| YouTube Channel

म्रक्षयिता-त्री (mrakSayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“म्रक्ष म्लेच्छने”@} 2 ‘म्लेच्छनम् = अपशब्दनम्।’ इति धातुवृत्तिः।
‘म्रक्ष रोषे’ इति चान्द्रसम्मतः पाठ इति क्षीरतरङ्गिणीतो ज्ञायते।
‘म्रक्ष च्छेदने’ इत्यपि क्वचित्पठ्यते--इति मा।
धा।
वृत्तिः।
‘म्लेच्छने म्रक्षयेत्, 3 म्रक्षेत् संघाते--।।’ 4 इति देवः।
म्रक्षकः-क्षिका, मिम्रक्षयिषकः-षिका
म्रक्षयिता-त्री, मिम्रक्षयिषिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि चौरादिकपक्षयतिवत् 5 ज्ञेयानि।
6 अनयम्रक् 7 -म्रक्षौ-म्रक्षः।
8 9
प्रासङ्गिक्यः
01
=>
(१३२१)
02
=>
(१०-चुरादिः-१६६२। अक। सेट्। उभ।)
03
=>
[[७। देवश्लोकदर्शनेनास्य भ्वादिषु ‘म्रक्ष संघाते’ इति पाठः संमत इति ज्ञायते। परं तु सर्वत्र धातुपाठेषु भ्वादिष्वस्य मृक्ष इत्येव पाठ उपलभ्यते। मा। धा। वृत्तौ तु चुरादिषु म्रक्षधातुप्रस्तावे ‘म्रक्षति इति संघाते शपि।’ इत्युक्तम्। धातुवृत्तावेव भ्वादिषु म्रक्ष इत्येव पाठो दृश्यते। ईदृशेषु स्थलेषु कतमः पाठः सर्वसम्मत इति दुर्निरूपं भवति।]]
04
=>
(श्लो। १७१)
05
=>
(९५६)
06
=>
[[८। क्विपि संयोगान्तलोपे रूपमेवम्।]]
07
=>
[[B। ‘धर्मेतरम्यग् अनयम्रगयं हि राजा।’ धा। का। ३-३०।]]
08
=>
[[आ। ‘सोऽजुहोत् कृष्णवर्त्मानम् आमनन् मन्त्रमुत्तमम्।।’ भ। का। १७। ३०। ]]
09
=>
[पृष्ठम्१०६०+ २६]