| YouTube Channel

मोदकः-दिका (modakaH-dikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुद हर्षे”@} 2 ‘संसर्गे णिचि मोदयेदिति भवेत् हर्षे पुनर्मोदते।।’ 3 इति देवः।
मोदकः-दिका, मोदकः-दिका, मुमोदिषकः-मुमुदिषकः-षिका, मोमुदकः-दिका
मोदिता-त्री, मोदयिता-त्री, मुमोदिषिता-मुमुदिषिता-त्री, मोमुदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोकतिवत् 4 ज्ञेयानि।
5 कुमुदम्, 6 मोदनः, 7 प्रमुदितम्-प्रमोदितम्-8, प्रमुदितः-प्रमोदितः, 9 प्रमुदितवान्-प्रमोदितवान्, 10 मुत् 11 -मुदौ-मुदः, 12 इति गक्प्रत्यये रूपम्।
कित्त्वान्न गुणः।
मोदयन्त्यनेनेति मुद्गः = सस्यजातिविशेषः।
मुद्गेन संसृष्टं = मौद्गम्।]] मुद्गः-मौद्गम्, 13 इत्यादिना किरच्प्रत्यये रूपम्।
मोदन्तेऽनेनेति मुदिरः = मेघः।]] मुदिरः, 14 मुद्रा इत्यादीनि रूपाणि अस्य विशेषेण भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८५)
02
=>
(१-भ्वादिः-१६। अक। सेट्। आत्म।)
03
=>
(श्लो। ११३)
04
=>
(१९७)
05
=>
[[३। कुं मोदयतीति कुमुदम्। अन्तर्भावितण्यन्तात् मूलविभुजादित्वेन (वा। ३-२-५) कप्रत्यये रूपमेवम्। कौ = पृथिव्यां मोदते इत्यपि विगृह्णन्ति।]]
06
=>
[[४। ‘अनुदात्तेतश्च हलादेः’ इति तच्छीलादिषु कर्तृषु युच्प्रत्ययः।]]
07
=>
[[५। निष्ठायाम् ‘उदुपधाद्भावादिकर्मणोः--’ (१-२-२१) इति कित्त्वविकल्पनात् रूपद्वयम्। भावादिकर्मभ्यामन्यत्र मुदितः, मुदितवान् इत्येव भवति।]]
08
=>
[अनेन]
09
=>
[पृष्ठम्१०३९+ २६]
10
=>
[[१। स्त्रियाम्, ‘संपदादिभ्यः--’ (वा। ३-३-१०८) इति क्विपि रूपमेवम्।]]
11
=>
[[आ। ‘मुदा चेतो ददते चिरं हरौ स्वादात्सुरैः स्वर्दितमङ्गलोर्दने।’ धा। का। १-४।]]
12
=>
[[२। ‘मुदिप्रोर्गग्गौ’ [द। उ। ३-६६]
13
=>
[[३। ‘इषिमदिमुदि--’ [द। उ। ८। २६]
14
=>
[[४। ‘स्फायितञ्चि--’ (द। उ। ८-३१) इत्यादिना रक्प्रत्यये रूपमेवम्।]]
1 {@“मुद संसर्गे”@} 2 ‘संसर्गे णिचि मोदयेदिति भवेत् हर्षे पुनर्मोदते।।’ 3 इति देवः।
मोदकः-दिका, मुमोदयिषकः-षिका
मोदयिता-त्री, मुमोदयिषिता-त्री
इत्यादीनि रूपाणि शतरं विना चौरादिककोटयतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि 5 मोदयन्-न्ती, मुमोदयिषन्-न्ती, मोदयिष्यन्-मुमोदयिषिष्यन्-न्ती-ती
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२८६)
02
=>
(१०-चुरादिः-१७४१। सक। सेट्। उभ।)
03
=>
(श्लो। ११३।)
04
=>
(२०५)
05
=>
[सर्पिषा सक्तून्]