यक्ष्मा (yakSmA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English यक्ष्मा { यक्ष्मन् } yakSmA { yakSman } tuberculosis
यक्ष्मन् yakSman consumption
यक्ष्मन् yakSman pulmonary consumption
पुराणम्
Englishयक्ष्मा / YAKṢMĀ (rājayakṣmā). The disease of consumption (Tuberculosis). There is a story in mahābhārata which says that this disease was created by dakṣa prajāpati. (For more details see under candra).
शब्दकल्पद्रुमः
Sanskritयक्ष्मा, [न्] (यक्ष + “बाहुलकात् यक्षयते-रपि ।” उणा० ४ । १५० । इत्यत्र उज्ज्वलदत्तोक्त्यामनिन्प्रत्ययेन साधुः ।) रोगविशेषः । तत्पर्य्यायः ।क्षयः २ शोषः ३ । इत्यमरः । २ । ६ । ५१ ॥
राजयक्ष्मा ४ रोगराट् ५ ॥
अथ राजयक्ष्माधि-कारः । “तत्र राजयक्ष्मणो विप्रकृष्टं सन्निकृष्टञ्चनिदानमाह ।‘वेगरोधात् क्षयाच्चैव साहसाद्बिषमाशनात् ।त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥
’वेगोऽत्र वातमूत्रपुरीषाणाम् ।‘वातमूत्रपुरीषाणि निगृह्णाति यदा नरः ॥
’इति चरकवचनात् ॥
क्षथात् क्षीयतेऽनेनेति क्षयः तेनातिव्यवाया-नशनेर्ष्यादयो धातुक्षयहेतवः क्षयशब्देनोच्यन्ते ।साहसात् बलवता समं मल्लयुद्धादितः । विषमा-शनात् बहु स्तोकमकाले वा भुक्तं तत् विषमा-शनम् । तस्मात् । त्रिदोषः सान्निपातिकः ।हेतुचतुष्टयात् अन्येऽपि हेतवः हेतुचतुष्टयएवान्तर्भवन्ति । यक्ष्मणः पर्य्यायाः राजयक्ष्म-क्षयशोषाः ॥
* ॥
यक्ष्मादीनां शब्दानां निरुक्ति-माह ।‘वैद्यो व्याधिमतां यस्मात् व्याधेर्यत्नेन यक्ष्यते ।स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः ॥
’यक्ष्यते पूज्यते ।‘राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः ।तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः ॥
क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः ।संशोषणाद्रसादीनां शोष इत्यभिधीयते ॥
’ * ॥
संप्राप्तिमाह ।‘कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु ।अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरा ।क्षीयन्ते धातवः सर्व्वे ततः शुष्यति मानवः ॥
’कफप्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेषु अनन्तरासर्व्वे धातवः क्षीयन्ते ततो मानवः शुष्यति ।कारणभूतस्य रसस्य क्षये कार्य्याणां रक्तादी-नामनुक्रमेण क्षीयमाणत्वात् ॥
* ॥
मार्गाव-रोधे रसक्षयहेतुमाह चरकः ।‘रसश्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते ।स ऊर्द्ध्वं कासवेगेन बहुरूपः प्रवर्त्तते ॥
’स्वस्थानस्थः हृदयस्थः । कासं विनापि रसक्षयोभवति मार्गावरोधकुपितवातेन रसस्य शोष-णात् । उक्तञ्च ।‘वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन च ।अनुलोमक्षयं दृष्ट्वा प्रतिलोमक्षयावहः ॥
’अनुलोमक्षयं दर्शयित्वा प्रतिलोमक्षयमप्याह ।अतिव्यवायिनो वा रेतसि क्षीणे प्रतिलोमक्रमे-णानन्तरा सर्व्वे धातवो रसपर्य्यन्ताः क्षीयन्ते ।तद्यथा । शुक्रे क्षीणे मज्जा क्षीयते मज्जनिक्षीणेऽस्थि क्षीयते । एवं पूर्व्वं पूर्व्वं क्षीयते ।ननु कार्य्यस्य शुक्रस्य क्षये कथं कारणभूतानांमज्जादीनां क्षयः । उच्यते । शुक्रक्षयाद्बायुःकुप्यति । यदुक्तम् ।‘वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन चेति ।’स वायुः सान्निध्यक्रमेण मज्जादीन् सर्व्वान्धातून् संशोषयति । ततस्तदनन्तरं मानवःशुष्यति ॥
