| YouTube Channel

यक्षकर्द्दमः (yakSakarddamaH)

 
शब्दकल्पद्रुमः
Sanskrit
यक्षकर्द्दमः,
पुं,
(यक्षप्रियः कर्द्दमः ।) कर्पूरागुरु-कस्तूरीकक्कोलानां मिश्रितसमभागः इत्य-मरः १३३
“कर्पूरादिभिर्गन्धद्रव्यैःसमभागैः साधितोऽनुलेपनभेदो यक्षकर्द्दमउच्यते यक्षप्रियः कर्द्दमो यक्षकर्द्दमः ।‘कुङ्कुमागुरुकस्तूरीकर्पूरं चन्दनन्तथा ।महासुगन्धमित्युक्तं तो यक्षकर्द्दमः
’इति धन्वन्तरिः
अन्यत्रापि ।कर्पूरागुरुकस्तूरीकक्कोलघर्षणादि ।एकीकृतमिदं सर्व्वं यक्षकर्द्दम इष्यते
”इति तट्टीकायां भरतः