ययातिः (yayAtiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishययातिः [yayātiḥ], [यस्य वायोरिव यातिः सर्वत्र रथगतिर्यस्य Tv.] of a celebrated king of the lunar race, son of Nahuṣa
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव 4.7. [He married Devayānī, daughter of Śukra, and Śarmiṣṭhā, daughter of the king of Asuras, was told by her father to be her servant as a sort of recompense for her insulting conduct towards her on a previous occasion. (See Devayānī.) But Yayāti fell in love with this servant and privately married her. Aggrieved at this, Devayānī went to her father and complained of the conduct of her husband, on whom, therefore, Śukra inflicted premature infirmity and old age. Yayāti, however, propitiated him and obtained from him permission to transfer his decrepitude to any one who would consent to take it. He asked his five sons, but all refused except Puru, the youngest. Yayāti accordingly transferred his infirmity to Puru, and being once more in the prime of youth, passed his time in the enjoyment of sensual pleasures. This he did for 1 years, and yet his desire was not satisfied. At last, however, with a vigorous effort he renounced his sensual life, restored his youth to Puru, and having made him successor to the throne, repaired to the woods to lead a pious life and meditate upon the Supreme Spirit.]
Apte 1890
Englishययातिः [यस्य वायोरिव यातिः सर्वत्र रथगतिर्यस्य Tv.] N. of a celebrated king of the lunar race, son of Nahusha
ययातरिव शर्मिष्ठा भर्तुर्बहुमता भव Ś. 4. 6. [He married Devayānī, daughter of Śukra, and Śarmiṣṭhā, daughter of the king of Asuras, was told by her father to be her servant as a sort of recompense for her insulting conduct towards her on a previous occasion
(see Devayānī.) But Yayāti fell in love with this servant and privately married her. Aggrieved at this Devayānī went to her father and complained of the conduct of her husband, on whom, therefore, Śukra inflicted premature infirmity and old age. Yayāti, however, propitiated him and obtained from him permission to transfer his decrepitude to any one who would consent to take it. He asked his five sons, but all refused except Puru, the youngest. Yayāti accordingly transferred his infirmity to Puru, and being once more in the prime of youth, passed his time in the enjoyment of sensual pleasures. This he did for 1000 years, and yet his desire was not satisfied. At last, however, with a vigorous effort he renounced his sensual life, restored his youth to Puru, and, having made him successor to the throne, repaired to the woods to lead a pious life and meditate upon the Supreme Spirit].
Apte Hindi
Hindiययातिः
- यस्य वायोरिव यातिः सर्वत्र रथगतिर्यस्य
"एक प्रसिद्ध चन्द्रवंशी राजा का नाम, नहुष का पुत्र"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit ययातिः, नाहुषिः, नाहुषः
नृपनामविशेषः-नहुषराजपुत्रः।
"नहुषस्य प्रवक्ष्यामि पुत्रान् सप्तैव धर्मिकान्। यतिर् ययातिः संयातिरुद्भव पञ्चमस्तथा॥ स्वर्यातिर् मेघयातिश्च सप्तैते वंशवर्धनाः॥"
शब्दकल्पद्रुमः
Sanskritययातिः, नहुषराजपुत्त्रः । तत्पर्य्यायः । नाहुषिः२ । इति त्रिकाण्डशेषः ॥
नाहुषः ३ । इतिजटाधरः ॥
तस्योपाख्यानं यथा, --“नहुषस्य प्रवक्ष्यामि पुत्त्रान् सप्तैव धार्म्मिकान् ।यतिर्ययातिः संयातिरुद्भवः पञ्चमस्तथा ॥
स्वर्यातिर्मेघयातिश्च सप्तैते वंशवर्द्धनाः ।ययातिरकरोद्राज्यं धर्म्मैकशरणस्तदा ॥
शर्म्मिष्ठा तस्य भार्य्याभूत् दुहिता वृषपर्व्वणः ।भार्गवस्याङ्गजा तद्वद्देवयानी च सुव्रता ॥
ययातिर्देवयान्यान्तु पुत्त्रावजनयन्नृपः ।यदुञ्च तुर्व्वसुञ्चैव शक्रविष्णू इवापरौ ॥
तस्मादेव तु राजर्षेः शर्म्मिष्ठा वार्षपर्व्वणी ।द्रुह्यञ्चानुञ्च पूरुञ्च त्रीन् कुमारानजीजनत् ॥
ततः काले च कस्मिंश्चिद्देवयानी शुचिस्मिता ।ययातिसहिता राजन् जगाम हरितं वनम् ॥
ददर्श च तदा तत्र कुमारान् देवरूपिणः ।क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत् ॥