* ॥
पूर्व्वरूपमाह ।‘श्वासाङ्गसादकफसंस्रवतालुशोष-वम्यग्निसादमदपीनसकासनिद्राः ।शोषे भविष्यति भवन्ति स चापि जन्तुःशुक्लेक्षणो भवति मांसपरो रिरंसुः ॥
स्वप्नेषु काकशुकशल्लकिनीलकण्ठ-गृध्रास्तथैव कपयः कृकलासकाश्च ।तं वाहयन्ति स नदीर्विजलाश्च पश्येत्शुष्कांस्तरून् पवनधूमदवार्द्दितांश्च ॥
’ * ॥
यक्ष्मणो लक्षणमाह्न ।‘अंसपार्श्वाभितापश्च सन्तापः करपादयोः ।ज्वरः सर्व्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ॥
’अंसयोः पार्श्वयोः अभितापः पीडा अत्रसकलधातुक्षयपूर्व्वकः सकलशरीरशोषोऽपिबोद्धव्यः । क्षीयन्ते धातवः सर्व्वे ततः शुष्यतिमानव इति संप्राप्तेः । एवं षड्रूपे एकादश-रूपे च बोद्धव्यम् । एतानि त्रीणि लक्षणानिप्रायोभावित्वेन चरकेणोक्तानि । सुश्रुतेनयक्ष्मणि षट्लक्षणान्युक्तानि ।‘भक्तद्वेषो ज्वरः कासः श्वासः शोणितदर्शनम् ।स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥
’ * ॥
उल्वणतया दोषाणां भेदादेकादश लक्षणा-न्याह ।‘स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः ।ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च ।कासः कण्ठस्य चोद्धंसो विज्ञेयः कफकोपतः ॥
’अनिलादुल्वणात् एवं पित्तात् कफाच्च । यतआह सुश्रुतः ।‘एक एवमतः शोषः सन्निपातात्मको गदः ।उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति च ॥
’असाध्ययक्ष्मिणमाह ।‘एकादशभिरेभिर्व्वा षड्भिर्वापि समन्वितम् ।त्रिभिर्व्वा पीडितं लिङ्गैर्ज्ज्वरकासासृगामयैः ।जह्याच्छोषार्द्दितं जन्तुमिच्छेत् सुविपुलं यशः ॥
’तत्र विशेषमाह ।‘सर्व्वैरर्द्धैस्त्रिभिर्व्वापि लिङ्गैर्मांसबलक्षये ।युक्तो वर्ज्यश्चिकित्स्यस्तु सर्व्वरूपोऽप्यतोऽन्यथा ॥
’सर्व्वैर्लिङ्गैरेकादशभिः । अर्द्धैः षड्भिः त्रिभि-र्ज्ज्वरकासरुधिरवमनैः । अतोऽन्यथा मांसे बलेसति सर्व्वरूपोऽपि प्रत्याख्याय चिकित्स्यः ।‘महाशनं क्षीयमाणमतीसारनिपीडितम् ।शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत् ॥
’महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम् ।अतीसारनिपीडितमिति द्बितीयम् । यतउक्तम् ।‘मलायत्तं बलं पुंसां शुक्रायत्तन्तु जीवनम् ।तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ॥
’शूनमुष्कोदरमिति तृतीयम् ॥
* ॥
अरिष्ट-माह ।‘शुक्लाक्षमन्नद्वेष्टारमूर्द्ध्वश्वासनिपीडितम् ।कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥
’मेहन्तं शुक्रं क्षरन्तम् । शुक्लाक्षत्वादीनिएकैकशोऽरिष्टलक्षणानि ॥
* ॥
अवधिमाह ।‘परं दिनसहस्रन्तु यदि जीवति मानवः ।सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥
’शोषपीडितो मानवश्चेत्तरुणो भवति । सुभि-षग्भिरुपक्रान्तो भवति । तदा परं दिनसह-स्रम् । द्वितीयदिनसहस्रं यदि जीवति तत्रजीवनविकल्प इत्यर्थः । एतेन शोषपीडितोमानवश्चेत्तरुणो भवति । सद्वैद्यैश्चिकित्स्योभवति । तदा प्रथमदिनसहस्रं जीवेदेव इत्युक्त्वाचिकित्सामाह ।‘ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् ।उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ॥
