| YouTube Channel

यन्त्रकं (yantrakaM)

 
शब्दकल्पद्रुमः
Sanskrit
यन्त्रकं,
क्ली,
यन्त्रकाष्ठम् (कुन्दम् इति हेमचन्द्रः ।३ ५७३
) कुँद् इति भाषा यम्यते काष्ठमने-नेति यमधातोस्त्रप्रत्ययेन यन्त्रं ततः स्वार्थे कप्रत्य-येन निष्पन्नम्
(यथा, सुश्रुते ।“कार्य्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ।न कुर्य्यात् स्नहसेकञ्च तेन क्लिद्यति हि व्रणः
”यन्त्रयति बध्नाति सेतुप्रभृतीनीति यन्त्रि +ण्वुल् सेतुप्रभृतिनिर्म्मातरि, त्रि यथा, रामा-यणे ८० ।“स्वकर्म्माभिरताः शूराः खनका यन्त्रकास्तथा
”“यन्त्रका जलप्रवाहादियन्त्रणस्मर्थाः ।” इतितट्टीका
)