| YouTube Channel

यज्ञसूत्रं (yajJasUtraM)

 
शब्दकल्पद्रुमः
Sanskrit
यज्ञसूत्रं,
क्ली,
(यज्ञे धृतं सूत्रम् ।) यज्ञोपवीतम् ।यथा, --“पवित्रं यज्ञसूत्रञ्च यज्ञोपवीतमित्यपि ।यज्ञसूत्रं तदेवोपवीतं स्याद्दक्षिणे भुजे
उद्धृते वामवाहौ तु प्राचीनावीतमप्यदः ।निवीतन्तु तदेव स्यादूर्द्ध्ववक्षसि लम्बितम्
”इति जटाधरः
तस्य प्रमाणं यथा, --“ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः ।तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्ब्बुधाः
त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् ।शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम्
यजुर्व्विदां नाभिमितं सामगानामयं विधिः ।वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम्
”इति कल्किपुराणे अध्यायः
अस्य धारणे मन्त्रो यथा, --“यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपन-ह्यामि ।”इति संस्कारतत्त्वधृतभट्टभाष्यम्
यजुषान्तु, --“यज्ञोपवीतं परमं पवित्रंबृहस्पतेर्यत् सहजं पुरस्तात् ।आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रंयज्ञोपवीतं बलमस्तु तेजः
”इति पशुपतिः
युगभेदे तत्सूत्रनियमो यथा, --“सत्ये स्वर्णमयं सूत्रं त्रेतायां राजतं तथा ।द्वापरे ताम्रजं प्रोक्तं कलौ कार्पाससम्भवम्
”इति बृहद्राजमार्त्तण्डः
अन्यच्च ।“यज्ञार्थं धार्य्यते सूत्रं यज्ञं ब्रह्मण्यमिष्यते ।स्वर्णं रौप्यं ताम्रमूर्णं पट्टं कार्पासवार्हिषम्
मृगाजिनं गुटं शङ्खी यथालब्धं निधाय ।यज्ञसूत्रं परिचरेद्ब्रह्मलिङ्गक्रियात्मकम्
तत्र नियमो ग्राह्यः सूत्रब्रह्मण्यशङ्कया
”इति बृद्धादित्यसंहिता