| YouTube Channel

यमयिता-त्री (yamayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“यम परिवेषणे”@} 2 3 चुरादिषु ज्ञपादिपञ्चकधातुप्रकरणे ‘यम परिवेषणे’ 4 इति पठ्यते।
तस्यायमर्थः--परिवेषणे = परिवेष्टनेऽर्थे यमधातुश्चुरादिषु बोध्यः
तस्य क्रमप्राप्तो मित्त्वादिस्तु भवतीति।
परिवेषणभिन्नार्थे तु औत्स- र्गिके भ्वादिपाठे, तस्माद्धेतुमण्णिचि नियामयति, नियामकः इत्यादिकानि रूपाणि तिङन्तादिषु भवन्तीति ज्ञेयम्।
‘यम च--’ इति दुर्गादिसम्मतः पाठः।
चकाररहितपाठस्तु क्षीरतरङ्गिणीदृष्टः।
‘अपरिवेषणे’ इत्यपि केषाञ्चित्पाठ इति क्षीरतरङ्गिण्यादितो ज्ञायते
पाठः पुरुषकार- माधवधातुवृत्तिप्रभृतिषु खण्डित इत्यलम्।
परिवेषणम् = वेष्टनम्।
भ्वादिषु पठितस्य ‘यमोऽपरिवेषणे’ इत्यस्य तु ‘परिवेषणम् = भोजनम्’ इत्यर्थ इति बोध्यम्।]] ‘यमेरुपरमे यच्छेत् यमयेत् परिवेषणे।’ 5 इति देवः।
यमकः-यमिका, यियमयिषकः-षिका, यमयिता-त्री, यियमयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचहयतिवत् 6 ज्ञेयानि।
शतरि 7 सुयमयन्।
प्रासङ्गिक्यः
01
=>
(१३४१)
02
=>
(१०-चुरादिः-१६२६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(ग। सू। चुरादौ)
05
=>
(श्लो। १४८)
06
=>
(५१५)
07
=>
[[आ। ‘चण्डातकं सुयमयन् चहको बभाषे।’ धा। का। ३-२५।]]