| YouTube Channel

मोमुण्डकः-ण्डिका (momuNDakaH-NDikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुडि मार्जने”@} 2 मार्जनम् = शुद्धिर्न्यग्भावश्च।
‘--मञ्जने’ इति क्षीरस्वामी।
“-- ‘मञ्जने’ इति काशकृत्स्नधातुपाठीयकन्नडटीकायां 3 पाठः।
मञ्जनम् = स्नानम् इत्यपि तत्रैव।” इति क्षी-टीका।
‘मुण्डते मार्जने खण्डेः, खण्डने शपि मुण्डति।।’ 4 इति देवः।
मुण्डकः-ण्डिका, मुण्डकः-ण्डिका, मुमुण्डिषकः-षिका, मोमुण्डकः-ण्डिका
मुण्डिता-त्री, मुण्डयिता-त्री, मुमुण्डिषिता-त्री, मोमुण्डिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुण्ठतिवत् 5 ज्ञेयानि।
अस्य धातोः आत्मनेपदित्वात् मुण्डमानः, मुण्डिष्यमाणः, मुमुण्डिषमाणः, मुमुण्डिषिष्यमाणः
इति शानचि रूपाणि इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८२)
02
=>
(१-भ्वादिः-२७५। सक। सेट्। आत्म।)
03
=>
(पृष्ठ १००)
04
=>
(श्लो। ८३)
05
=>
(२०९)
1 {@“मुडि खण्डने”@} 2 ‘मुण्डते मार्जने मुण्डेः, खण्डने शपि मुण्डति।।’ 3 इति देवः।
4 अर्थभेदात् पुनः पाठः।
“अत एव, ‘मुडि खण्डनप्रमर्दनयोः’ इति भोजदेवः।
‘मुटि’ इति कौशिकदुर्गौ-मुण्टति।” इति क्षीरतरङ्गिण्याम्।
‘मुड’ इति धा।
का।
व्याख्यायाम् 5।
मुण्डकः-ण्डिका, मुण्डकः-ण्डिका, मुमुण्डिषकः-षिका, मोमुण्डकः-ण्डिका
मुण्डिता-त्री, मुण्डयिता-त्री, मुमुण्डिषिता-त्री, मोमुण्डिता-त्री, इत्यादीनि सर्वाणि रूपाणि भौवादिककुण्ठतिवत् 6 बोध्यानि।
7 मुण्डयन्-न्ती, 8म्बोजमुण्ड इत्यादिष्वपि।]] यवनमुण्डः-का9म्बोजमुण्डः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८३)
02
=>
(१-भ्वादिः-३२६। सक। सेट्। पर।)
03
=>
(श्लो। ८३)
04
=>
[पृष्ठम्१०३८+ २६]
05
=>
(१-४२)
06
=>
(२०९)
07
=>
[[१। मुण्डं करोतीत्यर्थे, ‘मुण्डमिश्र--’ (३-१-२१) इत्यादिना णिच्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञायां शतरि रूपमेवम्।]]
08
=>
[[२। मुण्डो यवन इव इति समासे मयूरव्यंसकादित्वात् (२-१-७२) विशेषणस्य परनिपातः। एवं का[क]
09
=>
[क]