| YouTube Channel

मोहशास्त्रं (mohazAstraM)

 
शब्दकल्पद्रुमः
Sanskrit
मोहशास्त्रं,
क्ली,
(मोहोत्पादकं शास्त्रमितिमध्यपदलोपिकर्म्मधारयः ।) अविद्याजनकग्रन्थः ।यथा, --“गोपतिं प्राह विप्रेन्द्रानालोक्य भगवान् हरि ।न वेदवाह्यपुरुषे पुण्यलेशोऽपि शङ्कर !
सङ्गच्छते महादेव ! धर्म्मो वेदाद्धि निर्ब्बभौ ।तथापि भक्तबात्सल्याद्रक्षितव्या महेश्वर !
अस्माभिः सर्व्व एवेमे गन्तारो नरकानपि ।अस्माद्वै वेदवाह्यानां रक्षणाय पापिनाम् ।विमोहनाय शास्त्राणि करिष्यावो वृषध्वज !
एवं सम्बोधितो रुद्रो माधवेन मुरारिणा ।चकार मोहशास्त्राणि केशवोऽपि शिवेरितः
कापालं नाकुलं वामं भैरवं पूर्व्वपश्चिमम् ।पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः
”इति कौर्म्मे १४ अध्यायः