच्छत्वं ययुरिति बौधायनः ।“गोमांसखादको यश्च विरुद्धं वहु भाषते ।धर्म्माचारविहीनश्च म्लेच्छ इत्यभिधीयते
”इति प्रायश्चित्ततत्त्वम्
*
यवनादीनां राज्यकालो यथा, --“सप्त गर्द्दभिनश्चापि शकाश्चाष्टादश स्मृताः ।यवनाष्टौ भविष्यन्ति तुखारश्च भविष्यति
अष्टौ ते यवना राज्यं वर्षाणां परिसङ्ख्यया ।भोक्ष्यन्त्यशीति तद्वच्च येऽपि गर्द्दभिनः स्मृताः
शतानि त्रीणि वर्षाणां द्व्यशीतीनि शतानि वै ।शकानां राज्यकालः स्याद्भविष्यो निश्चयोगतः
शतस्यार्द्धं चतुर्थानि वर्षाणां राज्यभागिनः ।मरुत्तानां सुताः काला यस्मिन् भोक्ष्यन्ति तेमहीम्
मरुत्ता वृषलैः सार्द्धं तथान्ये म्लेच्छसम्भवाः ।भोक्ष्यन्ति राज्यं प्राच्येषु भविष्ये तद्बिधारितम्
शतानि त्रीणि वर्षाणां पौण्ड्रा राज्यभुजःस्मृताः ।अश्नन्ति पार्व्वतेयास्तु द्वे शते परिसङ्ख्यया
शतार्द्धमन्यच्च तथा राज्यं भोक्ष्यन्ति ते नृपाः ।सप्तषष्टिस्तु वर्षाणि दशातीवाह्यतः स्मृताः
तेषु च्छन्नेषु कालेषु ततः किलकिला नराः ।भविष्यन्तीह यवना धर्म्मतः कामतोऽर्थतः
तैविमिश्रा जनपदा आर्य्या म्लेच्छाश्च सर्व्वशः ।विपर्य्ययेण वर्त्तन्ते जनयिष्यन्ति वै प्रजाः
लब्ध्वानिष्टवरञ्चैव भवितारस्तदा नृपाः ।तेषां व्यतीते पर्य्याये बहुवर्षयुगांस्तदा
राजानः संप्रणश्यन्ति कालेन महता ततः ।कल्किना ताडिताः सर्व्वे आर्य्या म्लेच्छाश्चसर्व्वशः
अधार्म्मिकाश्च ये सर्व्वे पाषण्डाश्चैव सर्व्वशः ।व्युष्टे नृपतिशब्दे वै सन्ध्याशिष्टे वै कलौ
”इति ब्रह्माण्डपुराणे ३९ अध्यायः
मुनिविशेषः यथा, --“जातं दिनं दूषयते वशिष्ठ-श्चाष्टौ गर्गो यवनो दशाहम् ।जन्माख्यमासं किल भागुरिश्चव्रते विवाहे क्षुरकर्णवेधे
”इति तिथ्यादितत्त्वम्
*
कालयवनोत्पत्तिर्यथा, --श्रीपराशर उवाच ।“गार्ग्यं गोष्ठे द्विजं श्यालः षण्ढैत्युक्तवान् द्विज ।यदूनां सन्निधौ सर्व्वे जहसुर्यादवास्ततः
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।सुतमिच्छं स्तपस्तेपे यदुचक्रभयावहम्
आराधयन्महादेवं सोऽयश्चूर्णमभक्षयत् ।ददौ वरञ्च तुष्टोऽस्मै वर्षे द्वादशमे हरः
सभाजयामास तं यवनेशो ह्यनात्मजः ।तद्योषित्सङ्गमाच्चास्य पुत्त्रोऽभूदलिसन्निभः
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।अभिषिच्य वनं यातो वज्राग्रकठिनोरसम्
वीर्य्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।पप्रच्छ नारदश्चास्मै कथयामास यादवान्
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।गजाश्वरथसम्पन्नैश्चकार परमोद्यमम्
