| YouTube Channel

यज (yaja)

 
Wilson
English
यज r. 1st cl. (यजति)
1 To worship a deity.
2 To associate with.
3 To present or endow.
Apte
English
यजः [yajḥ], 1 A sacrifice.
Fire. See यजुस्.
Apte 1890
English
यजः 1 A sacrifice.
2 Fire.
Monier Williams Cologne
English
यज
m.
a word formed to explain यजुस्,
ŚBr.
Monier Williams 1872
English
यज, अस्, m. a sacrifice, &c. (at the end of a
comp.)
= अग्नि, fire.
—यज-प्रैष, अस्, आ, अम्,
Ved. having a Praiṣa or invitation with the word
यज।
Shabdartha Kaustubha
Kannada
यज - देवपूजासङ्गतिकरणदानेषु (भ्वा० उभ० सक० अनि०) यजति-ते
कन्नडार्थः - > ದೇವತೆಗಳನ್ನು ಪೂಜಿಸು /ಯಾಗಮಾಡು
प्रयोगाः - > १) "यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः" २) "ईजुर्देवान् पुरोहिताः"
उल्लेखाः - > माघ० २-६५, भट्टि० १४-९०
यज - देवपूजासङ्गतिकरणदानेषु (भ्वा० उभ० सक० अनि०) यजति-ते
कन्नडार्थः - > ಅರ್ಪಿಸು /ಸಮರ್ಪಣೆ ಮಾಡು
प्रयोगाः - > "वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम्"
उल्लेखाः - > मनु० ८-१०५
यज - देवपूजासङ्गतिकरणदानेषु (भ्वा० उभ० सक० अनि०) यजति-ते
कन्नडार्थः - > ಕೊಡು /ದಾನ ಮಾಡು
यज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯಜ್ಞ /ಯಾಗ
यज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಗ್ನಿ
विस्तारः - > "सप्ततन्तुर्मखः सवः सहसानुर्यज्ञः सानुः वसुनो विश्वहर्यकः" - वैज०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
यज्
मूलधातुः:
यज
धात्वर्थः:
देवपूजा-सङ्गतिकरण-यजन-दानेषु
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
यजति-ते
धातुप्रदीपः
Sanskrit
यजँ यज देवपूजा, सङ्गतिकरण, दानेषु
- यजति यजते इज्यते इयाज ईजे ईजतुः ईजाते यष्टा अयाक्षीत् अयष्ट यागः इष्टिः इज्या अग्निष्टोमयाजी यज्ञः ऋत्विक् इष्टम् इष्ट्वा ।। 1010 ।।
शब्दकल्पद्रुमः
Sanskrit
यज, देवार्च्चादानसङ्गकृतौ इति कवि-कल्पद्रुमः
(भ्वा०-उभ०-सक०-अनिट् ।)सङ्गस्य कृतिः सङ्गकृतिः ऐ, इज्यात् ञ, यजति यजते विष्णुं सुधीः पूजयतीत्यर्थः ।पशुना रुद्रं यजते पशुं रुद्राय ददातीत्यर्थः ।यजति सन्तं सन् सता सह सङ्गं करोतीत्यर्थः ।औ, यष्टा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
यज देवपूजने, दाने, सङ्गकृतौ
भ्वा०
उभ०
यजादि०अनिट् यजति ते अयाक्षीत् अयष्ट इयाज ईजतुः
क्षीरतरङ्गिणी
Sanskrit
यजँ यज देवपूजा, संगतिकरण, दानेषु
