| YouTube Channel

म्लानं (mlAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
म्लानं, त्रि, (म्ल हर्षक्षये + क्तः “संयोगादेरातो-र्यण्वतः ।” ४३ इति निष्ठातस्य नः ।)मलिनम् यथा, --“मलिनं कच्चरं म्लानं कश्मलञ्च मलीमसम्
”इति हेमचन्द्रः
(यथा, मार्कण्डेये ६२ १६ ।“स चिन्तयामास तदा किं न्वेषा गजगामिनी ।निश्वासपवनम्लाना गिरावत्र वरूथिनी
”)दुर्बलम् (यथा, --“अन्तेषु शूणं परिहीनमध्यंम्लानन्तथान्तेषु मध्यशूणम्
”इति माधवकृतरुग्विनिश्चयस्य पाण्डुरोगव्या-ख्याने विजयेनोक्तम्
(म्लै + भावे क्तः ग्लानिः ।यथा, मार्कण्डेये ३५ २४ ।“रथ्यावसषणस्नानक्षुत्पानम्लानकर्म्मसु ।आचामेच्च यथान्यायं वासो विपरिधाय
”)