| YouTube Channel

यमजः (yamajaH)

 
Wordnet
Sanskrit
Synonyms:
यमजः, यमः, यमा, यमकः, यमका, नारङ्गः, यमलः
noun
एकायाः मातुः एकसमये एकगर्भात् जाताभ्यां पुत्राभ्याम् एकः।
"लवकुशौ अवदत्- आवाम् यमजौ भ्रातरौ अस्मद्गुरुभिः रचितम् अयोध्यापतेः श्रीरामस्य चरितं गायावः।"
शब्दकल्पद्रुमः
Sanskrit
यमजः, त्रि, (यमो यमकः सन् जायते इति ।जन् + डः ।) एककालीनैकगर्भजातसन्तान-द्वयम् यथा, मेदिनी मे, २३ ।“यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ
”(यथा कथासरित्सागरे २३ ९१ ।“शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्ति-सोममपरञ्च ।वैश्वानरमर्पितवान् पिङ्नलिकापुत्त्रकौयमत्रौ
”)अस्य ज्येष्ठत्वं यमशब्द द्रष्टव्यम्
(अश्वविशेषे, पुं यथा, अश्ववैद्यके १५२ ।“एकेनाङ्गेन हीनेन भिन्नेन विशेषतः ।यमजं वाजिनं बिन्द्यात् वामनं वामना-कृतिम्
”)