- यजते, यजति वचिस्वपियजादीनां किति (61 15) सम्प्रसारणम् -इज्यते, इष्टः, इष्टिः लिट्यभ्यासस्योभयेषाम् (6117) इयाज यजयाचरुच (73 66 इति कुत्वं नास्ति-याज्यम् प्रयाजानुयाजौ यज्ञाङ्गे (7362) अन्यत्र प्रयागः, अनुयागः करणे यजः (3285) णिनिः अग्निष्टोमयाजी सुयजोर्ङ्वनिप् (32103) यज्वा पूङ्यजोः शानन् (32128) यजमानः ऋतौ यजति (द्र 3259) ऋत्विक् यजजपदशां यङः (32166) इत्यूकः यायजूकः यजयाच (3290) इति नङ्-यज्ञः व्रजयजोर्भावे क्यप् (3398) इज्या उणादौ यष्टिः अर्तिपॄवपि (उ0 2118) इत्युस् यजुः काठकम् 972
धातुवृत्तिः
Sanskrit
यजँ यज (अर्थः) देवपूजा, सङ्गतिकरण, दानेषु
( यजति इयाज ईजतुः इयजिथ इयष्ठ ईजिव ) क्रादिनियमादिट् थलि भारद्वाजनियमादिड्विकल्पः इडभावे झल्परत्वात् "व्रश्च'' इत्यादिना षत्वम् किति "वचिस्वपियजादीनां किति'' इति सम्प्रसारणे पुनः प्रसङ्गविज्ञानाद्द्विर्वचनमिति ( सूत्रम्) लिट्यभ्यासस्योभयेषाम् (इति सूत्रम्) इति वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणम् अत्राधिकारादेवोभयेषामिति सिद्धे पुनस्तत्करणम् विध्यत्यादौ परमपि हलादिशेषं बाधित्वा सम्प्रसारणं यथा स्यादिति ( यष्टा यक्ष्यति यजतु अयजत् यजेत् ) आशिषि कित्त्वात्सम्प्रसारणे (इज्यात् अयाक्षीत् अयाष्टाम् यजते ईजे यष्टासे यक्ष्यते यजताम् अयजत यजेत यक्षीष्ट अयष्ट अयक्षाताम् यियक्षति यियक्षते यायज्यते यायष्टि याजयति अयीयजत् इज्यते) यकि संप्रसारणे ऐज्यतेत्यत्र लङ्गमङ्गं वापेक्षमाणादडागमादन्तरङ्गत्वात्पूर्वं लादेशः कृते लादेशे नित्यत्वादटः पूर्वे यगटोरुभयोरपिकृताकृतप्रसङ्गित्वाविशेषेण यकि कृते तदन्तस्याङ्गस्य अकृते तु केवलस्येति शब्दान्तरप्राप्त्या अटोऽनित्यत्वं, कृते यकि नित्यत्वात्सम्प्रसारणे पश्चादजादित्वादाडागमः नन्वत्राटः प्राप्तिराटा बाध्यते तु संप्रसारणेनैवेति "यस्य लक्षणान्तरेण निमित्तं व्याहन्यते तदनित्यम्'इति अट्कथमनित्यः अत्र हरदत्तः-"यस्य लक्षणान्तरेण' इति न्यायोऽनित्यत्वादिह नाश्रीयत इति, यद्वा सम्प्रसारणं सम्प्रारणाश्रयं बलवदिति अटः पूर्वमेव सम्प्रसारणं भविष्यति, अथ वा "परित्यज्यापवादविषयमुत्सर्गेऽभिनिविशत'इत्याट् पश्चाद्भविष्यतीत्यडागमो नैवात्र प्रसजति ( याज्यं )ण्यति "यजयाच''इति कुत्वनिषेधः (यागः) घञि "चजोः कुघिण्ण्यतोः'' इति कुत्वं, सोमेनेष्टवान् ( सोमयाजी ) "करणे यजः'' इति करणवाचिन्युपपदे भूते णिनिः (यज्वा) "सुयजोर्ङ्वनिप्''इति भूते ङ्वनिप्, (यजमानः) "पूङ्यजोः शानन्'' इति शानन्, यजमानकम्म याजमानं, युवादित्वादण् (यायजूकः) "यजजपदशां यङः'' इति यङन्तादूकः प्रत्ययः अल्लोपयलोपौ (इष्टिः) "श्रुयजिस्तुभ्यः करणे'' इति क्तिन् ( इज्या ) "व्रजयजोर्भावे क्यप्'' इति क्यप् ( यज्ञः ) "यजयाच'' इति नड्प्रत्ययः, कुत्वनिषेधः यज्ञविद्यामधीते वेद वा (याज्ञविधिकः) "क्रतूक्थादिसूत्रान्ताट्ठक्'' इति उक्थादिपाठाट्ठक् याज्ञिकानां धर्म्म आम्नायो वा ( याज्ञिक्यम् )"छन्दोगोक्थिकयाज्ञिकबह्वचनटाञ्ञ्यः'' इति षष्ठ्यन्ताद्धर्म्माम्नाययोर्ञ्यः