| YouTube Channel

यमद्वितीया (yamadvitIyA)

 
शब्दसागरः
English
यमद्वितीया
f.
(-या) The second day in the bright-half of KĀRTIKA when
sisters entertain their brothers: see भ्रातृद्वितीया
Monier Williams Cologne
English
यम—द्वितीया
f.
N.
of the 2nd day in the light half of the month Kārttika,
Cat.
Apte Hindi
Hindi
यमद्वितीया
स्त्री*
यमः-द्वितीया -
भाईदूज
Shabdartha Kaustubha
Kannada
यमद्वितीया
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾರ್ತಿಕಶುದ್ಧ ದ್ವಿತೀಯ
प्रयोगाः - > "कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर यमो यमुनया पूर्वं भोजितः स्वगृहे स्वयम् ॥"
उल्लेखाः - > भा०
L R Vaidya
English
yama-dvitIyA {% f. %} the seccnd day in the bright half of Kārtīka when sisters entertain their brothers.
Wordnet
Sanskrit
Synonyms:
यमद्वितीया
noun
कार्तिकमासस्य शुक्लपक्षस्य द्वितीया।
"यमद्वितीयायां भ्रातृद्वितीयायाः उत्सवं निर्वाहयन्ति।"
शब्दकल्पद्रुमः
Sanskrit
यमद्वितीया,
स्त्री,
(यमप्रिया द्बितीया इति मध्य-पदलोपिकर्म्मधारयः ।) कार्त्तिकशुक्लद्वितीया ।भ्रातृद्बितीया इति ख्याता तत्कृत्यं यथा ।लिङ्गपुराणे ।“कार्त्तिके तु द्वितीयायां शुक्लायां भ्रातृपूजनम् ।या कुर्य्याद्विनश्यन्ति भातरः सप्तजन्मनि
”तस्या इति शेषः महाभारते ।“कार्त्तिके शुक्लपक्षस्य द्बितीयायां युधिष्ठिर ! ।यमो यमुनया पूर्व्वं भोजितः स्वगृहे स्वयम् ।तस्मान्निजगृहे पार्थ ! भोक्तव्यमतो बुधैः
यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।दानानि प्रदेयानि भगिनीभ्यो विशेषतः
”तथा ।“यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् ।अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्बयैः
”सहजद्वयैर्भगिनीभ्रातृभिः अर्घ्यमन्त्रः ।“एह्येहि मार्त्तण्डज पाशहस्तयमान्तकालोकधरामरेश ।भ्रातृद्वितीयाकृतदेवपूजांगृहाण चार्घ्यं भगवन्नमस्ते
धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज ।पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते
”यमुनाञ्च संपूज्य नमस्कुर्य्यात् ।“यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते ।वरदा भव मे नित्यं सूर्य्यपूत्त्रि नमोऽस्तु ते
”अन्नं दत्त्वा पठेत् ।“भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।प्रीतये यमराजस्य यमुनाया विशेषतः
”ज्येष्ठा चेत् तदाग्रजाताहमिति वदेत्
अत्रभोक्तव्यं पुष्टिवर्द्धनं इति विधिसमभिव्याहृत-फलश्रुत्या भोजननियमस्य प्राधान्यात्तस्य मुख्य-कालोऽष्टधाविभक्तदिनपञ्चमांशो ग्राह्यः यथादक्षः ।“पञ्चमे तथा भागे संविभागो यथार्हतः ।पितृदेवममनुष्याणां कीटानाञ्चोपदिश्यते
संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् ।इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत्
”संविभागो विभज्यान्नस्य प्रतिपादनम् देवोऽत्रवैश्वदेवसम्बन्धी पञ्चमांशालाभे तु ।“न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।नातिप्रगे नातिसायं नातिसन्ध्यासमीपतः
