| YouTube Channel

मौलः (maulaH)

 
Apte Hindi
Hindi
मौलः
पुं*
- -
पुराना या वंशक्रमागत मंत्री
शब्दकल्पद्रुमः
Sanskrit
मौलः,
पुं,
(मूलं वेदेति मूल + अण् ।) भूम्यादे-र्मूलज्ञाता मोडल् इति भाषा यथा, --“यत् परम्परया मौलाः सामन्ताः स्वामिनंविदुः ।तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही
”इति दायतत्त्वम्
तस्य लक्षणं यथा, --“ये तत्र पूर्व्वं सामन्ताः पश्चाद्देशान्तरं गताः ।तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः
”इति मिताक्षरा
(विजिगीष्वरिमध्योदासीनः यथा, कामन्द-कीये ३४ ।“चत्वारः पार्थिवा मौलाः पृथङ्मित्रैः सहा-ष्टकम्
”मूलभूते, त्रि यथा, तत्रैव २५ ।“मौला द्वादश यास्त्वेता ह्यमात्याद्यास्तथा याः ।सप्ततिश्चाधिका ह्यताः सर्व्वं प्रकृतिमण्डलम्
”)