यकृत् (yakRt)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishयकृत् - yakRt - - liver
कालक - kAlaka - - liver
कालखञ्ज - kAlakhaJja - - liver
कालखञ्जन - kAlakhaJjana - - liver
कालेय - kAleya - - liver
तनिमन् - taniman - - liver
यकृन्मेदस् - yakRnmedas - - liver and fat
यकृद्वर्ण - yakRdvarNa - - liver-coloured
यकृत्तस् - yakRttas - - from the liver
यकृदुदर - yakRdudara - - enlargement of the liver
अग्रमांस - agramAMsa - - morbid protuberance of the liver
यकृत्कोश - yakRtkoza - - cyst or membrane enveloping the liver
यकृत् - yakRt - - liver
Wilson
EnglishApte
Englishयकृत् [yakṛt], [यं संयमं करोति कृ क्विप् तुक् च Tv.] The liver or any affection of it
सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वताः Bṛi. 1.1.1
3.32. -आत्मिका a kind of cockroach. -उदरम् enlargement of the live. -कोषः the membrane enveloping the liver. -वैरिन् of a plant (Mar. रक्तरोहिडा).
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishयकृत् यकृत्, त्, n. (all the cases except the
Nom. Voc. sing. du. pl., Acc. sing. du. are optionally
formed from a base यकन्, hence Acc. pl. यकृन्ति
or यकानि, Inst. sing. du. pl. यकृता or यक्ना, य-
कृद्भ्याम् or यकभ्याम्, यकृद्भिस् or यक-
भिस्, see Pāṇ. VI. 1, 63, Vopa-deva III. 39, III. 165,
Gram. 144), the liver
[cf. Gr. ἧπαρ
Lat. jecur
(perhaps) Angl. Sax. lifer
Lett. ak-ni-s
Bohem.
jatra, ‘the liver.’]
—यकृत्-कोश, अस्, अम्, m. n.
the cyst or membrane enveloping the liver.
—य-
कृद्-आत्मिका, f. a kind of cockroach.
—यकृद्-
उदर or यकृद्-दाल्य or यकृद्-दाल्य्-उदर,
अम्, n. an enlargement of the liver.
—यकृद्-वर्ण,
अस्, आ, अम्, liver-coloured, of the colour of liver.
—यकृद्-वैरिन्, ई, m. Andersonia Rohitaka.
—यकृन्-मेदस्, अस्, n. liver and fat.
—यकृल्-
लोम, आस्, or यकृल्-लोमन्, आनस्, m. pl., N. of
a people.
Benfey
EnglishHindi
Hindiजिगर
Apte Hindi
Hindiयकृत्
- यं संयमं करोति कृ क्विप् तुक् च्
"जिगर, या तद्गत प्रभावशालिता"
यकृत्
- यं संयमं करोति कृ+क्विप् तुक् च
जिगर
Shabdartha Kaustubha
Kannadaयकृत्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೊಟ್ಟೆಯ ಬಲಗಡೆ ಇರುವ ಒಂದು ಮಾಂಸದ ಪಿಂಡ
निष्पत्तिः - > डुकृञ् (करणे) - "क्विप्" (३-२-७६)
व्युत्पत्तिः - > यं संयमं करोति
यकृत्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಈ ಮಾಂಸಪಿಂಡವನ್ನು ಬೆಳೆಸುವ ಒಂದು ರೋಗ
विस्तारः - > "अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥" - भावप्र०
L R Vaidya
EnglishBopp
LatinWordnet
Sanskrit यकृत्, कालखण्डम्, कालखञ्जम्, कालेयम्, कालकम्, करण्डा, महास्नायु
अवयवविशेषः, कुक्षेर्दक्षिणभागस्थमांसखण्डः।
"त्रिदोषसंश्रितं यकृत्।"
Sanskrit Tibetan
Tibetanmcher pa
यकृत्
cher pa
यकृत्
अभिधानचिन्तामणिः