”इति मनूक्तपर्य्यूदस्तसूर्य्योदस्तेतरकालोऽपिग्राह्यः सौहित्यं तृप्तिः अत्र भोजनस्य राग-प्राप्तत्वेऽपि तत्कालस्य ।“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनांनित्यम् ।अहनि तथा तमस्विन्यां सार्द्धप्रहरयामान्तः
”इति कात्यायनीयेन नियमितत्वाद्भोजनकालस्यवैधत्वेन शास्त्रीयत्वात् सामान्यशास्त्रप्राप्त्युप-जीविपर्य्युदासासङ्गतिः अत्रानध्ययनं भ्रान्ता-नाम् प्रेतपक्षोत्तरद्बितीयायां तन्निषेधात् ।यथा राजमार्त्तण्डे ।“प्रे को चै चा द्वितीयास्ताः प्रेतपक्षे गते तु या ।या तु कोजागरे याते चैत्र्यावल्याः परेऽपि
चातुर्मास्ये मसाप्ते द्वितीया या भवेत्तिथिः ।परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः
”ज्यातिषे तथा यमद्वितीयायां यात्रायां मरणंभवेत् इति तिथ्यादितत्त्वम्
*
अस्यां व्रत-विधानं यथा, --नारद उवाच ।“भगवन् ! प्रष्टुमिच्छामि त्वामहं विनया-न्वितः ।तद्व्रतं ब्रूहि मे स्वामिन् ! मृत्युं येन पश्यति
अल्पदोषं महत्पुण्यं शोभनं व्रतमुत्तमम् ।प्रसादं कुरु मे स्वामिन् ! यथाहं तत् करोमिभोः
ब्रह्मोवाच ।यदि चेच्छसि विप्रेन्द्र व्रतानां व्रतमुत्तमम् ।व्रतं यमद्बितीयाख्यं शृणु त्वं मृत्युवारणम्
कार्त्तिके मासि शुक्लायां द्वितीयायां मुनीश्वर ! ।कर्त्तव्यं तद्विधानेन ह्यपमृत्युनिवारणम्
ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेदात्मनो हितम् ।प्रातः कृत्वा द्विजः स्नानं दन्तधावनपूर्व्वकम्
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः
विधिं विष्णुञ्च रुद्रञ्च संस्थाप्यौडम्बरे शुमे ।पद्मं सप्तदलं कृत्वा पूजयेत् सुस्थमानसः
चन्दनागुरुकर्पूरकुङ्कुमैर्द्बिजसत्तम् ! ।पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलादिभिः फलैः
सरस्वतीञ्च वरदां वीणापुस्तकधारिणीम् ।ध्यायेत् शुक्लाम्बरधरां हंसवाहनसंस्थिताम्
ततो मृत्युविनाशार्थं सालङ्कारां पयस्विनीम् ।विप्राय वेदविदुषे गाञ्च दद्यात् सवत्सकाम्
अपमृत्युविनाशाय संसारार्णवतारिकाम् ।विप्र तुभ्यमिमां रौद्रीं धेनुं सम्प्रददे ह्यहम्
इति वाक्यविचारेण धेनुं दद्याद्द्विजातये ।कुलीनाय सुशान्ताय रोगहीनद्बिजाय वै
तदभावे चोदकुम्भं सवस्त्रं सहिरण्यकम् ।औडुम्बरविधानेन सम्प्रदद्याद्द्विजातये
तस्याप्यलाभे विप्रेन्द्र ! विप्राय सदुपानहौ ।दद्यात् कार्त्तिकशुक्लायां द्बितीयायां विशेषतः
ज्ञातिश्रेष्ठान् तथा वृद्धान् संपूज्य चाभिवादयेत् ।नारिकेलादिदानेन तोषयेत् स्वजनानपि
ततः सोदरसम्पन्ना भगिनी याभवन्मुने ! ।तस्या गृहं समागत्य श्रद्दधानोऽभिराजयेत्
भद्रे भगिनि ! शुभगे त्वदङ्घ्रिसरसीरुहे ।श्रेयसेऽद्य नमस्कर्त्तुमागतोऽहं तवालयम्
इति श्रुत्वा भगिन्यादिः सोदरं विनयान्वितम् ।मृदुवाक्यैस्ततस्तस्य पूजनं क्रियते महत्
अद्य भ्रातृमती भ्रातस्त्वं नो वयसि बान्धवः ।भोक्तव्यं भोऽद्य मद्गेहे त्वायुषे कुलदीपक !