’आत्मवन्तं यत्नवन्तं धृतिमन्तं वा ॥
* ॥
अथ निदानविशेषैः शोषविशेषानाह ।‘व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान् ।व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु ॥
’व्रणोरःक्षतसंज्ञौ शोषिणौ । व्रणशोषी उरः-क्षतशोषी च ॥
* ॥
तत्र व्यवायशोषिणोलक्षणमाह ।‘व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः ।पाण्डुदेहो यथापूर्व्वं क्षीयन्ते चास्य धातवः ॥
’शुक्रस्य क्षयलिङ्गैः सुश्रुतोक्तैः । तानि यथा, शुक्रक्षये मेढ्रवृषणयोर्वेदना अशक्तिर्मैथुनेचिराद्वा प्रसेकः प्रसेके चाल्पशुक्रदर्शनमिति ।यथापूर्व्वं क्षीयन्ते चास्य धातवः प्रथमं शुक्रंक्षीयते पश्चात् शुक्रक्षयजनितवायुना मज्जा-दयोऽपि धातवो यथापूर्व्वं क्षीयन्ते ॥
* ॥
शोकशोषिणो लक्षणमाह ।‘प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः ।विना शुक्रक्षयकृतैर्विकारैरुपलक्षितः ॥
’प्रध्यानशीलः यस्याभावेन शोको जनितस्त-द्ध्यानपरः । स्रस्ताङ्गः शिथिलाङ्गः । तादृशःव्यवायशोषिसदृशः । तेन शुक्रादिसर्व्वधातुक्षय-युक्तो भवति । परं शुक्रक्षयकृतैर्विकारैर्मेढ्र-वृषणवेदनादिभिर्वर्जितो भवति । व्याधिस्व-भावात् ॥
* ॥
जराशोषिणो लक्षणमाह ।‘जराशोषी कृषो मन्दवीर्य्यबुद्धिबलेन्द्रियः ।कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः ॥
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः ।संप्रस्रुतास्यनासाक्षः शुष्करूक्षमलच्छविः ॥
’मन्दशब्दः स्वल्पार्थः । शुष्करूक्षमलच्छविःशुष्करूक्षे मलच्छवी यस्य सः ॥
* ॥
अध्व-शोषिणो लक्षणमाह ।‘अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः ।प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः ॥
’संभृष्टस्येव परुषा छविर्यस्य सः । प्रसुप्तगात्रां-वयवः प्रसुप्तः स्पर्शाज्ञः । क्लोमं तिलकं पिपासा-स्थानम् ॥
* ॥
व्यायामशोषिणो लक्षणमाह ।‘व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः ।लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना ॥
’एभिरेव स्रस्ताङ्गत्वादिभिरध्वशोषिणो लक्षणै-रेव । भूयिष्ठं अत्यर्थम् ॥
* ॥
सनिदानं व्रणशोष-माह ।‘रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् ।व्रणितस्य भवेच्छोषो याप्योऽसाध्यश्च स स्मृतः ॥
’उरःक्षतस्य निदानमाह ।‘धनुषायास्यतोऽत्यर्थं भारमुद्वहतो गुरुम् ।युध्यमानस्य बलिभिः पततो विषमोच्चतः ॥
वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णतः ।शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतःपरान् ॥
अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम् ।महानदीं वा तरतो हयैर्व्वा सह धावतः ॥
सहसोत्पततो दूरं तूर्णञ्चातिप्रनृत्यतः ।अथान्यैः कर्म्मभिः क्रूरैर्भृशमप्याहतस्य वा ॥
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ।विक्षते वक्षसि व्याधिर्ब्बलवान् समुदीर्य्यते ॥
’आयास्यतः आयासं कुर्व्वतः । दम्यं वृषादिकम् ।अन्यञ्च गजोष्ट्रादिकम् । शिला दीर्घपाषाणः ।अश्म प्रस्तरखण्डः । निर्घातोऽस्त्रविशेषः ।व्याधिः उरःक्षताखाः ॥