यज्ञमर्हति यज्ञियो (यजमानः) "यज्ञत्विग्भ्यां घकञौ" इति द्वियीयान्तादर्हतीत्यर्थ घः यज्ञकर्मार्हति यज्ञिय ऋत्विक् [ यज्ञऋत्विग्भ्यां तत्कर्मार्हतीति चोपसंख्यानम् ] इति घः (ऋत्विक्) ऋतौ यजति ऋतुं यजति ऋतुप्रयुक्तो वा यजतीति "ऋत्विक्'' आदिना क्विनि निपातितः नवयज्ञोऽस्मिन्वर्त्तते ( नावयज्ञिकः ) [ तदस्मिन्वर्त्तत इति नवयज्ञादिभ्य उपसंख्यानम् ] इति ठक् एवं पाकयज्ञिकः इष्टमनेन ( इष्टी ) "इष्टादिभ्यश्च'' इति प्रथमान्तात्तृतीयार्थे इनिः ( यजुः ) "अर्तिषुयपि''इत्यादिनोसिप्रत्ययः (ऋग्यजुषम्) "अचतुर'' इत्यादिना द्वन्द्वेऽजन्तो निपात्यते ( यद् ) "यजियमितनिभ्यो डित्'' इत्यदिप्रत्यये डित्त्वाट्टिलोपः त्यच्छब्दवत्सर्वनामकार्यं त्यदादिकार्यं यस्मिन्काले ( यदा ) "सर्वैकान्य'' इत्यादिना दाप्रत्ययः ''प्राग्दिशो विभक्तिः''इति विभक्तित्वात्त्यदाद्यत्वम् यस्मिन्काले ( यर्हि ) "अनद्यतेन र्हिल्''पूर्ववद्विभक्तित्वात्त्यदाद्यत्वम् यत्परिमाणमस्य ( यावान् ) "यत्तदेतेभ्यः परिमाणे वतुप्'' इतिपरिमाणोपाधिकात्प्रथमान्तादस्येत्यर्थे वतुप् अर्थादिह षष्ठ्यर्थः परिमाणी "आ सर्वनाम्नः'' इति दृग्दृशवतुषु परेष्वित्याकारः सौ "अत्त्वसन्तस्य'' इति दीर्घः "उगिदचाम्'' इति नुम् हल्ङयादिसंयोगान्तलोपौ "उगितश्च'' इति ङीपि यावती "बहुगणवतुडति संख्या'' इति संख्यात्वात् यावतां पूरणइति विगृह्य "तस्य पूरणे डट्'' इति षष्ठ्यन्तात्संख्याशब्दात्पूरणे डटि कृते "वतारिथुक्'' इति इथुगागमः यावतिथः यतरो भवतो देवदत्तः समागच्छतु "किंयत्तदो निर्द्धरणे द्वयोरेकस्य डतरज्'' इति द्वयोर्मध्ये जातिक्रियासञ्ज्ञाभिरेकस्य निर्द्धारणे पृथक्करणे गम्यमाने स्वार्थ डतरच् महाविभाषया विकल्पनाद्यो भवतोरित्यपि भवति यतमो भवतां ब्राह्मणः आगच्छतु "वा बहूनां जातिपरिप्रश्ने डतमच्'' जातिश्च परिप्रश्नश्च जातिपरिप्रश्नं समाहारद्वन्द्वस्तद्विषयेभ्यः "किंयत्तद्भ्यो बहूनामेकस्य निर्द्धारणे वा डतमच्'' इति डतमच् अत्र जातिग्रहणं सर्वैरपि सम्बध्यते परिप्रश्नग्रहणं तु यत्तदोरसम्भवात्किम एव वाग्रहणमकजर्थम् यको भवतां ब्राह्मण इति वाक्यं तु महाविभाषया भविष्यति डतरडतमेति सर्वादौ पाठादेतदन्तयोस्सर्वनामकार्यं पूर्ववत् नपुंसकाभ्यामनुपसर्जनाभ्यां डतरडतमाभ्यां परयोः स्वमोरमादेशापवादः "अद्ड्डतरादिभ्यः पञ्चभ्य''इत्यदडादेशे डित्त्वाट्टिलोपे यतरत् यतमत् इति भवति, यद्ययं डिन्नस्यात्सोरदादेशे कृते"अतो गुणे''इति पररूपत्वं बाधित्वा प्रथमयोः पूर्वसवर्णदीर्घः स्यात्, अमादेशे तु स्थानिवद्भावेन"अमि पूर्वो"भविष्यतीति दोषः एवं तर्हि पूर्वसूत्रादममनुवर्त्त्यसोरप्यमं कृत्वा "अडुततरादिभ्य'इति पञ्चम्याः षष्ठीं प्रकल्प्य द्वयोरमोः स्थानेऽदादेशः कार्यः किं डकारेण, किं