किन्नामधेयं गोत्रं वः पुत्रकाः ! ब्राह्मणः पिता ।विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥
तेऽदर्शयन् प्रदेशिन्या तमेव नृपसत्तमम् ॥
बुद्ध्वा च तत्त्वतो देवी शर्म्मिष्ठामिदमब्रवीत् ॥
ममाधीना सती कस्मादकार्षीर्विप्रियं मम ॥
शर्म्मिष्ठोवाच ।यदा तया वृतो राजा वृत एव तदा मया ।त्वत्तो हि मे पूज्यतमो राजर्षिः किं न वेत्सितत् ॥
शौनक उवाच ।श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥
अविब्रुवन्ती किञ्चिच्च राजानं साश्रुलोचना ।अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिके ॥
देवयान्युवाच ।शर्म्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्व्वणः ।त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना ।दुर्मगाया मम द्वौ तु पुत्रौ तात ! ब्रवीमि वः ॥
शुक्र उवाच ।धर्म्मज्ञः सन् महाराज ! योऽधर्म्ममकृथाः प्रियम् ।तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्ज्जया ॥
ययातिरुवाच ।ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः ।नोपैति सह धर्म्मेण भ्रूणहेत्युच्यते बुधैः ॥
अधर्म्मभयसंविग्नः शर्म्मिष्ठामुपजग्मिवान् ॥
अतृप्तो यौवनस्याहं देवयान्या भृगूद्वह ! ।प्रसादं कुरु मे ब्रह्मन् जरेयं मा विशेत माम् ॥
शुक्र उवाच ।नाहं मृषा ब्रवीम्येतत् जरां प्राप्तोऽसि भूमिप ! ।जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि ॥
वयो दास्यति पुत्त्रो यः स ते राजाभविष्यति ॥
”इति मात्स्ये ३२ अध्यायः ॥
* ॥
शौनक उवाच ।“जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।पुत्त्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्बचः ॥
त्वं यदो ! प्रतिपद्यस्व पाप्मानं जरया सह ।यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह ॥
यदुरुवाच ।सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ! ।जरां ग्रहीतुं धर्म्मज्ञ ! पुत्रमन्यं वृणीष्व वै ॥
ययातिरुवाच ।यो मे त्वं हदयाज्जातो वयः स्वं न प्रयच्छसि ।पापान्मातुलसम्बन्धात् दुष्प्रजा ते भविष्यति ॥
तुर्व्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।यौवनेन चरेयं वै विषयांस्तव पुत्रक ! ॥
तुर्व्वसुरुवाच ।न कामये जरां तात ! कामभोगप्रणाशिनीम् ।बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥
ययातिरुवाच ।यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्मात् प्रजा समुच्छेदं तुर्व्वसो ! तव यास्यति ॥
द्रुह्यो ! त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।जरां वर्षसहस्राणि यौवनं स्वं प्रयच्छ च ॥
द्रुह्युरुवाच ।न गजं न रथं चाश्वं जीर्णो भुङ्क्ते वरस्त्रियम् ।नारोगश्चास्य भवति तां जरां ते न कामये ॥
ययातिरुवाच ।यस्त्व मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्मात् द्रुह्यो ! प्रियः कामो न ते सम्पत्स्यतेक्वचित् ॥
अनो ! त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।एकं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥
अनुरुवाच ।जीर्नः शिशुरिवादत्ते कालेऽन्नमशुचिर्यथा ।न जुहोति च कालेऽग्निं तां जरां नैव कामये ॥
ययातिरुवाच ।यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।जरादोषस्त्वयोक्तो यस्तस्मात्तं प्रतिपत्स्यसे ॥
पूरो ! मे त्वं प्रियः पुत्त्र ! त्वं वरीयान् भविष्यसि ।काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥
पूरो ! त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।किञ्चित्कालं चरेयं वै विषयान् वयसा तव ॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ।स्वञ्चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
शौनक उवाच ।एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ।यथात्थ त्वं महाराज ! तत् करिष्यामि ते वचः ॥
ययातिरुवाच ।पूरो ! प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।सर्व्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥
”इति मात्स्ये ३३ अध्यायः ॥
* ॥
शौनक उवाच ।“पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् सुखी ॥
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ।पूरो ! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौ-वनम् ॥
राज्यञ्चापि गृहाणेदं यत् त्वयोपकृतं पुरा ॥
शौनक उवाच ।एवं स नाहुषो राजा ययातिः पुत्त्रमीप्सितम् ।राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥
उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः ।फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥
”इति मात्स्ये ३५ अध्यायः ॥
* ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
