| YouTube Channel

म्लेच्छमुखं (mlecchamukhaM)

 
शब्दकल्पद्रुमः
Sanskrit
म्लेच्छमुखं,
क्ली,
(म्लेच्छे म्लेच्छदेशे मुखमुत्पत्ति-रस्य इत्यमरटीकायां रघुनाथः ।) ताम्रम् ।इत्यमरः ९७
(तथास्य पर्य्यायः ।“ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम् ।रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“ताम्रमौडुम्बरं शूल्वं विद्यात् म्लेच्छमुख-न्तथा
”इति गारुडे २०८ अध्याये
)