प्रययौ चाव्यवच्छिन्नं छिन्नयानो दिने दिने ।यादवान् प्रति सामर्षो मैत्रेय मथुरां पुरीम्
कृष्णोऽपि चिन्तयामास क्षयितं यादवं कुलम् ।यवनेन रणे गम्यं मागधस्य भविष्यति
मागधस्य बलं क्षीणं कालयवनो बली ।हन्ता तदिदमायातं यदूनां व्यसनं द्विधा
तस्माद्दूर्गं करिष्यामि यदूनामतिदुर्जयम् ।स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णिपुङ्गवाः
”“इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् ।ययाचे द्वादशपुरीं द्वारकां तत्र निर्म्ममे
मथुरावासिनो लोकांस्तत्रानीय जनार्द्दनः ।आसन्ने कालयवने मथुराञ्च स्वयं ययौ
वहिरावासिते सैन्ये मथुराया निरायुधः ।निर्जगाम गोविन्दो ददृशे यवनश्च तम्
ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः ।अनुयातो महायोगिचेतोभिः प्राप्यते यः
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।तत्र शेते महावीर्य्यो मुचुकुन्दो नरेश्वरः
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् ।पादेन ताडयामास कृष्णं मत्वा सुदुर्म्मतिः
दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निबा ।तत्क्रोधजेन मैत्रेय ! भस्मीभूतश्च तत्क्षणात्
”इति विष्णुपुराणे अंशे २३ अध्यायः
यवनः, त्रि, (यौतीति यु + “नन्दिग्रहीति ।” ।१ १३४ इति ल्युः ।) वेगी इति मेदिनी ।ने, १११
(यथा, नैषधचरिते ६५ ।“तमश्ववारा यवनाश्वयायिनंप्रकाशरूपा मनुजेशमन्वयुः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“शीङ् स्वप्ने”@} 2 शायकः-यिका, शायकः-यिका, 3 शिशयिषकः-षिका, 4 शाशय्यकः-य्यिका
5 शयिता-त्री, शाययिता-त्री, शिशयिषिता-त्री, शाशय्यिता-त्री
-- शाययन्-न्ती, -- शाययिष्यन्-न्ती-ती
-- 6 शयानः, 7 8 शाययमानः, शिशयिषमाणः, शाशय्यमानः
शयिष्यमाणः, शाययिष्यमाणः, शिशयिषिष्यमाणः, शाशय्यिष्यमाणः
9 सुखशीः-सुखश्यौ-सुखश्यः
-- -- -- 10 शयितम्-तः 11 -तवान्, शायितः, शिशयिषितः, शाशयितः-तवान्
12 शयः, 13 इति ग्रह्यादिपाठात् विपूर्वकात् णिनिप्रत्ययः।
निपातनात् देशविशेषवाचकत्वे वृद्ध्यभावः।
अन्यत्र विशायी इत्येव।]] विशयी, 14 15 खेशयः-खशयः, 16 बिलेशयः, 17 पूर्वाह्णशयः, 18 पार्श्वशयः, उरश्शयः, उदरशयः, पृष्ठशयः, हस्तशयः, ऊर्ध्वशयः, 19 उत्तानशयः, 20 अवमूर्धशयः, 21 दिग्धसहशयः, 22 गिरिशः, 23 24 शयालुः, 25 26 शयितः, 27 अतिशयितो गुरुं शिष्यः-अतिशयितो गुरुः शिष्येण, 28 ग्रामम् 29 अधिशयानः, 30 स्थण्डिलशायी 31 तरुस्थलशयी, 32 शेषशायी-अब्धिशायी, 33 रङ्गशायी, 34 शयानो भुङ्क्ते यवनः, शायः, शिशयिषुः-शिशाययिषुः, शाशयः
