| YouTube Channel

यमलार्ज्जुनौ (yamalArjjunau)

 
शब्दकल्पद्रुमः
Sanskrit
यमलार्ज्जुनौ,
पुं,
(यमलौ तावर्ज्जुनौ चेतिकर्म्मधारयः ।) गोकुलस्थार्ज्जुनवृक्षद्वयम् तौकुवेरपुत्त्रौ नलकूवरमनिग्रीवौ नारदशापात्वृक्षतां गतौ श्रीकृष्णेन उद्धारितौ यथा, --“यदिमौ लोकपालस्य पुत्त्रौ भूत्वा तमःप्लुतौ ।न विवाससमात्मानं विजानीतः सुदुर्म्मदौ
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात्
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।वृत्ते स्वलोकतां भूयो लब्धभक्ती भविष्यतः
श्रीशुक उवाच ।स एवमुक्त्वा देवर्षिर्गतो नारायणाश्रमम् ।नलकूवरमणिग्रीवावासतुर्यमलार्ज्जुनौ
ऋषेर्भागवतमुख्यस्य सत्यं कर्त्तुं वचो हरिः ।जगाम शनकैस्तत्र यत्र स्तो यमलार्ज्जुनौ
देवर्षिर्मे प्रियतमौ यदिमौ धनदात्मजौ ।तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना
इत्यन्तरेणार्ज्जुनयोः कृष्णस्तु यमयोर्ययौ ।आत्मनिर्व्वेशमात्रेण तीर्य्यग्गतमुदूखलम्
बालेन निष्कर्षतान्वगुदूखलं तत्दामोदरेण तर्षोत्कलिताङ्घ्रिबन्धौ ।निष्पेततुः परमविक्रमितातिवेप-स्कन्धप्रबालविटपौ कृतचण्डशब्दौ
तत्र श्रिया परमया ककुभः स्फुरन्तौसिद्धावुपेत्य कुजयोरिव जातवेदाः ।कृष्णं प्रणम्य शिरसाखिललोकनाथंबद्धाञ्जली विरजसाविदमूचतुः स्म
वाणी गुणानुकथने श्रवणौ कथायांहस्तौ कर्म्मसु मनस्तव पादयोर्नः ।स्मृत्यां शिरस्तव निवासजगत्प्रणामेदृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम्
श्रीभगवानुवाच ।तद्गच्छतं मत्परमौ नलकूवरसादनम् ।संजातो मयि भावौ वामीप्सितः परमोऽभवः
श्रीशुक उवाच ।इत्युक्तौ तं परिक्रम्य प्रणम्य पुनः पुनः ।बद्धालूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम्
”इति श्रीभागवते १० स्कन्धे १० अध्यायः