| YouTube Channel

मोमुरिता-त्री (momuritA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुर संवेष्टने”@} 2 ‘--परिवेष्टने’ इति मा।
धा।
वृत्तिः।
मोरकः-रिका, मोरकः-रिका, मुमोरिषकः-मुमुरिषकः-षिका, मोमुरकः-रिका
मोरिता-त्री, मोरयिता-त्री, मुमोरिषिता-मुमुरिषिता-त्री, मोमुरिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुरतिवत् 3 ज्ञेयानि।
क्विपि- मूः-मुरौ-मुरः
4 मुरः-मुरा, 5 मुरी इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८७)
02
=>
(६-तुदादिः-१३४३। सक। सेट्। पर।)
03
=>
(२२९)
04
=>
[[५। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। मुरा = ओषधिविशेषः।]]
05
=>
[[६। गौरादिपाठात् (४-१-४१) स्त्रियां ङीषि रूपमेवम्।]]
1 {@“मॄ हिंसायाम्”@} 2 प्वादिः, ल्वादिश्च।
‘मृणाति हिंसार्थे प्वादेर्मृङस्तु म्रियते पदम्।।’ 3 इति देवः।
मारकः-रिका, मारकः-रिका, मुमूर्षकः-मिमरिषकः-मिमरीषकः-षिका, मोमुरकः-रिका
मरिता-मरीता-त्री, मारयिता-त्री, मुमूर्षिता-मिमरिषिता- मिमरीषिता-त्री, मोमुरिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिक पिपर्तिवत् 4 ज्ञेयानि।
5 मृणन्-मृणती, 6 मूर्णम्-मूर्णः-मूर्णवान्, 7 मूर्णिः, इतीमानि रूपाण्यस्माद् भवन्ति।
प्रासङ्गिक्यः
01
=>
(१३१३)
02
=>
(९-क्र्यादिः-१४९२। सक। सेट्। पर।)
03
=>
(श्लो। ३४)
04
=>
(१०५५)
05
=>
[[१। शतरि क्र्यादित्वात् श्नाप्रत्यये, ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे णत्वे रूपमेवम्।]]
06
=>
[[२। धातोरुत्वे रपरत्वे ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वे, दीर्घे णत्वे रूपमेवम्।]]
07
=>
[[३। ‘ऋल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नत्वे उत्वादिके रूपमेवम्।]]