कार्त्तिके शुक्लपक्षस्य द्वितीयायां सहोदरः ।यमो यमुनया पूर्व्वं भोजितः स्वगृहेऽर्च्चितः ।अस्मिन् दिने यमेनापि पूजिता भगिनी शुभा
स्वसुर्नरो वेश्मनि यो भुङ्क्तेयमद्वितीयादिनमेव लब्ध्वा ।तं पापिनं सर्व्वसुराः प्रबुध्यसंसारमार्गे रटयन्ति विप्र !
तस्माद्भ्रात्रा स्वसृगृहे भोक्तव्यं मासि कार्त्तिके ।शुक्लायाञ्च द्वितीयायां सर्व्वैश्वर्य्याय भो द्बिज !
वर्षे वर्षे कर्त्तव्यं यशसे आयुषे श्रिये ।ततः सम्प्राप्य सुमते भगिन्यै सुविधानतः
स्वर्णालङ्कारवस्त्रादिदानसत्कारमादरात् ।प्रदद्यान्मुनिशार्द्दूल प्रश्रयावनतः सुधीः
आशीषं प्रगृह्यास्या नमस्कृत्य क्षमापयेत् ।सर्व्वा भगिन्यः सन्तोष्या ज्येष्ठानुक्रमशस्तदा
वस्त्रान्नपानसत्कारैर्भोजनैः पुष्टिवर्द्धनैः ।करोत्येवं नरो विद्बान्न याति यमयातनाम्
अपमृत्युं चाप्नोति सत्यं सत्यं हि नान्यथा
यैर्भगिन्यः सुवासिन्यो वस्त्रालङ्कारतोषिताः ।न तेषां वत्सरं यावत् कलहो रिपोर्भयम्
व्रतस्यास्य प्रसादेन भूताः प्रेताश्च राक्षसाः ।दूरादेव पलायन्ते धर्म्मराजेन ताडिताः
यो देवो महिषारूढो दण्डमुद्गरधारकः ।वेष्टितः किङ्करैर्दष्टैस्तस्मै कालात्मने नमः
इत्थं त्वं दिजशार्द्दूल ! कुरुष्व तद्व्रतं शुभम् ।रम्यं यमद्वितीयाख्यमपमृत्युनिवारणम्
व्रतस्यास्य प्रभावेन पुत्त्रपौत्त्रसमन्वितः ।सत्यं वदामि ते विप्र ! गृहस्थः स्यात् सदैव हि
गार्हस्थ्येन समो धर्म्मो भूतो भविष्यति ।सन्देहोऽत्र कर्त्तव्य इह लोके परत्र
ये वै यमद्वितीयाख्यं व्रतं कुर्व्वन्ति मानवाः ।सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति
अपुत्त्रो लभते पुत्त्रं धनहीनो लभेद्धनम् ।भार्य्याहीनो लभेद्भार्य्यां सुरूपां कुलसम्भवाम्
यस्यां तिथौ यमुनया यमराजदेवःसंभोजितः सकललोकनिपातदक्षः ।तस्यां भुनक्ति सुतिथौ गृहे भगिन्याःप्राप्नोति वित्तमतुलं चिरायुरेव
”इति पाद्मे उत्तरखण्डे १२५ अध्यायः
वाचस्पत्यम्
Sanskrit
यमद्वितीया स्त्री त० कार्त्तिकशुक्लद्वितीयायाम् “तथायमद्वितीयायां यात्रायां मरणम्” ति० त०