| YouTube Channel

म्रद (mrada)

 
Wilson
English
म्रद r. 1st cl. (म्रदते)
1 To grind, to pound, to reduce to powder or dust.
2 To tread or trample on.
Monier Williams Cologne
English
म्रद See ऊर्ण-म्रद and ऊर्णा-म्रदस्.
Monier Williams 1872
English
म्रद, म्रदस्, in ऊर्ण-म्रद, ऊर्ण-म्र-
दस्, q. q. v. v.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
म्रद्
मूलधातुः:
म्रद
धात्वर्थः:
मर्दने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
म्रदते
धातुप्रदीपः
Sanskrit
म्रदँ म्रद मर्दने
- म्रदते म्रदयति अमम्रदत् म्रदा ।। 770 ।।
शब्दकल्पद्रुमः
Sanskrit
म्रद, क्षोदे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) रेफयुक्तः क्षोदश्चूर्णी-करणम् म, म्रदयति ष, म्रदा ङ, म्रदतेकाननं दन्ती इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
म्रद क्षोदे
भ्वा०
आ०
सक०
सेट् म्रदते अम्रदिष्ट घटा०म्रदयति षित् अङ् म्रदा
क्षीरतरङ्गिणी
Sanskrit
म्रदँ म्रद मर्दने
- म्रदते म्रदयति अमम्रदत् प्रथिम्रदि (उ0 128) इति मृदुः मृद्वीका क्र्यादौ मृद क्षोदे (948) मृद्नाति, अमीमृदत् अममर्दत् 746
धातुवृत्तिः
Sanskrit
म्रदँ म्रद (अर्थः) मर्दने
( म्रदते मम्रदे म्रदिता मिम्रदिषते माम्रद्यते माम्रदीति माम्रत्ति म्रदयति अमम्रदत् ) "अत् स्मृदृत्त्वरप्रथम्रद'' इत्यादिनाभ्यासस्यात्वं मित्त्वां पवादः मृदुः "प्रथिम्रदि'' इतृयादिना कुप्रत्ययः सम्प्रसारणं नैतेन मृद्धातोरभावोनुतव्यः तत्र संप्रसारणस्यार्थं वक्तव्यत्वात्, सत्त्व एव हि मृद्धातोर्मृदेत्यादिनिदैशोपपत्तिः मृदोरपत्यं, ( मार्देयम् ) "शुभ्रादिभ्यश्च'' इति ढक् "ढे लोपोकद्रवाः'' इति उकारलोयः ( मृद्वी ) गुणवचनत्वात् ङीष् ( मृद्विका ) कनि "केणः'' इति ह्रस्वः ( म्रदिमा ) पृथ्वादिभ्य इमनिचि "र ऋतः'' इति रः तदभावे ( मार्दवम्, ) स्वदुमृदुनं इदं (सौवादुमृदवम् ) "द्वारादीनां च'' इति वृद्धिप्रतिषेध ऐजागमश्च मृद क्षोद इति ऋकारोपधः क्र्यादौ 755
कृदन्तरूपमाला
Sanskrit
1 {@“म्रद मर्दने”@} 2 घटादिः, षिच्च।
‘मृद--’ इति बालमनोरमापाठः।
‘अत् स्मृदॄत्वरप्रथम्रद--’ 3 इति सूत्रे म्रद इत्यनेनास्यैव ग्रहणस्य सर्वैरप्युक्तत्वात् चिन्त्यः।
म्रादकः-दिका, म्रदकः-दिका, मिम्रदिषकः-षिका, माम्रदकः-दिका
म्रदिता-त्री, म्रादयिता-त्री, मिम्रदिषिता-त्री, माम्रदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्रपतिवत् 4 ज्ञेयानि।
5 मृदुः।
प्रासङ्गिक्यः
01
=>
(१३२२)
02
=>
(१-भ्वादिः-७६७। सक। सेट्। आत्म।)
03
=>
(७-४-९५)
04
=>
(२७२)
05
=>
[[१। ‘प्रथिम्रदि--’ (द। उ। १। ११३) इति कुप्रत्ययः, सम्प्रसारणं च। म्रद्यते ऽसाबिति मृदुः = अकठिनः।]]