| YouTube Channel

यभ (yabha)

 
Wilson
English
यभ(औ)यभौ r. 1st cl. (यभति) To copulate.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
यभ्
मूलधातुः:
यभ
धात्वर्थः:
मैथुने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
यभति
धातुप्रदीपः
Sanskrit
यभँ यभ विपरीत मैथुने
- विपरीतार्थपूर्वक इत्यर्थः (99) यभति ययाभ येभतुः यब्धा अयाप्सीत् यब्ध्वा यभ्यम् जभ इत्येके जम्भति जम्भिता जभ्यम् जम्भयति ।। 988 ।।
शब्दकल्पद्रुमः
Sanskrit
यभ, मैथुने इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-अनिट् ।) औ, अयाप्सीत् यभतियुवा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
यभ मैथुने
भ्वा०
पर०
सक०
अनिट् यमति अया(य)सीत्
क्षीरतरङ्गिणी
Sanskrit
यभँ यभ विपरीतमैथुने
- यभति यब्धा यभ्यम् जभि इति दौर्गाः-जम्भति 951
धातुवृत्तिः
Sanskrit
यभँ यभ (अर्थः) विपरीतमैथुने
(अर्थविवरणम्) विरीतानुष्ठानइत्यर्थ
इति मैत्रेयः पुरुषकारे तु यभ विपरीतमैथुने इति विपरीतयभनइत्यर्थ इति क्वचित्पठ्यते यभ मैथुनइति (यभति ययाभ येभतुः येभिथ ययब्ध येभिव ) क्रादिनियमान्नित्यमिट् थलि भारद्वाजनियमात् विकल्पः (यब्धा यप्स्यति यभतु अयभत् यभेत् यभ्यात् अयाप्सीत् अयाब्धाम् यियप्सति यायभ्यते यायब्धि याभयति अयोयभत् यब्ध्वा यभ्यम् ) "पोरदुपधात्'' इति यत् जभेत्येके इति मैत्रेयः जभ चेति धनपालशाकटायनौ जप जभेति शाकटायनः तत्र जभेः पाठो न्यासपदमञ्जरीकृतोरनभिमतः, सति ह्यस्मिन् "लुपसदचरजपजभदहदशभञ्जपशां च'' "रधिभजोरचि'' इत्यादौजभजृभीतिवदमुमप्युपाददीयाताम् किञ्च जभेः पाठेनाप्यनिटा भाव्यत्वात्, रभिश्च भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरः'' इति व्याघ्रभूतिवचनेनापि विरोधः स्यात् तृतीयश्च यभिरेव, तत्र वृत्तौ यभेत्युदाहरणात् जम्भत इति गात्रविनामे गतः 961
कृदन्तरूपमाला
Sanskrit
1 {@“यभ मैथुने”@} 2 3 ‘यभ विपरीतमैथुने’ इति क्षीरस्वामि-माधवादिसम्मतः पाठः।
‘--विपरीते मैथुने’ इति धा।
का।
व्याख्या 4 दृष्टः पाठः।
“भय विपरीतो मैथुने’
विपरीत इति--यभ इत्यर्थः।” इति पुरुष- कारः।
‘जभ--’ इति चवर्गतृतीयादिं केचित् पठन्ति।
धनपाल-काश्य- पादयः ‘यभ--’ इति पठित्वा, ‘जभ च’ इति पठन्तीति ग्रन्थेषु तत्र तत्रोदाहरणाज्ज्ञायते।
‘रभिश्च भान्तेष्वथ मैथुने यभिः’ 5 इत्यत्र वृत्त्यादिषु यभतेरेवोदाहरणात् ‘जभ--’ इति पाठोऽप्रामाणिक इति पुरुषकारे 6 निरूपितम्।
‘जभि--’ इत्यपि कुत्रचिद् दृष्टः पाठः।
“-- ‘विपरीत इति।
विपरीतानुष्ठित इत्यर्थः।’ इति मैत्रेयः।।” इति धातुवृत्तिः।
“तच्च पुरुषायितम्।” इति धा।
का व्याख्या।
एवं बहुधाऽत्र धातौ, स्वरूपविषयेऽर्थविचारे विप्रतिपत्तिः ग्रन्थकृतां दृश्यते।
प्रसिद्धपाठस्तु यभ इत्येवेति प्रामाणिकाः।
‘यभस्व नित्यं यदि शक्तिरस्ति--’ 7 इत्यादिषु धातोरस्यात्मनेपदप्रयोगो दृश्यते।
तत्र प्रमाणं मृग्यम्।]] याभकः-भिका, याभकः-भिका, 8 यियप्सकः-सिका, यायभकः-भिका
9 यब्धा-यब्ध्री, याभयिता-त्री, यियप्सिता-त्री, यायभिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिकतपतिवत् 10 ज्ञेयानि।
11 याभः।
12
प्रासङ्गिक्यः
01
=>
(१३३९)
02
=>
(१-भ्वादिः-९८०। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(२-३९)
05
=>
(अनिट्कारिका, भाष्ये ७-२-१०)
06
=>
(श्लो। १४५)
07
=>
(मुक्तकम्)
08
=>
[[१। ‘--अथ मैथुने यभिः’ इत्यनिट्कारिकासु (भाष्ये ७-२-१०) पाठात् धातोरस्यानिट्त्वम्। ‘खरि च’ (८-४-५५) इति चर्त्वेन भकारस्य पकारः।]]
09
=>
[[२। तृजादिषु, ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वेन धकारे, ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वे रूपनिष्पत्तिर्ज्ञेया।]]
10
=>
(७०३)
11
=>
[[B। ‘याभाद्यकामैर्नमनाद् गताद्यैः सृप्योऽसि विष्णो यमिभिर्वितापैः।।’ धा। का। २-३९।]]
12
=>
[पृष्ठम्१०७०+ ३०]