| YouTube Channel

यमुनाभित् (yamunAbhit)

 
शब्दकल्पद्रुमः
Sanskrit
यमुनाभित्, [द्]
पुं,
(यमुनां भिनत्तीति भिद् +क्विप् ।) बलदेवः इति हेमचन्द्रः १३८
(एतद्वृत्तान्तमुक्तं यथा, हरिवंशे १०२ ।३४ -- ३६ ।“स हलेनानताग्रेण कुले गृह्य महानदीम् ।चकर्ष यमुनां रामो व्युत्थितां वनितामिव
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।व्यावर्त्तत नदी भीता हलमार्गानुसारिणी
लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिनी ।सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता
”)