| YouTube Channel

मैरेयं (maireyaM)

 
शब्दकल्पद्रुमः
Sanskrit
मैरेयं,
क्ली,
(मारं कामं जनयतीति मार +ढक् निपातनात् साधुः ।) मद्यविशेषः इत्य-मरः १० ४२
“यद्यपि ।‘सीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् ।मैरेयं धातकीपुष्पगुडधानाम्लसंहितम्
’इति माधवेन भेदः कृतः तथापि सूक्ष्ममनादृ-त्येदमुक्तम् मारं कामं जनयति मैरेयं ष्णेयः ।निपातनादात् ऐत्वम् ।” इति भरतः
(यथा, “मद्यन्तु सीधुर्मैरयमिरा मदिरा सुरा ।कादम्बरी वारुणी हालापि बलवल्लभा
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
क्वचित्, पुंलिङ्गेऽपि दृश्यते यथा, --“तीक्ष्णः कषायो मदकृत् दुर्नामकफगुल्महृत् ।कृमिमेदोऽनिलहरो मैरयो मधुरो गुरुः
”इति सुश्रुते सूत्रस्थाने ४५ अध्याये
)