| YouTube Channel

यज्युः (yajyuH)

 
शब्दकल्पद्रुमः
Sanskrit
यज्युः, त्रि, (यजतीति यज् + “यजिमनिशुन्धि-दसिलनिभ्यो युच् ।” उणा० २० इतियुच् ।) यजुर्व्वेदवेत्ता ब्राह्मणः इत्युणादि-कोषः
यजमानः इति संक्षिप्तसारोणादि-वृत्तिः
(यथा, ऋग्वेदे ३१ १३ ।“त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय ।”“हे अग्ने त्वं यज्यवे यज्योर्यजमानस्य पायुःपालकः ।” इति तद्भाष्ये सायणः
)