* ॥
उरःक्षतस्य लक्षण-माह ।‘उरो विरुज्यतेऽत्यर्थं भिद्यते च विभज्यते ।शूलं भवति तत्पादं शुष्यत्यङ्गं प्रवेपते ॥
प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रकम्पते ।क्रमाद्वीर्य्यं बलं वर्णो रुचिरग्निश्च हीयते ॥
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा ॥
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहु ।कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते ॥
स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् ।अव्यक्तं लक्षणं तस्य पूर्व्वरूपमिति स्मृतम् ॥
’विरुज्यते पीड्यते । भिद्यते विदार्य्यत इव ।विभज्यते द्बिधा क्रियत इव । स पुरुषः । क्षतःउरःक्षतवान् । अत्यर्थं क्षीयते क्षीणो भवति ।न केवलं सास्रकफक्षयादेव क्षीणो भवति ।तथा शुक्रौजसोः क्षयात् । स्त्र्यतिसेवनादिनाशुक्रौजसोः क्षयादपि क्षीणो भवति ॥
* ॥
उरः-क्षतस्य विशिष्टं लक्षणमाह ।‘उरोरुक् शोणितच्छर्द्दिः कासो वैशेशिकः क्षते ।क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः ॥
’क्षते उरःक्षतवति । उरोरुक् शोणितच्छर्द्दिःकासो वैशेषिकः विशेषतो भवत्येव । तस्मिन्ने-वोरःक्षतवति सास्रकफशुक्रौजसां क्षयात् क्षीणेसरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहश्च भवति ॥
* ॥
निदानविशेषेणोरःक्षतस्य लक्षणविशेषमाह ।‘व्रणारोधात् क्षयाच्चैव कोष्ठात् प्रतिमलात्तथा ।क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः ॥
’क्षयात् धातुक्षयहेतोरतिव्यवायादितः कोष्ठात्प्रतिमलात् कोष्ठात् प्रतिमलवातेन प्रतिलोम-मलात् पूतिकः पूतिगन्धः ॥
* ॥
उरःक्षतस्यसाध्ययाप्यासाध्यलक्षणमाह ।‘अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः ।परिसंवत्सरो याप्यः सर्व्वलिङ्गन्तु वर्जयेत् ॥
’ * ॥
अथ राजयक्ष्मचिकित्सा ।‘बलिनो बहुदोषस्य पञ्च कर्म्माणि कारयेत् ।यक्ष्मिणः क्षीणदेहस्य तत्कृतं स्याद्विषोपमम् ॥
मलायत्तं बलं पुंसां शुक्रायत्तन्तु जीवनम् ।तस्माद्यत्नेन संरक्षेत् यक्ष्मिणो मलरेतसी ॥
शालियष्टिकगोधूमयवमुद्गादयो हिताः ।मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशो-षिणः ॥
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ।दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत् ॥
तेन षड्विनिवर्त्तन्ते विकाराः पीनसादयः ॥
द्रव्यतो द्विगुणं मांसं सर्व्वतोऽष्टगुणं जलम् ।पादस्थं संस्कृतञ्चाज्ये षडङ्गी यूष उच्यते ॥
’तद्यथा । यवपल १ कुलत्थपल १ छागमांस-पल ४ जलपल ४८ शेषपल १२ ततः पलमितेघृते संस्करणीयम् । तत्र कर्षमितं सैन्धवं देयंसौरभार्थं हिङ्गु च देयम् । पिप्पली नागरञ्चपृथक् माषमितं कल्कीकृत्य देयम् । दाडि-मामलकाभ्यामम्लत्वं साध्यम् । षडङ्गयूषः ॥
* ॥
‘ककुभत्वक् नागवला वानरीबीजं विचूर्णितंपयसा ।पक्वं मधुघृतयुक्तं ससितं यक्ष्मादिकासहरम् ॥
छागमांसं पयश्छागं छागं सर्पिश्च नागरम् ।छागोपसेवा शयनं छागमध्ये तु यक्ष्मनुत् ॥
मधुताप्यविडङ्गाश्मं जतुलोहघृताभयाः ।घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः ॥
