यजुः (yajuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
HindiYajur वेद
Wordnet
Sanskrit यजुर्वेदः, यजुः
चतुर्षु वेदेषु एकः यस्मिन् यज्ञसम्बन्धिनां कर्मणां विधानं विवरणञ्च अस्ति।
"सः नित्यं यजुर्वेदं पठति।"
यजुः
एकः अश्वः ।
"शशिनः दशाश्वेषु एकः यजुः अस्ति"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritयजुः, [स्] (इज्यतेऽनेनेति । यज् + “अर्त्ति-पॄवपियजीति ।” उणा० २ । ११८ । इतिउसिः ।) वेदविशेषः । इत्यमरः । १ । ६ । ३ ॥
“इज्यतेऽनेनेति यजुः । यजै ञौ देवार्च्चादानसङ्ग-कृतौ । त्रासुसिस् इति उस् ।” इति भरतः ॥
* ॥
अपि च । यजुराह जैमिनिः । शेषे वा यजुः-शब्दः । शेषे ऋक्सामभिन्ने मन्त्रजाते ततश्चयन्मन्त्रजातं प्रश्लिष्य पठितं गानादिविच्छेद-रहितं तत् यजुरिति । इति तिथ्यादितत्त्वम् ॥
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरकानाम द्वादश भेदा भवन्ति । चरकाः १ आह्व-रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५औपमन्याः ६ आष्ठालकठाः ७ चाराय-णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १०श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्रमैत्रायणीया नाम सप्त भेदा भवन्ति ।मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया-श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः-महस्राण्यधीत्य शाखापारो भवति । तान्येवद्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु-णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्यषडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तंच्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यांनैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त-दश भेदा भवन्ति । जाबालाः १ औधेघाः २काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८आवटिकाः ९ पामावटिकाः १० पारा-शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४गालवाः १५ वैजवाः १६ कात्यायनीया-श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मोमीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति ।उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्-थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि-शिष्टानि ।“द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके ।इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥
ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् ।आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्व्वकम् ।वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥
”तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति ।औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेयानाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा-यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया-श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु-श्चत्वारिंशत्युपग्रन्थान् ।“मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते ।यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥
”यजुर्व्वेदस्य धनुर्व्वेद उपवेदः । यजुर्व्वेदस्य भार-द्वाजगोत्रम् । रुद्रदैवत्यम् । त्रैष्टुभं छन्दः । यजु-र्व्वेदः कृशः । दीर्घः । कपाली । ताम्रवर्णः ।काञ्चननयनः । आदित्यवर्णः वर्णेन । पञ्चारत्नि-मात्रः । अस्य ध्यानम् ।“वन्दे रौद्रं त्रैष्टभं ताम्रवर्णंभारद्वाजं रुक्मनेत्रं कृशाङ्गम् ।यजुर्व्वेदं दीर्घमादित्यवर्णंकापालीनं पञ्च चारत्निमात्रम् ॥
”य इदं दैवतं रूपं गोत्रं प्रमाणं छन्दो वर्णंवर्णयति स विद्यां लभते स विद्यां लभते ।जन्मजन्मनि वेदपारो भवति । जन्मजन्मनिवेदधारो भवति । अव्रतो व्रती भवति ।अप्रयतः प्रयतो भवति । अब्रह्मचारी ब्रह्म-चारी भवति । जातिस्मरो जायते । इतिचरणव्यूहम् ॥
(ऋक्सामभिन्नो मन्त्रविशेषः ।इति केचित् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