चैवमकारेणापि नार्थः, दकार एव तु विधेयः, "आदेः परस्य''इत्यमोऽकारस्य भविष्यति मकारस्य संयोगान्तलोपे कतरत् कतमदितीष्टं सेत्स्यति सत्यं सिध्यति हे कतरदित्यादौ हे कुण्डेत्यादिवत् "एङ्ह्रस्वात्'' इति सम्बुद्धिसम्बन्धिनो हलो विधीयमानो लोपः स्यात्तस्माडुकारोकारवांश्च कर्त्तव्यः (यका) "प्रत्ययस्थात्'' इतीत्वं "न यासयोः''इति निषिध्यते (यथा) यः प्रकारः, "प्रकारवचने थाल्''इति थाल् प्रत्ययः यथायथम् यो आत्मा यत्तदात्मीयमिति वाक्यार्थः "यथास्वे यथायथम्'' इति यथाशब्दस्य द्विर्वचनं नपुंसकत्वं चोक्तेऽर्थे निपात्यते (आयथातथ्यम् अयाथायथ्यम् आयथापुर्यम् अयाथापुर्यम् ) यथातथातथापुरयोः शब्दयोरव्ययीभावे नञा समासे ब्राह्मणादिपाठात् ष्यञि "यथातथयथापुरयोः पर्यायेण'' इति, पूर्वोत्तरपदयोः पर्यायेण वृद्धिः भाष्ये तु अयथातथाभाव अयथापुराभाव इति विगृह्यते तत्र "सुप्सुपा''इति समासो द्रष्टव्यः 982
कृदन्तरूपमाला
Sanskrit
1 {@“यज देवपूजासङ्गतिकरणदानेषु”@} 2 याजकः-जिका, याजकः-जिका, 3 यियक्षकः-क्षिका, यायजकः-जिका
4 यष्टा-यष्ट्री, याजयिता-त्री, यियक्षिता-त्री, यायजिता-त्री
यजन्-न्ती, याजयन्-न्ती, यियक्षन्-न्ती
-- यक्ष्यन्-न्ती-ती, याजयिष्यन्-न्ती-ती, यियक्षिष्यन्-न्ती-ती
-- यजमानः, याजयमानः, 5 यियक्षमाणः, यायज्यमानः
यक्ष्यमाणः, याजयिष्यमाणः, यियक्षिष्यमाणः, यायजिष्यमाणः
6 7 देवेट्-देवेड्-देवेजौ-देवेजः
-- -- 8 इष्टम्-इष्टः-इष्टवान्-इष्टी, याजितः, यियक्षितः, यायजितः-तवान्
यजः, 9 सोमयाजी-हविर्याजी 10, अग्निष्टोमयाजी, 11 यज्वा, 12 13 यजमानः, 14 ऋत्विक्, ‘त्वं यज्ञे वरुणस्य 15 अवया असि।’ 16 उपयट्, 17 साधुयाजी, याजः, यियक्षुः, 18 यायजूकः, 19 यायजः
20 यष्टव्यम्, याजयितव्यम्, यियक्षितव्यम्, यायजितव्यम्
यजनीयम्, याजनीयम्, यियक्षणीयम्, यायजनीयम्
21 याज्यम्, 22 देवयज्या, 23 याज्या, याज्यम्, यियक्ष्यम्, यायज्यम्
ईषद्यजः-दुर्यजः-सुयजः
-- -- 24 इज्यमानः, याज्यमानः, यियक्ष्यमाणः, यायज्यमानः
25 यागः-अनुयागः-प्रयागः, 26 प्रयाजः-अनुयाजः, 27 उपांशुयाजः-पत्नीसंयाजः-ऋतुयाजः-उपयाजः, 28 यज्ञः, याजः, यियक्षः, यायजः
यष्टुम्, 29 यष्टुं, याजको 30, याजयितुम्, यियक्षितुम्, यायजितुम्
31 32 इष्टिः- 33 इज्या 34, 35 तिप्रत्यये रूपमेवमिति क्षीरतरङ्गिणी।]] यष्टिः, याजना, यियक्षा, यायजा
यजनम्, याजनम्, यियक्षणम्, यायजनम्
इष्ट्वा, याजयित्वा, यियक्षित्वा, यायजित्वा
अन्विज्य, प्रयाज्य, प्रयियक्ष्य, प्रयायज्य
याजम् २, इष्ट्वा २, याजम् २, याजयित्वा २, यियक्षम् २, यियक्षित्वा २, यायजम्
यायजित्वा
36 एणुप्रत्यये रूपम्।
यजेणुः = याजकः, ऋत्विक्।]] यजेणुः
37 इति युच्प्रत्यये, प्रत्ययस्याननुनासिकत्वेनाना- देशाभावे रूपमेवम्।