ताप्यं सुवर्णमाक्षीकम् ।‘शर्करामधुसंयुक्तं नवनीतं लिहन् क्षयी ।क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ॥
सितीपलातुगाक्षीरीपिप्पलीबहुलात्वचः ।अन्त्यादूर्द्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा ॥
लेहयेद्राजरोगार्त्तं कासश्वासक्षयातुरम् ।पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम् ।हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्द्ध्वगे ॥
’सितोपला मिश्री । बहुला सूक्ष्मैला । इतिसतोपलादिरवलेहः ॥
* ॥
‘जातीफलं विडङ्गानि चित्रकं तगरं तिला ।तालीशं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका ॥
कर्पूरश्चाभया धात्री मरीचं पिप्पली तुगा ।एषामक्षसमा भागाश्चातुर्जातकसंयुताः ।पलानि सप्त भङ्गायाः सिता सर्व्वसमा मता ॥
चूर्णमेतत् क्षयं कासं श्वासञ्च ग्रहणीगदम् ।अरोचकं प्रतिश्यायं तथा चानलमन्दताम् ।एतान् रोगान् निहन्त्येव वृक्षमिन्द्राशनिर्यथा ॥
बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत् ।अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः ॥
’इति जातीफलाद्यचूर्णम् ॥
* ॥
‘वासकस्य रसप्रस्थं माणिकासितशर्करा ।पिप्पली द्बिपलं तावत् सर्पिषश्च शनैः पचेत् ॥
तस्मिन् लेहत्वमायाते शीते क्षौद्रपलाष्टकम् ।दत्त्वावतारयेद्बैद्यो लीढो लेहोऽयमुत्तमः ॥
निहन्ति राजयक्ष्माणं कासं श्वासञ्च दारुणम् ।पार्श्वशूलञ्च हृच्छलं रक्तपित्तं ज्वरन्तथा ॥
’इति वासावलेहः ॥
* ॥
अथ व्यवायादिहेतुकशोषचिकित्सा । तत्रव्यवायशोषचिकित्सा ।‘व्यवायशोषिणं क्षीररसमांसाज्यभोजनैः ।सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत् ॥
’रसो मांसरसः सुकूलैर्हितैः ॥
* ॥
शोकशोष-चिकित्सा ।‘हर्षणाश्वासनैः क्षीरैः स्निग्धैर्मधुरशीतलैः ।दोपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत् ॥
’ * ॥
व्यायामशोषचिकित्सा ।‘व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमै ।उपाचरेज्वीवनीयैर्विधिना श्लैष्मिकेण तु ॥
’ * ॥
अध्वशोषचिकित्सा ।‘आस्यासुखैर्दिबास्वप्नैः शीतैर्मधुरवृंहणैः ।अन्नमांसरसाहारैरध्वशोषमुपाचरेत् ॥
’ * ॥
व्रणशोषचिकित्सा ।‘व्रणशोषं जयेत् स्निग्धैर्दीपनैः स्वादुशीतलैःईषदम्लैरनम्लैर्व्वा यूषमांसरसादिभिः ॥
’ * ॥
अथोरःक्षतचिकित्सा ।‘बलाश्वगन्धा श्रीपर्णी बहुपुत्त्री पुनर्नवा ।पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ॥
’श्रीपर्णी गम्भारी । बहुपुत्त्री शतावरी । इतिबलादिचूर्णम् ॥
* ॥
‘एला पत्रत्वचो द्राक्षा पिप्पल्यर्द्धपलं पृथक् ।सितामधुकखर्ज्जूरमृद्वीकाश्च पलोन्मिताः ॥
संचूर्ण्य मधुना युक्ता वटिका संप्रकल्पयेत् ।अक्षमात्रा ततश्चैव भक्षयेच्च दिने दिने ॥
क्षतक्षयं ज्वरं कासं श्वासं हिक्कां वमिंभ्रमम् ।मूर्च्छां मदं तृषां शोषं पार्श्वशुलमरोचकम् ॥
प्लीहानमामवातञ्च रक्तपित्तं स्वरक्षयम् ।एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा ॥
द्राक्षायाः प्रस्थमेकन्तु मधूकस्य पलाष्टकम् ।पचेत्तोयाष्टके शुद्धे पादशेषेण तेन तु ॥
पलिके मधुकद्राक्षे पिष्टे कृष्णापलद्वयम् ।प्रदाय सर्पिषः प्रस्थं पचेत् क्षीरे चतुर्गुणे ॥
सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत् ।एतद्राक्षाघृतं सिद्धं क्षतक्षीणे सुखावहम् ॥
