| YouTube Channel

मौनेयः (mauneyaH)

 
शब्दकल्पद्रुमः
Sanskrit
मौनेयः,
पुं,
(मुनेरपत्यं पुमान् मुनि + “इतश्चानिञ् ।” १२२ इति ढक् ।) गन्धर्व्व-गणविशेषः यथा, --“गन्धर्व्वाप्सरसः पुण्या मौनेयांस्तु निबोधत ।चित्रसेनोग्रसेनौ तु ऊर्णायुरनिधस्तथा
धृतराष्ट्रस्तथोमांश्च सूर्य्यवर्च्चास्तथैव ।युगतत्तृणपत्कार्ष्णो निदिश्चित्ररथस्तथा
त्रयोदशः शालिशिराः पर्य्यण्यश्च चतुर्द्दशः ।इत्येते देवगन्धर्व्वाश्चतुस्त्रिंशच्छुभाप्सराः
”इति वह्निपुराणम्
(अप्सरोभेदे, स्त्री यथा, हरिवंशे २१८ ४७ ।“काश्या शारद्बती चैव मौनेयाप्सरसः स्मृताः
”)