यज्युः = अध्वर्युः।]] यज्युः, 38 इत्यत्रन्प्रत्ययः।
इज्यन्तेऽस्मिन् देवता इति यजत्रम् = यज्ञस्थानम्।
अग्निहोत्रमिति केचित्।]] यजत्रम्, 39 इत्युसिप्रत्ययः।
यजुः = वेदः।]] यजुः।
प्रासङ्गिक्यः
01
=>
(१३३५)
02
=>
(१-भ्वादिः-१००२। सक। अनि। उभ।)
03
=>
[[४। सन्नन्ते सर्वत्र, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः’ (८-२-३६) इति षत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे, षत्वे रूपनिष्पत्तिरिति ज्ञेयम्।]]
04
=>
[[५। तृजादिषु, ‘व्रश्च--’ (८-२-३६) इति षत्वे, ष्टुत्वे रूपम्। एवं तव्यदादिष्वपि प्रक्रियोह्या।]]
05
=>
[[B। ‘यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम्।’ शि। व। २। १।]]
06
=>
[पृष्ठम्१०६५+ ३०]
07
=>
[[१। देवान् यजतीति देवेट्। कर्मण्युपपदे, ‘क्विप् च’ (३-२-७६) इति क्विपि ‘वचिस्वपियजादीनां किति’ (६-१-१५) इति यकारस्य सम्प्रसारणे, ‘सम्प्रसार- णाच्च’ (६-१-१०८) इति पूर्वरूपे, षत्वे, जश्त्वे रूपमेवम्।]]
08
=>
[[२। निष्ठायाम्, यजादित्वेन सम्प्रसारणे पूर्वरूपे, षत्वे ष्टुत्वे रूपमेवम्। ‘इष्टादि- भ्यश्च’ (५-२-८८) इतीन्प्रत्यये इष्टी इति रूपम्। एवमेव क्त्वाप्रभृतिष्वपि प्रक्रिया ज्ञेया।]]
09
=>
[[३। ‘भूते’ (३-२-८४) इत्यधिकारे, ‘करणे यजः’ (३-२-८५) इति णिनिप्रत्यये रूपमेवम्। सोमेन इष्टवान् सोमयाजी। एवमेव अग्निष्टोमयाजी इत्यादि- सिद्धिरूह्या।]]
10
=>
[[आ। ‘मृषाऽसि त्वं हविर्याजी राघव च्छद्मतापसः।’ भ। का। ६-१२९।]]
11
=>
[[४। भूतार्थे, ‘सुयजोर्ङ्वनिप्’ (३-२-१०३) इति ङ्वनिप्प्रत्यये प्रथमैकवचने उपधादीर्घे नकारलोपे यज्वा इति रूपम्।]]
12
=>
[[B। ‘यज्वानश्च ससुत्वानो यानगोपीन्मखेषु सः।।’ भ। का। ५-३७।]]
13
=>
[[५। तच्छीलादिषु कर्तृषु ‘पूङ्यजोः शानन्’ (३-२-१२८) इति शानन्प्रत्ययः। शित्त्वात् शपि, ‘आने मुक्’ (७-२-८२) इति मुगागमे यजमानः इति रूपम्। यस्त्वसकृत् यागादिकं करोति एवमुच्यते।]]
14
=>
[[६। ऋतौ यजते, ऋतुं यजते, ऋतुप्रयुक्तो वा यजतीत्यर्थे धातोरस्मात् ऋतुशब्द उपपदे, ‘ऋत्विक्--’ (३-२-५९) इत्यादिना क्विन्। सम्प्रसारणे, पूर्वरूपे कृते, निपातनात्, व्रश्चादिषत्वापवादतया ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे ऋत्विक् इति सिद्ध्यति।]]
15
=>
[[७। ‘अवे यजः’ (३-२-७२) इति मन्त्रे ण्विन्प्रत्यये, उपधावृद्धौ ‘अवयाः श्वेतवाः पुरोडाश्च’ (८-२-६७) इति निपातनाद्रुत्वे रूपमेवम्। छन्दस्येवायं प्रयोगः।]]
16
=>
[[८। ‘विजुपे छन्दसि (३-२-७३) इति छन्दसि विषये उपोपपदे धातोरस्य विच्प्रत्यये षत्वे जश्त्वे रूपमेवम्।]]
17
=>
[[९। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिप्रत्यये रूपमेवम्।]]
18
=>