शयितव्यम्, शाययितव्यम्, शिशयिषितव्यम्, शाशय्यितव्यम्
35 शयनीयम् 36 , शायनीयम्, शिशयिषणीयम्, शाशय्यनीयम्
शेयम्, शाय्यम्, शिशयिष्यम्, शाशय्यम्
ईषच्छयः-दुश्शयः-सुशयः
-- -- 37 शय्यमानः, शाय्यमानः, शिशयिष्यमाणः, शाशय्यमानः
38 शयः, तव 39 उपशायः 40 -विशायः, उपशयः, विशयः, 41 संशयः-सांशयिकः, 42 43 अतिशयः-आतिशायिकः-आतिशयिकः, शायः, शिशयिषः, शाशय्यः
शयितुम्, शाययितुम्, शिशयिषितुम्, शाशय्यितुम्
44 संशीतिः 45 शय्या 46 , 47 सुखशायिका, 48 सुशयिका, शायना, शिशयिषा-शिशाययिषा, शाशय्या
शयनम्, 49 सुखशयनम्-सौखशायनिकः, श्मशानम् 50 , 51 अतिशायनम्-अतिशय- नम्-आतिशायनिकम्, शायनम्, शिशयिषणम्, शाशय्यनम्
52 शयित्वा, 53 शाययित्वा, शिशयिषित्वा, शाशय्यित्वा
54 उपशय्य, विशाय्य, प्रशिशयिष्य, प्रशाशय्य
शायम् शयित्वा शायम् शाययित्वा शिशयिषम् शिशयिषित्वा शाशय्यम्
शाशय्यित्वा
55 उप्रत्ययः।]] शयुः, 56 शयानकः, 57 शीधुः-शीलम्-शैवालम्-शेवलः, 58 शेवः, शेपः, 59 शिखा, 60 शिनिः, 61 निशीथः।
प्रासङ्गिक्यः
01
=>
(१७१७)
02
=>
(२-अदादिः-१०३२। अक। सेट्। आत्म।)
03
=>
[[२। सन्नन्तात् द्विर्वचनादिकेषु कृतेषु सर्वत्र रूपमेवं बोध्यम्।]]
04
=>
[[३। यङन्ते प्रत्ययस्य ङित्त्वात् ‘अयङ् यि क्ङिति’ (७-४-२२) इत्ययङ् सर्वत्र बोध्यः।]]
05
=>
[[४। ‘इवर्णेष्वथ शीङ्श्रिञावपि’ (व्याघ्रभूतिकारिका
\n\n काशिका ७-२-१०) इति वचनाद् धातोः इड् भवतीति बोध्यम्।]]
06
=>
[[५। शानच्प्रत्ययस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावेन यद्यपि ‘क्ङिति च’ (१-१-५) इति गुणनिषेधोऽत्र प्राप्तः
\n\n तथापि ‘शीङः सार्वधातुके गुणः’ (७-४-२१) इति विशेषविधानाद् गुणो भवतीति बोध्यम्। ‘शयाना भुञ्जते यवनाः’ इत्यत्र ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति शानच् इति ज्ञेयम्।]]
07
=>
[[आ। ‘शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।]]
08
=>
[[६। अचित्तवत्कर्तृकत्वे एवं शानजपि ण्यन्तात् भवतीति माधवः। चित्तवत्कर्तृकत्वे तु ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति नित्यं परस्मैपदमेव।]]
09
=>
[[७। सुखं शेते इति सुखशीः। द्विवचनादौ ‘एरनेकाचोऽसंयोगपूर्वस्य’ (६-४-८२) इति यणि सुखश्यौ सुखश्यः इत्यादीनि बोध्यानि।]]
10
=>
[[८। ‘निष्ठा शीङ्--’ (१-२-१९) इति वचनात् धातोरत्र निष्ठाया अकित्त्वम्। तेन गुणः।]]
11
=>
