| YouTube Channel

यङन्तात् (yaGantAt)

 
कृदन्तरूपमाला
Sanskrit
1 {@“सृपॢ गतौ”@} 2 सर्पकः-र्पिका, सर्पकः-र्पिका, सिसृप्सकः-प्सिका, सरीसृपकः-पिका
3 सर्प्ता-त्री-स्रप्ता-प्त्री, सर्पयिता-त्री, सिसृप्सिता-त्री, सरीसृपिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि आदादिकशुद्ध्यर्थकमृजू 4 धातुवज्ज्ञेयानि।
यङन्तात् पचाद्यचि- 5 सरीसृपः
6 सृप्यः, 7 सर्पः, 8 पीठसर्पी, 9 सर्पिः, प्रियसर्पिष्कः, 10 सृप्रः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
11
प्रासङ्गिक्यः
01
=>
(१९१८)
02
=>
(१-भ्वादिः-१८३। सक। अनि। पर।)
03
=>
[[३। ‘अनुदात्तस्य ऋदुपधस्यान्यतरस्याम्’ (६-१-५९) इत्यनेन पाक्षिकोऽमागमः। अमो मित्त्वादन्त्यादचः परो भवति। अयं अमागमः किद्भिन्नेषु प्रत्ययेष्वेव बोध्यः। अम्पक्षे स्रप्ता-स्रप्त्री इति रूपम्। अमभावपक्षे सर्प्ता-सर्प्त्री इति रूपम्। एवं तव्यदादिष्वपि रूपद्वयं बोध्यम्।]]
04
=>
(१३०२)
05
=>
[[४। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि ‘न धातुलोपः--’ (१-१-४) इति निषेधात् लघूपधगुणाभावः।]]
06
=>
[[५। ‘ऋदुपधाच्च--’ (३-१-११०) इति क्यपि रूपमेवम्।]]
07
=>
[[६। सर्पतीति सर्पः। पचाद्यचि रूपमेवम्।]]
08
=>
[[७। पीठेन स्रप्तुं शीलमस्येति ‘सुप्यजातौ णिनिः--’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्यये रूपमेवम्।]]
09
=>
[[८। औणादिके (द। उ। ९-३०) इसिप्रत्यये रूपमेवम्। सर्पिः = घृतम्।]]
10
=>
[[९। ‘ऋज्रेन्द्र--’ (द। उ। ८-३१) इत्यादिना रक्प्रत्यये रूपमेवम्। सृप्रम् = मधु, सृप्रा = नदी।]]
11
=>
[पृष्ठम्१३८१+ २८]