यमकं (yamakaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritयमकं, (यमं युग्मभावं कायति प्राप्नीतीति ।कै + कः ।) शब्दालङ्कारः । तस्य लक्षणादियथा, --“सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥
अत्र द्वयोरपि पदयोः क्वचित् सार्थकत्वंक्वचिन्निरर्थकत्वं क्वचिदेकस्य सार्थकत्वमपरस्यनिरर्थकत्वमत उक्तं सत्यर्थ इति । तेनैवक्रमेणेति दमो मोद इत्यादेर्विभक्तविषयत्वंसूचितम् । एतच्च पदपादार्द्धश्लोकावृत्तित्वेनपादाद्यावृत्तेश्चानेकविषयतया प्रभूततमभेदंदिङ्मात्रमुदाह्रियते ।‘नवपलाशपलाशवनं पुरःस्फुटपरागपरागतपङ्कजम् ।मृदुलतान्तलतान्तमलोकयत्ससुरभिं सुरभिं सुमनोभरैः ॥
’इति माघे । ६ । २ ॥
अत्र पदावृत्तिः पलाशपलाशेति सुरभिंसुरभिमित्यत्र च द्वयोः सार्थकत्वम् । लतान्त-लतान्तेत्यत्र प्रथमस्य निरर्थकत्वं परागपरागे-त्यत्र द्वितीयस्य एवमन्यत्राप्युदाहार्य्यम् । यम-कादौ भवेदैक्यं डलोर्ब्बबोर्लरोस्तथा । इत्युक्त-नयात् । भुजलतां जडतामबलाजन इत्यत्रन यमकत्वहानिः ।” इति साहित्यदर्पणे दशमःपरिच्छेदः । १० ॥
(यमकालङ्कारस्तु युग्मपाद-यमकायुग्मपादयमकाद्यन्तयमक-पादमध्ययमक-पादान्तयमक-पादादियमक-पादादिमध्ययमक-पादाद्यन्तयमक-मध्यान्तयमक-काञ्चीयमकगर्भ-यमकचक्रबालयमकपुष्पयमकमहायमकमिथुन-यमकवृन्तयमकविपथयमकसमुद्गयमकसर्व्वयमकयमकावलीभेदात् बहुविधः । तत्तल्लक्षणोदाह-रणादिकं भट्टिकाव्ये दशमसर्गे यमकचक्रे काव्या-दर्शे दशमपरिच्छेदे च द्रष्टव्यम् ॥
व्यूहविशेषः ।यथा, महाभारते । ४ । ५५ । ४२ ।“ततो विराटस्य सुतः सव्यमावृत्य वाजिनः ।यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् ॥
”“यमकं शत्रणां निरोधकं मण्डलं कृत्वा ।” इतितट्टीकायं नीलकण्ठः ॥
सदृशम् । यथा, महा-भारते । ३ । १९ । ८ ।“मण्डलानि विचित्राणि यमकानीतराणि च ।सव्यानि च विचित्राणि दक्षिणानि च सर्व्वशः ॥
”“यमकानि सदृशानि ।” इति तट्टीकायां नील-कण्ठः ॥
) त्रि, यमजः । इति मेदिनी । के, १४२ ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