वातपित्तज्वरश्वासविस्फोटकहलीमकान् ।प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम् ॥
’इति द्राक्षादिघृतम् ॥
* ॥
‘क्षीरे धात्रीविदारीक्षुवरीणाञ्च तथा रसे ।पचेत् समे घृतप्रस्थं मधुरैः कर्षसम्मितैः ॥
द्राक्षाद्बिचन्दनोशीरशर्करोत्पलपद्मकैः ।मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः ॥
प्रस्थार्द्धं मधुनः शीते शर्करार्द्धतुलान्तथा ।पलार्द्धकांश्च संचूर्ण्य त्वगेलापत्रकेशरान् ॥
विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः ।अमृतप्राशमित्येतदश्विभ्यां परिकीर्त्तितम् ॥
क्षीरमांसाशिनां हन्ति रक्तपित्तक्षतक्षयम् ।तृष्णारुचिश्वासकासच्छर्द्दिमूर्च्छाप्रमर्दनम् ।मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम् ॥
’इति अमृतप्राशावलेहः ॥
* ॥
‘यद्यच्च तर्पणं शीतमविदाहि हितं लघु ।अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः ॥
शोकं स्त्रियः क्रोधमसूयताञ्चत्यजेदुदारान् विषयान् भजेच्च ।तथा द्बिजातींस्त्रिदशान् गुरूंश्चवाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ॥
’ * ॥
अथ राजयक्ष्मणि रसाः । अृतेश्वरो रसोराजयक्ष्मणि रसेन्द्रचिन्तामणौ ।‘रसभस्मामृतासत्त्वं लौहं मधुघृतान्वितम् ।अमृतेश्वरनामायं षड्भुजो राजयक्ष्मजित् ॥
’इति अमृतेश्वरो रसः ॥
रसभस्मः मारितो रसः । अमृतासत्त्वं गुडूची-सत्त्वम् । लौहं मारितम् ॥
* ॥
‘त्रयोऽंशा मारितात् सूतादेकोऽंशो हेम-भस्मतः ।एकोऽंशो मृतताम्रस्य शिला गन्धश्च तालकम् ।प्रत्येकं भागयुग्मं स्यादेतत् सर्व्वं विचूर्णयेत् ॥
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ।पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च पूरयेत् ॥
ततो गजपुटे पक्त्वा चूर्णयेत् स्वाङ्गशीतलम् ।रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ॥
मरिचैरूनविंशत्या कणाभिर्दशभिस्तथा ।मधुना सर्पिषा चापि दद्यादेतं रसं भिषक् ॥
अनेन नश्यति क्षिप्रं वातश्लेष्मभवक्षयः ॥
’इति राजमृगाङ्को रसो राजयक्ष्मणि रसेन्द्र-चिन्तामणौ ॥
* ॥
‘शुद्धसूतं द्विधा गन्धं कुर्य्यात् खल्लेन कज्जलीम् ।तयोः समं तीक्ष्णचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥
त्रियाममातपे गोलं ताम्रपात्रे विधारयेत् ।आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः ॥
धान्यराशौ न्यसेत् पश्चादहोरात्रात्तदुद्धरेत् ।संचूर्ण्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ॥
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः ।नवभागोन्मितैरेतैः सम एष रसो भवेत् ॥
निष्कद्वयमितं नित्यं मधुना सह लेहयेत् ।अयमग्निरसो नाम्ना कासक्षयहरः परः ॥
’इति अग्निरसः शार्ङ्गधरे ॥
”इति भावप्रकाशस्य मध्यखण्डे द्वितीयभागेराजयक्ष्माधिकारः ॥
* ॥
(अथास्य पौराणिकंविवरणं यथा, --“दिवौकसां कथयतामृषिभिर्वै श्रुता कथा ।कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः ।आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात् ॥
दुहितॄणामसम्भोगाच्छषाणाञ्च प्रजापतेः ।क्रोधो निश्वासरूपेण मूर्त्तिमान्निःसृतो मुखात् ॥
