| YouTube Channel

यवतैलं (yavatailaM)

 
शब्दकल्पद्रुमः
Sanskrit
यवतैलं,
क्ली,
(यवनिर्म्मितं तैलम् ।) यवचूर्णादि-युक्तपक्वतैलविशेषः तत्प्रकारं गुणञ्चाह ।“यवचूर्णार्द्धकुडवं मञ्जिष्ठार्द्धपलेन तु ।तैलप्रस्थः शतगुणे काञ्जिके साधितो जयेत् ।ज्वरं दाहं महावेगमङ्गानाञ्च प्रहर्षणम्
”इति सुखबोधः