[[B। ‘मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम्।।’ भ। का। ७-१०३।]]
12
=>
[[९। पचादिपाठादच्प्रत्ययः। गुणायादेशौ।]]
13
=>
[[१०। ‘विशयी देशे’ [ग। सू। ३-१-१३४]
14
=>
[पृष्ठम्१३००+ २९]
15
=>
[[१। खे शेते इति खेशयः--खशयः। ‘अधिकरणे शेतेः’ (३-२-१५) इति अच्प्र- त्ययः। ‘शयवासवासिष्वकालात्’ (६-३-१८) इति पाक्षिकः सप्तम्या अलुक्। एवं रङ्गेशयः अद्रिशयः बिलेशयः कुशेशयम् इत्यादयो बोध्याः।]]
16
=>
[[आ। ‘अब्भ्रेण खे सञ्चरमाण आरात् बिलेशयद्वेषिसमानजूतिः। वा। वि। २-२३।]]
17
=>
[[२। पूर्वाह्णे शेते इति पूर्वाह्णशयः। अत्र कालार्थकत्वात् सप्तम्याः पाक्षिकोऽप्यलुक्-- ‘-- अकालात्’ (६-३-१८) इत्युक्तेः।]]
18
=>
[[३। पार्श्वाभ्यां शेते पार्श्वशयः। उरसा शेते उरश्शयः। एवं उदरशयः पृष्ठशयः इत्यादयो ज्ञेयाः। अत्र सर्वत्र ‘पार्श्वादिषूपसंख्यानम्’ (वा। ३-२-१५) इति अच्प्रत्ययः।]]
19
=>
[[४। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। अत्र ‘उत्तानादिषु कर्तृषु’ (वा। ३-२-१५) इति अच्प्रत्ययः।]]
20
=>
[[B। ‘शौरिर्यशोदाशयने न्यधात्ताम् आदत्त चोत्तानशयां कुमारीम्।’ वा। वि। ३-४०।]]
21
=>
[[५। दिग्धेन सह शेते इति दिग्धसहशयः। ‘दिग्धसहपूर्वाच्च’ (वा। ३-२-१५) इति अच्प्रत्ययः। ‘दिग्धसह’ इत्यत्र, मयूरव्यंसकादित्वात् (२-१-७२), अस्मादेव निर्देशाद्वा तत्पुरुषसमासः। तत उपपदसमासः।]]
22
=>
[[६। ‘गिरौ डश्छन्दसि’ (वा। ३-२-१५) इति गिरावुपपदे शेतेर्डप्रत्ययः। प्रत्ययस्य डित्त्वेन टेर्लोपः। गिरिरस्यास्तीत्यर्थे लोमादित्वात् (५-२-१००) शप्रत्ययेन प्रसाध्य भाष्ये वार्त्तिकमिदं प्रत्याख्यातम्। निमित्तावधिसंकरत उभयमपि प्रमाणमद्यत्वे इति सिद्धान्तः।]]
23
=>
[[C। ‘आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम्।।’ कु। सं। १-३७।]]
24
=>
[[७। ‘आलुचि शीङो ग्रहणम्’ (वा। ३-२-१५८) इत्यालुच् ताच्छीलिकः। शयनशीलः शयालुः।]]
25
=>
[[ड्। ‘हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान्।।’ शि। व। २-८०।]]
26
=>
[[८। ‘मतिबुद्धि--’ (३-२-१८८) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् अस्मादपि धातोः वर्तमाने क्तप्रत्ययः।]]
27
=>
[[९। ‘गत्यर्थाकर्मकश्लिषशीङ्--’ (३-४-७२) इत्यादिनाऽत्र कर्तृकर्मणोर्यथासम्भवं क्तप्रत्ययो ज्ञेयः। उपसर्गवशादत्र धातुस्सकर्मक इत्यवधेयम्।]]
28
=>
[पृष्ठम्१३०१+ ३०]
29
=>
[[१। अत्र ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इत्याधारस्य कर्मत्वम्।]]
