| YouTube Channel

यथोचितं (yathocitaM)

 
शब्दकल्पद्रुमः
Sanskrit
यथोचितं,
व्य,
क्ली,
(उचितमनतिक्रम्येति ।)यथायोग्यम् यथाप्राप्तम् यथा “भ्रेषोभ्रंशो यथोचितात् ।” इत्यमरः २३
(यथा श्रीमद्भागवते २२ ५० ।“कर्म्माणि यथाकालं यथादेशं यथाबलम् ।यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम्
”त्रि, यथोचितमस्यास्तीति अर्श आद्यच् ।यथार्हः यथा, मार्कण्डेये १६ ३८ ।“वयमाप्यायिता मर्त्ययज्ञभागैर्यथोचितैः ।वृष्ण्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये
”)