| YouTube Channel

यत्रि (yatri)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
यन्त्र्
मूलधातुः:
यत्रि
धात्वर्थः:
सङ्कोचे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
यन्त्रयति-ते
धातुप्रदीपः
Sanskrit
यत्रिँ यत्रि संकोचे
- यन्त्रयति यन्त्रणा 3
क्षीरतरङ्गिणी
Sanskrit
यत्रिँ यत्रि संकोचने
- नियन्त्रयति
यन्त्रणा 3
धातुवृत्तिः
Sanskrit
यत्रिँ यत्रि (अर्थः) संकोचने
( यन्त्रयति यन्त्रणा यन्त्रितः ) अत्रापि पूर्ववदिदित्करणाद्यन्त्रतीत्याद्यपि भवति अत्राभरणे यतृ इति पठित्वा ऋकारो "नाग्लोपि'' इति विशेषणार्थ इत्युक्तम् अयं पाठश्चिरन्तनव्याख्यानेषु दृश्यते, प्रत्युत यन्त्रणादिशब्दमस्मादेव मैत्रेयादयो व्युदपादयन्, अनेकविकरणविचारणे दैवे तद्व्याख्याने पुरुषकारे वा प्रयत्नार्थनिकारार्थवत्सङ्कोचार्थो नोपादीयत इति तस्य मूलं मृग्यम 3
कृदन्तरूपमाला
Sanskrit
1 {@“यत्रि सङ्कोचने”@} 2 3 ‘यन्तृ--’ इति ऋदिदत्र पाठ इति आभरणकारमतत्वेन धातुवृत्तावु- पादाय-- “अयं पाठः चिरन्तनव्याख्यानेषु दृश्यते
प्रत्युत यन्त्रणादिशब्द- मस्मादेव मैत्रेयादयो व्युदपादयन्।” इति विवेचितम्।
“अत्रापि पूर्ववत् 4 इदित्करणात् यन्त्रतीत्याद्यपि भवति।” इति मा।
धा।
वृत्तिः।
“यन्त्र--इति पठितुं युक्तम्।
यत्तु-इदित्करणात् यन्त्रतीति माधवेनो- क्तम्--तच्चिन्त्यम्।” इति सिद्धान्तकौमुद्युक्तिरेव साधुः।
यतः-- ‘चिन्त्यात्’ इत्यादौ उपधानकारसद्भावेन, णिजभावपक्षे नलोपव्यावृत्त्या सार्थकतां लभमान इकारः णिजभावं चिन्तेर्ज्ञापयतीति तूचितम्।
इह तु रेफस्यैवोप- धात्वप्रसङ्गेन नलोपप्रसक्त्यभावात्--इति ज्ञेयम्।]] यन्त्रकः-न्त्रिका, यियन्त्रयिषकः-षिका
यन्त्रयिता-त्री, यियन्त्रयिषिता-त्री
5 इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकतन्त्रयतिवत् 6 ज्ञेयानि।
यति-- 7 अयन्त्र्यम्।
प्रासङ्गिक्यः
01
=>
(१३३८)
02
=>
(१०-चुरादिः-१५३६। अक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(चितिधातुवत्)
05
=>
[पृष्ठम्१०६९+ २६]
06
=>
(६९८)
07
=>
[[आ। ‘संचोरयन्तमरिगर्वमशेषभद्रं चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम्।’ धा। का। ३-१३।]]