| YouTube Channel

यथार्थं (yathArthaM)

 
शब्दकल्पद्रुमः
Sanskrit
यथार्थं,
व्य,
क्ली,
यथातथम् इत्यमरः १५
“द्बे अव्यभिचारिणि अर्थमनतिक्रान्तं यथार्थंयथास्वरूपं यथातथं उभयत्र अव्ययीभावः ।यथार्थमेवेदम् यथातथं वक्ति सभासु विद्बान् ।”इति भरतः
तत्पर्य्यायः ।“सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् ।यथास्थितञ्च सद्भूतेऽलीके तु वितथानृते
”इति हेमचन्द्रः
(यथा, महाभारते १३ १८ ।“कृतञ्चापकृतं किञ्चित् कृते कर्म्मणि सिध्यति ।सुकृतं दुष्कृतं कर्म्म यथार्थं प्रपद्यते
”)