Sanskritकालखण्डं कालखञ्जं कालेयं कालकं यकृत् ॥ ६०४ ॥
कालखण्ड (क्ली), कालखञ्ज (क्ली), कालेय (क्ली), कालक (क्ली), यकृत् (क्ली)
अभिधानरत्नमाला
Sanskritकालखण्ड
कालखण्ड, यकृत्
अन्त्रं पुरीतत्कथितं कालखण्डं यकृन्मतम् ॥ ६३५ ॥
verse 3.1.1.635
page 0072
शब्दकल्पद्रुमः
Sanskritयकृत्, (यज् + “शकेरृतिन् ।” उणा०४ । ५८ । इत्यत्र “बाहुलकात् यजेः कश्च ।”इत्युज्ज्वलदत्तोक्त्या ऋतिन् जस्य च कः ।) कुक्षे-र्दक्षिणभागस्थमांसखण्डम् । तत्पर्य्यायः । काल-खण्डम् २ । इत्यमरः । २ । ६ । ६६ ॥
काल-खञ्जम् ३ कालेयम् ४ कालकम् ५ । इतिहेमचन्द्रः ॥
करण्डा ६ महास्नायुः ७ । इतिरभसः ॥
* ॥
(यथा, ऋग्वेदे । १० । १६३ । ३ ।“यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो विवृहामि ते ।”“यक्नः हृदयसमीपे वर्त्तमानः कालमांसविशेषोयकृत् तस्मात् ।” इति तद्भाष्ये सायणः ॥
)अथ शरीरावयवविशेषस्य यकृतः स्वरूपमाह ।“अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः ।तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥
”अथ यकृद्रोगमाह ।“प्लीहामयस्य हेत्वादि समस्तं यकृदामये ।किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः ॥
”अथ यकृद्रोगचिकित्सा ।“प्लीहोद्दिष्टाः क्रियाः सर्व्वा यकृत्यपि समा-चरेत् ।कार्य्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् ॥
क्षारञ्च विडकृष्णाभ्यां पूतिकस्याम्बु निस्रुतम् ।पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये ॥
”इति भावप्रकाशः ॥
(तथा च ।“वातेनोदीरितं रक्तं कफेन च घनीकृतम् ।पित्तेन पाकतां प्राप्तं त्रिदोषसंश्रितं यकृत् ॥
लक्षणं तस्य वक्ष्यामि तेन तच्चापि लक्षयेत् ।क्षीयते तेन मनुजो मृत्युराशु प्रवर्त्तते ॥
वमिक्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः ।दाहोऽरुचिस्तृषामूर्च्छा कण्ठे दाहः शिरो-व्यथा ॥
हृच्छूलञ्च प्रतिश्यायः ष्ठीवनं कटुकासह ।सशल्यं हृदि शूलञ्च निद्रानाशः प्रलापतः ॥
हृदये मन्यते जाड्यं उदरं गर्ज्जते भृशम् ।एतैर्लिङ्गैर्विजानीयात् यकृत् कोष्ठे च वक्षसि ॥
”अथास्य चिकित्सा ।“निम्बनीपधवचेतसं निशाकाश्मरी च तुलसी च सिंहिका ।क्वाथ एव हृदयामयापहआशु शूलयकृतश्च नाशकृत् ॥
सौराष्ट्रीकासीसमहौषधानिदुरालभाजातिप्रबालकञ्च ।दार्व्वी यमानी ककुभः समङ्गाक्वाथः ससर्पिर्यकृदाशु हन्ति ॥
”इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥
“प्लीहवद्दक्षिणात् पार्श्वात् कुर्य्याद्यकृदपिच्युतम् ॥
”इति वाभटे निदानस्थाने द्वादशेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritयकृत् यं संयमं करोति कृ--क्विप् तुक् च । १ कुक्षौ दक्षिण-भागस्थे मांसपिण्डे अमरः । २ तद्वर्द्धके रोगभेदे च“अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः । तत्तुरञ्जकपित्तस्य स्थानं शोणितजं मतम्” भावप्र० ।तद्रोगनिदानादि तत्रोक्तं यथा “प्लीहामयस्य हेत्वादिसमस्तं यकृदामये । किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिण-पार्श्वयोः” । अस्य शमादौ भत्वे च यकन्नादेशः ।
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
