| YouTube Channel

म्लाता-त्री (mlAtA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“म्लै हर्षक्षये”@} 2 “-- ‘गात्रविनामे’ विनामः = कान्तिक्षयः।” इति क्षीरस्वामी।
‘हर्षक्षयः = धातुक्षयः।’ इति माधवः।
म्लायकः-यिका, म्लापकः-पिका, मिम्लासकः-सिका, माम्लायकः-यिका
म्लाता-त्री, म्लापयिता-त्री, मिम्लासिता-त्री, माम्लायिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकग्लायतिवत् 3 ज्ञेयानि।
अस्य मित्संज्ञा- 4 विधानाभावात् मित्संज्ञाकार्यं नेति विशेषः।
तेन ण्यन्ते म्लायकः-यिका, इत्यादिकानि एकविधान्येव रूपाणि।
5 म्लानिः।
प्रासङ्गिक्यः
01
=>
(१३३३)
02
=>
(१-भ्वादिः-९०४ अक। अनि। पर।)
03
=>
(४५२)
04
=>
[पृष्ठम्१०६४+ २७]
05
=>
[[१। बाहुलकात् क्तिनस्तकारस्य नकारे रूपमेवम्।]]