मौलिकः (maulikaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमौलिकः, (मूले आद्ये जातः । मूल + ठञ् ।)कुलीनभिन्नः । यथा राढीयवारेन्द्रब्राह्मणस्यश्रोत्रियः तथा कायस्थस्य मौलिकः । एवं दाक्षि-णात्यवैदिकब्राह्मणस्य अन्यपूर्व्वापरिणेतापि तत्-पदवाच्यः । वङ्गजकायस्थस्य स च मध्यन्यशब्द-वाच्यः । यथा । अथ मध्यन्यलक्षणमाह ।मध्यन्यशब्दो रूढ इत्यन्यः । डित्थडवित्थवत् ।मध्यन्यः कुलमध्यस्थकुलीनस्य विश्रामस्थल-मित्यर्थः । मध्यन्यशब्दस्य लक्षणान्तरम् । कुली-नेतरसिद्धवंशजातकत्वे सति दशपुरुषावधिअनवच्छिन्नकुलार्च्चनत्वं मध्यन्यत्वम् । स चद्विविघः । सिद्धः साध्यश्च । सिद्धत्वं प्रकृत-मध्यन्यत्वम् । प्रकृतसिद्धवंशजातत्वे सति दश-पुरुषावधिकुलार्च्चकत्वं सिद्धत्वम् । सिद्धपदा-काङ्क्षित्वे सति दशपुरुषावधिकुलार्च्चकत्वं साध्य-त्वम् । अस्य प्रशंसामाह ।“कुलीनकुलरक्षार्थं विवादेषु मीमांसया ।एतेषां गुणमाश्रित्य मध्यन्यः कुलमुत्तमम् ॥
”इति कुलदीपिका ॥
* ॥
दक्षिणराढीयकायस्थस्याष्टसन्मौलिका यथा, --“गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिकाये हि सिद्धा-स्ते दत्ताः सेनदासाः करगुहसहिताःपालिताःसिंहदेवाः ।ये वा पद्याभिमुख्याः स्थितिविनययुषः सप्ततिस्तेद्विपूर्व्वामित्राद्या वीक्ष्य राज्ञा चरणगुणयुता मौलिक-त्वेन साध्याः ॥
”अपि च ।“सेनो दत्तः करो ज्ञेयो दासो देवः प्रतिष्ठितः ।पालितः सिंहधर्म्मज्ञो गुहः सन्मौलिकाःस्मृताः ॥
” * ॥
द्बिसप्ततिसाध्यमौलिका यथा, --“होडः स्वरधरधरणी बाणआयिच सोमः पैसुर सामः ।भञ्जो विन्दो गुह बल लोघःशर्म्मा वर्म्मा हुइ भूँयि चन्द्रः ॥
रुद्रो रक्षित राजादित्योविष्णुर्नागः खिल पिल गूतः ।इन्द्रो गुप्तः पालो भद्रओमश्चाङ्कुर बन्धुर नाथः ॥
शाँयिर्हेशो मानो गण्डोराहा राणा राहुत साना ।दाहा दाना गण उपमाना ॥
खामः क्षोमो घर वै ओषःवीदस्तेजश्चार्णव आशः ।शक्तिर्भूतो ब्रह्मो शानःक्षेमो हेमो बर्द्धन रङ्गः ।गुइः कीर्त्तिर्यशः कुण्डोनन्दी शीलो धनुर्गुणः ॥
”इति द्बिसप्ततिमौलिकाः ॥
* ॥
अन्यच्च ।“देवो भूदेवभक्तो गुहसदृशगुणो दास ईशान-दासःसेनो दत्तः सुदत्तामहितजनचयः पालितोधर्म्मपालः ।सिंहः सिंहप्रतापः क्षितिनिकरकरादानदक्षःकरोऽसौगौडेऽष्टौ संस्थितास्ते गुणगणनिपुणा मौलिक-त्वेन सिद्धाः ॥
* ॥
होडबाणधरणीखिलसोमाभुञ्जबिन्दगुहराजराहुताः ।रुद्रपालबलसामरक्षितालोधशर्म्मभुँयिवर्म्मबन्धराः ॥
चन्द्रशाँयिगुयिभद्रपैसुरागण्डगुप्तघरकीर्त्तिवर्द्धनाः ।क्षेमहेमगणनाथविष्णवोब्रह्मरङ्गपिलहुइधनुर्गुणाः ॥
तेजोऽर्णवस्वरधरायिच शक्तिभूताःक्षोमौष शान विदशील यशोम नन्दी ।दाहाङ्कुरेन्द्रशुभकुण्डमनोपमानादानाशगूतविदिता भुवि कीर्त्तिमन्तः ॥
हेशादित्यौ राण राहा साना च खामक-स्तथा ।द्विसप्ततिमिताः साध्या मौलिका विदिताःक्षितौ ॥
”इति कुलाचार्य्यकारिका ॥
* ॥
(देशविशेषः । यथा, मार्कण्डेये । ५७ । ४८ ।“पौरिका मौलिकाश्चैव अश्मका भोग-वर्द्धनाः ॥
”)त्रि, मूलसम्बन्धिनि मौलसम्बन्धिनि च ॥
(भार-भूतं मूलं हरति वहत्यावहति वा । मूल +“तद्धरति वहत्यावहति भारात् वंशादिभ्यः ।”५ । १ । ५० । इति ठञ् । मूलभारहारके मूलभार-वाहके मूलभारानेतरि च । इति व्याकरणम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
