| YouTube Channel

यमराजः (yamarAjaH)

 
Wordnet
Sanskrit
Synonyms:
यमः, यमराजः, यमराट्
noun
सः खगोलीयपिण्डः यः वरुणस्य अपेक्षा सूर्यात् अतीव दूरे वर्तते।
"अधुना वैज्ञानिकाः यमं खगोलीयपिण्डं मन्यन्ते।"
Synonyms:
यमराजः
noun
एकः चिकित्सकः
"यमराजस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
यमराजः,
पुं,
(यमश्चासौ राजा चेति “राजाहःसखिभ्यष्टच् ।” ९१ इति टच् ।) यमः ।इति हेमचन्द्रः ९९
अस्य पुर्य्यादि यथा, “पुरी संयमनी तस्य चित्रगुप्तस्तु लेखकः ।भृत्यौ चण्डमहाचण्डौ धूमोर्णाविजये प्रिये ।विचार भूमिका नीचिः सहायाः कालपूरुषाः
”इति जटाधरः
*
विमात्रा छायया शप्तः (यथा, मार्क-ण्डेये ७७ २५ -- २९ ।“छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।तथा संज्ञाकन्यायां पुत्त्रयोश्चान्ववर्त्तत
नलिनाद्युपभोगेषु विशेषमनुवासरम् ।मनुस्तत्क्षान्तवानस्या यमस्तस्या चक्षमे
ताडनाय वै कोपात् पादस्तेन समुद्यतः ।तस्याः पुनः क्षान्तिमता तु देहे निपातितः
ततः शशाप तं कोपात् छायासंज्ञा यमं द्बिज ।किञ्चित् प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा
पितुः पत्नीममर्य्यादं यन्मां तर्ज्जयसे पदा ।भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति
”)तच्छापान्तं यथा, --“स्वरूपधारिणीं चेमामानिनाय निजाश्रमम् ।संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः
ततः पूर्व्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।द्बितीयस्तु यमः शापाद्धर्म्मदृष्टिरभूत् सुतः
क्रिमयो मांसमादाय पादतस्ते महीतलम् ।पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्
धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।ततो नियोगं तं याम्ये चकार तिमिरापहः
यमुना नदी जज्ञे कलिन्दान्तरवाहिणी
”इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ७८ ।२५ -- २९