30
=>
[[२। ‘व्रते’ (३-२-८०) इति णिनिः। स्थण्डिल एव शेते स्थण्डिलशायी। यस्स्थण्डिल एव व्रतविशेषानुपालनार्थं शेते एवमुच्यते। यस्तु कदाचित् कटाद्यभावात् स्थण्डिले शेते सः स्थण्डिलशय इत्युच्यते इति बोध्यम्।]]
31
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१]]
32
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
33
=>
[[B। ‘पृक्ताग्रजः पृञ्जितगोपसूनुर्दृष्टोऽब्धिशायी जनैर्युवद्भिः।।’ धा। का। २-४६]]
34
=>
[[४। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति लक्षणार्थे शानच्। शयानानामेव सतां भोजनकरणं यवनलक्षणमिति समुदितार्थः।]]
35
=>
[[५। अधिकरणेऽप्यनीयर्प्रत्ययो भवति, बाहुलकात्। शेरतेऽस्मिन् इति शयनीयम्।]]
36
=>
[[C। ‘गतमाभरणप्रयोजनं शयनीयं परिशून्यमद्य मे।।’ रघु। ८-६५]]
37
=>
[[६। यकि, ‘अयङ् यि क्ङिति’ (७-४-२२) इति अयङ् आदेशः। आदेशस्य अनेकाल्त्वेऽपि ‘ङिच्च’ (१-१-५३) इत्यन्त्यस्येकारस्यादेशः।]]
38
=>
[[७। ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः।]]
39
=>
[[८। पर्यायार्थे गम्यमाने, वि, उप इत्युपसर्गाभ्यां परस्यास्य ‘व्युपयोः शेतेः पर्याये’ (३-३-३९) इति घञ् प्रत्ययः, इवर्णान्तत्वलक्षणाच्प्रत्ययस्यापवादः। तव विशायः। मम राजोपशायः, राजानमुपशयितुं पर्याय इत्यर्थः। पर्यायभिन्नार्थे तु उपशयः, विशयः इत्यजेव।]]
40
=>
[[ड्। ‘निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः।।’ भ। का। ७-४१]]
41
=>
[[९। संशय्यते इति संशयः = सन्देहः। संशयं आपन्नोऽर्थः सांशयिकः। ‘संशयमाप- न्नः’ (५-१-७३) इति ठञ्। सांशयिकः स्थाणुः। स्थाणुः संशयं = पुरुष इति सन्देहमापन्न इत्यर्थः। अमरसिंहस्तु ‘सांशयिकः संशयापन्नमानसः’ (३-१-५) इति संशयकर्तर्यपि प्रयोगमनुमेने
\n\n द्वितीयान्तप्रकरणे पुनः ‘संशयं--’ (५-१-७३) इति द्वितीयान्तत्वेनैव पाठात् कर्भण्येव प्रत्ययो तु कर्तरि इति न्यासपद- मञ्जर्यादिषु स्पष्टम्।]]
42
=>
[पृष्ठम्१३०२+ २९]
43
=>
[[१। अतिशेते इत्यतिशयः। उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। अतिशये भवः आतिशायिकः, अध्यात्मादित्वात् (५-४-४४) ठञ्। अनुशतिकादित्वात् (७-३-२०) उभयपदवृद्धिः। ‘व्याप्तमातिशयिकेन रसेन’ (माघः १०-२३) इत्यत्र तु विन- यादित्वात् (५-४-३४) ठक्।]]
44
=>
[[२। भावे क्तिन्। संशीतिः = संशयः। ‘तितुत्र--’ (७-२-९) इतीण्न्{??}एइषेधः।]]
45
=>
