| YouTube Channel

यन्त्रणं (yantraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
यन्त्रणं,
क्ली,
(यन्त्र + ल्युट् ।) रक्षणम् बन्धनम् ।(यथा, सुश्रुते सूत्रस्थाने अष्टादशाध्याये ।“यन्त्रणमत ऊर्द्धुमधस्तिर्य्यक्
”) नियमनम् ।इति मेदिनी णे, ७१
(यथा, सुश्रुते उत्तर-तन्त्रे ४१ अध्याये ।“रक्तक्षयाद्वैदनाभिस्तथैवाहारयन्त्रणात् ।व्रणितस्य भवेच्छोषः चासाध्यतमस्ततः
”)