| YouTube Channel

यजुर्व्वेदः (yajurvvedaH)

 
शब्दकल्पद्रुमः
Sanskrit
यजुर्व्वेदः,
पुं,
(यजुरेव वेदः यजुषां वेद इतिवा ।) वेदविशेषः तस्याधिपतिर्यथा, --“ऋग्वेदाधिपतिर्जीवः सामवेदाधिपः कुजः ।यजुर्व्वेदाधिपः शुक्रः शशिजोऽथर्व्ववेदराट्
”इति ज्योतिषम्
अस्य वक्ता वैशम्पायनः तु आदावेकएवासीत् यथा, --“ऋग्वेदंश्रावकं पैलं जग्राह महामुनिः ।यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव
जैमिनं सामवेदस्य श्रावकं सोऽन्वपद्यत ।तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम्
एक आसीद्यजुर्व्वेदस्तञ्चतुर्धा व्यकल्पयत् ।चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत्
अध्वर्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः ।उद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः
ततः ऋच उद्धृत्य ऋग्वेदं कृतावान् प्रभुः ।यजूंषि यजुर्व्वेदं सामवेदञ्च सामभिः
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत्
सामवेदं सहस्रेण शाखानाञ्च विभेदतः ।अथर्व्वाणमथो वेदं बिभेद नवकेन तु
”इति कौर्म्म्ये ४९ अध्यायः