| YouTube Channel

मोटकः-टिका (moTakaH-TikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मुट प्रमर्दने”@} 2 ‘प्रमर्दने चाक्षेपे मुटेद् आद्ये तु मोटति।।’ 3 इति देवः।
दुर्गसंमतः पाठोऽयम् इति क्षीरस्वामी।
“--‘मुड’ इति धनपालः।
‘पुड’ इति…शाकटायनः।
क्षीरस्वामी तु द्वावपि इदितौ पपाठ।
मैत्रेयस्तु अमुं टान्तमेव पठित्वा…” इति मा।
धा।
वृत्तिः।
दैवश्लोकात् 4 मा।
धा।
वृत्तौ ‘मुट सञ्चूर्णने’ 5 इत्यत्र ‘मोटति इति मर्दने शपि’ इत्युक्तत्वाच्च अयं धातुः स्वतन्त्र इति ज्ञायते।
युक्तायुक्तत्वे त्वत्र सूरयः प्रमाणम्।
‘पुड प्रुड’ इति अमुं केचित् पठन्ति।
सि।
कौमुद्यादिषु पठितोऽयम्।
मोटकः-टिका, मोटकः-टिका, मुमोटिषकः-मुमुटिषकः-षिका, मोमुटकः- टिका
इत्यादीनि रूपाणि सर्वाणि भौवादिककोचतिवत् 6 ज्ञेयानि।
प्रमुटितः-प्रमोटितः, आमोटनम्, इतीमानि रूपाण्यधिकान्यत्रेति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१२७८)
02
=>
(१-भ्वादिः-सक। सेट्। पर।)
03
=>
(श्लो। ७१)
04
=>
(श्लो। ७१)
05
=>
(चुरादौ)
06
=>
(२००)
1 {@“मुट आक्षेपप्रमर्दनयोः”@} 2 कुटादिः।
‘प्रमर्दने चाक्षेपे मुटेत्, आद्ये तु मोटति।।’ 3 इति देवः।
मोटकः-टिका, मोटकः-टिका, मुमुटिषकः-षिका, मोमुटकः-तिका
मुटिता-त्री, मोटयिता-त्री, मुमुटिषिता-त्री, मोमुटिता-त्री
इत्यादीनि रूपाणि सर्वाणि तौदादिककुटतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२७९)
02
=>
(६-तुदादिः-१३७४। सक। सेट्। पर।)
03
=>
(श्लो। ७१)
04
=>
(२०४)
1 {@“मुट सञ्चूर्णने”@} 2 ‘सञ्चूर्णने चुरादेर्णौ मोटयेदतङस्त्रयः।’ 3 इति देवः।
4 क्षीरस्वामिनं विना इतरे सर्वेऽपि ‘मुट’ इत्यस्यानुकूलाः।
पुट इति क्षीर- स्वामी इति मा।
धा।
वृ।
टिप्पन्याम्।
मोटकः-टिका, मुमोटयिषकः-षिका
मोटयिता-त्री, मुमोटयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककोटयतिवत् 5 बोध्यानि।
विमोटितः 6।
प्रासङ्गिक्यः
01
=>
(१२८०)
02
=>
(१०-चुरादिः-१६१४। सक। सेट्। उभ।)
03
=>
(श्लो। ७२)
04
=>
[पृष्ठम्१०३७+ २७]
05
=>
(२०५)
06
=>
[[आ। ‘इत्यादिवादिषु जनेषु विमोटितारिः…।’ धा। का। ३-२३।]]