| YouTube Channel

यज्ञाङ्गः (yajJAGgaH)

 
Wordnet
Sanskrit
Synonyms:
खदिरः, गायत्री, बालतनयः, दन्तधावनः, तिक्तसारः, कण्टकीद्रुमः, बालपत्रः, खद्यपत्री, क्षितिक्षमः, सुशल्यः, वक्रकण्टः, यज्ञाङ्गः, जिह्वाशल्यः, कण्टी, सारद्रुमः, कुष्ठारिः, बहुसारः, मेध्यः, बालपुत्रः, रक्तसारः, कर्कटी, जिह्वशल्यः, कुष्ठहृत्, बालपत्रकम्, यूपद्रुमः, क्षमा
noun
वर्वूरजातीयः वृक्षः।
"खदिरात् अर्कः निष्कासयन्ति।"
शब्दकल्पद्रुमः
Sanskrit
यज्ञाङ्गः,
पुं,
(यज्ञं अङ्गति प्राप्नोतीति अङ्ग +अण् ।) उडुम्बरः इत्यमरः २२
(अस्य पर्य्यायो यथा, --“यज्ञाङ्गो ब्रह्मवृक्षश्च हेमदुग्धोऽप्युडुम्बरः
”इति वैद्यकरत्नमालायाम्
“उडुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)खदिरवृक्षः इति राजनिर्घण्टः
ब्राह्मण-यष्टिका इति शब्दचन्द्रिका
(यज्ञ एव अङ्गंयस्य विष्णुः यथा, महाभारते १३ १४९ ।११७ ।“भूर्भुवःस्वस्तरुस्तारः स्वपिता प्रपितामहः ।यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
*
यज्ञस्याङ्गमिति ।) यागावयवे यज्ञसाधने चक्ली
(यथा, कुमारसम्भवे १७ ।“यज्ञाङ्गयोनित्वमवेक्ष्य यस्यसारं धरित्रीधरणक्षमञ्च
”)