प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान् ।भार्य्यार्थं प्रतिजग्राह न च सर्व्वास्ववर्त्तत ॥
गुरुणा तमवध्यातं भार्य्यास्वसमवर्त्तिनम् ।रजोऽन्धमबलं दीनं यक्ष्मा शशिनमाविशत् ॥
सोऽभिभूतोऽतिगुरुणा गुरुक्रोधेन निष्प्रभः ।देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥
अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः ।प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्-सितः ॥
स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः ।तेजसा वर्द्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥
क्रोधो यक्ष्मा ज्वरो रोग एकोऽर्थो दुःखसंज्ञितः ।यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततोमतः ॥
स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः ।लब्ध्वा चतुर्व्विधं हेतुं समाविशति मानवान् ॥
अयथाबलमारम्भं वेगसन्धारणं क्षयम् ।यक्ष्मणः कारणं विद्यात् चतुर्थं विषमाशनम् ॥
”अस्य विशेषहेतुर्यथा, --“युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः ।पतनैरभिघातैर्वा साहसैर्वा तथापरैः ॥
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते ।वायुः प्रकुपितो दोषावुदीर्य्योभौ विधावति ॥
”तथास्य लक्षणादिकं यथा, --“स शिरःस्थः शिरःशूलं करोति गलमाश्रितः ।कण्ठोद्धंसञ्च कासञ्च स्वरभेदमरोचकम् ॥
पार्श्वशूलञ्च पार्श्वस्थो वर्च्चोभेदं गुदे स्थितः ।जॄम्भां ज्वरञ्च सन्धिस्थ उरःस्थश्चोरसो रुजम् ॥
क्षणनाच्चोरसो रक्तं कासमानः कफानुगम् ।जर्ज्जरेणोरसा कृच्छ्रमुरःशूली निरस्यति ॥
इति साहसिकं यक्ष्मा रूपैरेतैः प्रपद्यते ।एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम् ॥
ह्नीमत्त्वाद्वा घृणित्वाद्वा भयाद्बा वेगमागतम् ।वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥
तदा वेगप्रतीघातात् कफपित्ते समीरयन् ।ऊर्द्ध्वं तिर्य्यगधः कुर्य्याद्विकारान् कुपितोऽनिलः ॥
प्रतिश्यायञ्च कासञ्च स्वरभेदमरोचकम् ।पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्द्दनम् ॥
अङ्गिमर्द्दं मुहुश्छर्द्दिर्वर्च्चोभेदं त्रिलक्षणम् ।रूपाण्येकादशैतानि यक्षा यैरुच्यते महान् ॥
”इति चरके चिकित्सास्थाने अष्टमेऽध्याये ॥
अस्य चिकित्सा यथा, --“काञ्चनं रससिन्दूरं मौक्तिकं लौहमभ्र-कम् ।विद्रुमं मृतवैक्रान्तं तारं ताम्रञ्च वङ्गकम् ॥
कस्तूरिका लवङ्गञ्च जातिकोषैलवालुका ।प्रत्येकं बिन्दुमात्रञ्च सर्व्वं मर्द्द्यं प्रयत्नतः ।कन्यानीरेण संमर्द्द्यं केशराजरसेन च ।अजाक्षीरेण संभाव्यं प्रत्येकं दिवसत्रयम् ॥
चतुर्गुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ।अनुपानं प्रदातव्यं यथादोषानुसारतः ॥
नानारोगप्रशमनं सर्व्वोपद्रवसंयुतम् ।क्षयं हन्ति तथा कासं यक्ष्माणं श्वासमेव च ॥
प्रमेहान् विंशतिञ्चैव दोषत्रयसमुत्थितान् ।सर्व्वान् रोगान् निहन्त्याशु भास्करस्तिमिरंयथा ॥
”इति बृहत्काञ्चनाभ्रवटी ॥
“शिलाजतुमधुव्योषताप्यलौहरजांसि च ।क्षीरेणालोडितस्यासु यक्ष्मा क्षयमवाप्नुयात् ॥
”इति शिलाजत्वादिलौहम् ॥
* ॥
इति वैद्यकरसेन्द्रसारसंग्रहे राजयक्ष्माधि-कारे ॥
* ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
