| YouTube Channel

म्रदिता-त्री (mraditA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“म्रद मर्दने”@} 2 घटादिः, षिच्च।
‘मृद--’ इति बालमनोरमापाठः।
‘अत् स्मृदॄत्वरप्रथम्रद--’ 3 इति सूत्रे म्रद इत्यनेनास्यैव ग्रहणस्य सर्वैरप्युक्तत्वात् चिन्त्यः।
म्रादकः-दिका, म्रदकः-दिका, मिम्रदिषकः-षिका, माम्रदकः-दिका
म्रदिता-त्री, म्रादयिता-त्री, मिम्रदिषिता-त्री, माम्रदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्रपतिवत् 4 ज्ञेयानि।
5 मृदुः।
प्रासङ्गिक्यः
01
=>
(१३२२)
02
=>
(१-भ्वादिः-७६७। सक। सेट्। आत्म।)
03
=>
(७-४-९५)
04
=>
(२७२)
05
=>
[[१। ‘प्रथिम्रदि--’ (द। उ। १। ११३) इति कुप्रत्ययः, सम्प्रसारणं च। म्रद्यते ऽसाबिति मृदुः = अकठिनः।]]