[[३। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति संज्ञायां गम्यमानायां स्त्रियां भावादौ क्यप्प्रत्ययः। शेरतेऽस्यामिति शय्या। कित्त्वादयङ्।]]
46
=>
[[आ। ‘शय्योत्थायं मृगान् विघ्यन्नातिथेयो विचक्रमे।।’ भ। का। ४-८]]
47
=>
[[४। सुखशयनम् सुखशायिका। धात्वर्थनिर्देशे स्त्रियां ण्वुल्।]]
48
=>
[[५। शोभनः शयोऽस्याः सुशयिका। ‘प्रत्ययस्थात् कात्--’ (७-३-४४) इतीकारः।]]
49
=>
[[६। सुखेन शयनम्--सुखशयनम्। सुखशयनं पृच्छतीति सौखशायनिकः। ‘पृच्छतौ सुस्नातादिभ्यः’ (वा। ४-४-१) इति ठक्। ‘भृग्वादीन् अनुगृह्णन्तं सौखशायनिकान् ऋषीन्।।’ (रघुवंशः १०-१४)]]
50
=>
[[७। शवानां शयनम् = श्मशानम्। पृषोदरादित्वात् (६-३-१०९) शवशब्दस्य श्मादेशः, शयनशब्दस्य ‘शान’ इत्यादेशः। काशिका (६-३-९) द्रष्टव्या।]]
51
=>
[[८। अतिशयनम् एव अतिशायनम्। ‘अतिशायने तमबिष्ठनौ’ (५-३-५५) ‘नित्ययोगेऽतिशायने।’ (वा। ५-२-९४) इति सूत्रवार्त्तिकादिनिर्देशात् ल्युडन्ते दीर्घः पाक्षिकः
\n\n तेन अतिशयनम् अतिशायनम् इत्युभयमपि साधु। वाच्यम्-- ‘बाधकान्येव निपातनानि’ (परिभाषा। ११९) इति वचनात् अतिश- यनम् इत्यसाव्वेवेति
\n\n यतः ‘अबाधकान्यपि निपातनानि’ (परि १२०) इति वचनात् उभयमपि साच्वेवेति माधवः। वस्तुतः ‘अज्विधौ भयादीनामुपसंख्यानम्-- नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनात् अस्य धातोः अतिपूर्वस्य ल्युटि रूपस्यानभिधानमेव
\n\n अत एव निर्देशात् अतिशायनम् इत्येकमेव रूपं साधु इति प्रतीमः।]]
52
=>
[[९। ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् गुणोऽत्र।]]
53
=>
[[B। ‘… शयित्वा रजनीं सपौरः।’ भ। का। ३-१६।]]
54
=>
[पृष्ठम्१३०३+ २९]
55
=>
[[१। अत्यर्थं शेरते इति शयुः = अजगरः। औणादिकः [द। उ। १-९२]
56
=>
[[२। औणादिके (द। उ। २६) आकप्रत्यये शयानकः इति भवति।]]
57
=>
[[३। ‘शीङो धुक्लग्वलन्वालनः’ (द। उ। १०-९) इति क्रमेण धुगादिप्रत्ययेषु रूपाणीमानि सिद्धानि। शीधुः = मदिरा। केचित् शीथुः इति पठन्ति। शीलम् = स्वभावः। शेवल-शैवालौ जललताविशेषवाचकौ।]]
58
=>
[[४। औणादिके (द। उ। ८-१२६) वन्प्रत्यये रूपम्। शेवः सर्पः। शेवा इति केचित्। औणादिके (द। उ। ६-६९) इति क्वनिप्प्रत्यये तु शीवा इति भवति।]]
59
=>
[[५। औणादिके (द। उ। ३-५५) खप्रत्यये शिखा केशबन्धः।]]
60
=>
[[६। औणादिके निप्रत्यये धातोर्ह्रस्वे रूपम्। शिनिः क्षत्रियविशेष इति माधवः।]]
61
=>
[[७। नितरां शेरतेऽस्मिन् प्राणिन इति निशीथः = अर्धरात्रम्। औणादिकस्थक्प्रत्ययोऽत्र।]]