| YouTube Channel

मौखं (maukhaM)

 
शब्दकल्पद्रुमः
Sanskrit
मौखं,
क्ली,
(मुखस्येदमिति मुख + अण् ।)मुखसम्बन्धाधीनपापम् तत्तु अभक्ष्यभक्षणरूपंतत्र क्लीवम् संसर्गरूपस्य तस्य प्रायश्चित्तंयथा सुमन्तुः यश्च तैर्यौनमौखश्रौवाणांसम्बन्धानामन्यतमेन सह सम्पर्क्कमियात् तस्या-प्येतदेव प्रायश्चित्तं विदध्यात् इयात् कुर्य्यात् ।एतदेवेति द्वादशवार्षिकमित्यर्थः अत्र याज-नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते ।इति शूलपाणिकृतप्रायश्चित्तविवेकः
मुख-सम्बन्धिनि, त्रि