| YouTube Channel

म्नाता-त्री (mnAtA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“म्ना अभ्यासे”@} 2 प्रायेणायमाङ्पूर्वक एव प्रयुज्यते।
‘अभ्यासः = पारम्पर्येण वृत्तिः।’ इति क्षीरस्वामी।
म्नायकः-यिका, म्नापकः-पिका, मिम्नासकः-सिका, माम्नायकः-यिका
म्नाता-त्री
म्नापयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि 3 विना भौवादिकधमतिवत् 4 ज्ञेयानि।
5 आमनन्-ती, 6 व्यत्यामनमानः, 7 निम्नम्, 8 द्युम्नम्, 9 सुम्नम्, 10 आम्नायः इतीमानि रूपाण्यस्येति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३२०)
02
=>
(१-भ्वादिः-९२९। अक। अनि। पर।)
03
=>
[पृष्ठम्१०५९+ २९]
04
=>
(९२४)
05
=>
[[१। शतरि, शपि ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमन--’ (७-३-७८) इत्यादिनाऽस्य मनादेशे पररूपे रूपमेवम्।]]
06
=>
[[२। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानचि, शपि मनादेशे रूपमेवम्।]]
07
=>
[[३। नीचभावमभ्यस्तीति निम्नम्। ‘सुपि--’ (३-२-४) इति योगविभागात्, ‘आतश्चोपसर्गे’ (३-१-१३६) इति वा कप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपमेवम्। अत्र धातुवृत्तौ तु --“ --‘आतोऽनुपसर्गे कः’ (३-२-३) इति वा कः। नेर्नीचभाववचनत्वेन मन्य (न?) त्यर्थस्याविशेषणान्न तं प्रतीहोपसर्गत्वम्।” इत्युक्तम्। तदिहावधेयम्।]]
08
=>
[[४। दिने आम्नायते इति द्युम्नम्। द्युशब्दो दिनवचनः। अत्रापि कप्रत्यये रूपम्।]]
09
=>
[[५। सुतरामाम्नायते इति सुम्नम् = सुखम्। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति घञर्थे कप्रत्यये रूपम्।]]
10
=>
[[६। = समन्तात् म्नायते इति आम्नायः = वेदः। घञि ‘आतो युक्--’ (७-३-३३) इति युगागमे रूपमेवम्।]]