| YouTube Channel

मोमूयकः-यिका (momUyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मूङ् बन्धने”@} 2 मावकः-विका, मावकः-विका, 3 मुमूषकः-षिका, 4 मिमावयिषकः-षिका, मोमूयकः-यिका
मविता-त्री, मावयिता-त्री, मुमूषिता-त्री, मोमूयिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिकपवतिवत् 5 ज्ञेयानि।
6 मूतम्- तः-तवान्, 7 जीमूतः, क्त्वाप्रत्यये मूत्वा, 8 मूषा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
9
प्रासङ्गिक्यः
01
=>
(१२९४)
02
=>
(१-भ्वादिः-९६७। सक। सेट्। आत्म।)
03
=>
[[५। सन्नन्ते ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्निषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वात् गुणनिषेधः।]]
04
=>
[[६। ण्यन्तात् सनि ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यनेन पवर्गपरकत्वात् अभ्यासस्य इकारः।]]
05
=>
(१०३३)
06
=>
[[७। निष्ठायाम्, ‘श्र्युकः क्किति’ (७-२-११) इति इण्निषेधः। एवं क्त्वा क्तिन्प्रभृतिष्वपि ज्ञेयम्।]]
07
=>
[[८। जीवनस्य मूतः जीमूतः = मेघः। पृषोदरादित्वात् (६-३-१०९) जीवनशब्दस्य ‘जी’ इत्यादेशः।]]
08
=>
[[९। ‘मूङ्य्वोर्लोपश्च’ (द। उ। ९-१७) इत्यूषन्प्रत्यये धातूकारलोपे रूपमेवम्।]]
09
=>
[पृष्ठम्१०४४+ २८]