[[१०। ‘यजजपदशां यङः’ (३-२-१६६) इति यङन्तादूकप्रत्यये, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासदीर्घे रूपमेवम्।]]
19
=>
[[C। ‘तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः।’ भ। का। २-२०।]]
20
=>
[पृष्ठम्१०६६+ २८]
21
=>
[[१। ण्यति, ‘यजयाचरुच--’ (७-३-६६) इति कुत्वनिषेधः।]]
22
=>
[[२। देवशब्द उपपदे छन्दसि विषये कर्मणि यत्प्रत्यये रूपमेवम्। निपातनात् स्त्रीलिङ्ग- त्वम्।]]
23
=>
[[३। यजन्त्यनेनेति याज्या = ऋक्। बाहुलकात् करणे ण्यत्।]]
24
=>
[[४। कर्मणि, यगन्ताच्छानचि सम्प्रसारणे पूर्वरूपे रूपम्।]]
25
=>
[[५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे रूपमेवम्। अनुयागः = भोजनम्, उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। प्रयागः = क्षेत्रविशेषः। अत्र सङ्गतिकरणं धातोरर्थः। नदीत्रयसङ्गति- करणं ह्यत्र देशे वदन्ति।]]
26
=>
[[६। घञि, ‘प्रयाजानुयाजौ यज्ञाङ्गे’ (७-३-६२) इति निपातनात् यज्ञाङ्गविषये कुत्वं न। पञ्च प्रयाजाः। त्रयोऽनुयाजाः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घे अनूयाज इत्यपि भवति।]]
27
=>
[[७। “प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्--अन्यत्राप्येवंप्रकारे कुत्वं भवति। ‘एकादश उपयाजाः’, ‘उपांशुयाजमन्तरा यजति’, ‘अष्टौ पत्नीसंयाजा भवन्ति’ ‘ऋतुयाजैश्चरन्ति’--इत्येवमादि सिद्धं भवति।’ इति काशिका- (७-३-६२) वाक्यमिहावधेयम्। तेनैतेषां साधुत्वं बोध्यम्। ‘जाघन्या पत्नीः संयाजयन्ति’ (शतपथब्राह्मणे-३-७-६-१) इति श्रौतनिर्वचनपर्यालोचनायां तु पत्नीः संयाजयन्तीति पत्नीसंयाजः इति ण्यन्तात् ‘कर्मण्यण्’ (३-२-१) इत्यणेवात्रेति कुत्वप्रसक्तिः। अतोऽत्रेतरेषां विषये कुत्वाभावस्योपपत्तिकल्पनेऽपि पत्नीसंयाजशब्दविषये नोपपत्तिकल्पनपरिश्रमः कार्यः इति ज्ञेयम्।]]
28
=>
[[८। भावे, ‘यजयाच--’ (३-३-९०) इत्यादिना नङ्प्रत्यये, जकारस्य श्चुत्वे रूपमेवम्।]]
29
=>
[[९। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्, ण्वुल् भवतः। यष्टुं याति--यागाय यातीत्यर्थः।]]
30
=>
[वा याति]
31
=>
[पृष्ठम्१०६७+ २९]
32
=>
[[१। ‘श्रुयजीषिस्तुभ्यः--’ (वा। ३-३-९५) इति करणे क्तिन्प्रत्यये सम्प्रसारणादिके रूपम्।]]
33
=>
[[२। ‘व्रजयजोर्भावे क्यप्’ (३-३-९८) इति स्त्रियां भावे क्यपि, कित्त्वेन सम्प्र- सारणादिकेषु चैवं रूपम्।]]
34
=>
[[आ। ‘निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिन कुमारः।।’ भ। का। २-३७।]]
35
=>
[[३। बाहुलकादौणादिके [द। उ। १-७४]
36
=>
[[४। बाहुलकादौणादिके [द। उ। १-१३३]
37
=>
[[५। ‘यजिमनि--’ [द। उ। १-१३४]
38
=>
[[६। ‘अमिनक्षियजि--’ [द। उ। ८-५६]
39
=>
[[७। ‘अर्त्तिपॄवपियजि--’ [द। उ। ९-३९]
Capeller
German
यज
f.
N. einer Genie.