| YouTube Channel

मेषी (meSI)

 
Monier Williams Cologne
English
मेषी॑ (ई॑),
f.
(cf. मे॑शी) a ewe,
RV.
VS.
Kauś.
Nardostachys Jatamansi,
L.
Dalbergia Ougeinensis,
L.
Macdonell
English
मेषी meṣ-ī́,
f.
ewe.
Apte Hindi
Hindi
मेषी
स्त्री*
- मेष + ङीष्
भेड़
Shabdartha Kaustubha
Kannada
मेषी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕುರಿ
L R Vaidya
English
mezI {% f. %} An ewe.
Wordnet
Sanskrit
Synonyms:
जटामांसी, तपस्विनी, जटा, मांसी, जटिला, लोमशा, मिसी, नलदम्, वह्निनी, पेषी, कृष्णजटा, जटी, किरातिनी, जटिला, भृतजटा, पेशी, क्रव्यादि, पिशिता, पिशी, पेशिनी, जटा, हिंसा, मांसिनी, जटाला, नलदा, मेषी, तामसी, चक्रवर्तिनी, माता, अमृतजटा, जननी, जटावती, मृगभक्ष्या, मिंसी, मिसिः, मिषिका, मिषिः
noun
औषधीयवनस्पतेः सुगन्धितं मूलम्।
"जटामांस्याः उपयोगः विभिन्नेषु औषधेषु भवति।"
Synonyms:
तिनिशः, स्यन्दनः, नेमी, रथद्रुः, अतिमुक्तकः, वञ्चुलः, चित्रकृत्, चक्री, शताङ्गः, शकटः, रथः, रथिकः, भस्मगर्भः, मेषी, जलधरः
noun
शिंशपाजातीयः वृक्षः यस्य पत्राणि खदिरवत् भवन्ति।
"तिनिशस्य काष्ठम् अतीव दृढं भवति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः
उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः १२७६
संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा
जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः १२७७
पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम्
सोढं दूसं मरीसं कुक्कुरो वक्रवालधिः १२७८
अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः
शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः १२७९
रसनालिड्रतपराः कीलशायिव्रणान्दुकाः
शालावृको मृगदंशः श्वालर्कस्तु रोगितः १२८०
-wordlist-
वर्कर (पुं), अवि (पुं), मेष (पुंक्ली), ऊर्णायु (पुं), हुड (पुं), उरण (पुं), उरभ्र (पुं), मेण्ढक (पुं), वृष्णि (पुं), एडक (पुं), रोमश (पुं), हुडु (पुं), सम्फाल (पुं), शृङ्गिण (पुं), भेड (पुं), मेषी (स्त्री), कुररी (स्त्री), रुजा (स्त्री), जालकिनी (स्त्री), अविला (स्त्री), वेणी (स्त्री), ईडिक्क (पुं), शिशुवाहक (पुं), पृष्ठशृङ्ग (पुं), वनाज (पुं), अविदुग्ध (क्ली), अविसोढ (क्ली), अविदूस (क्ली), अविमरीस (क्ली), कुक्कुर (पुं), वक्रवालधि (पुं), अस्थिभुज् (पुं), भषण (पुं), सारमेय (पुं), कौलेयक (पुं), शुन (पुं), शुनि (पुं), श्वान (पुं), गृहमृग (पुं), कुर्कुर (पुं), रात्रिजागर (पुं), रसनालिह् (पुं), रतकील (पुं), रतशायिन् (पुं), रतव्रण (पुं), रतान्दुक (पुं), शालावृक (पुं), मृगदंश (पुं), श्वन् (पुं), अलर्क (पुं)
वैजयन्तीकोषः
Sanskrit
Word: मेषी
Root: मेषी
Gender: undefined
Number: undefined
अर्थः
Meaning(s):
Sheep
Shloka(s):
3|4|65|1 मेषी तु कुररी वेणी जालकिन्यविला रुजा। (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
Synonym(s):
3|4|65|1 मेष्यः (मेषी) (स्त्री) Sheep
3|4|65|1 कुररी (कुररी) (स्त्री) Sheep
3|4|65|1 वेणी (वेणी) (स्त्री) Sheep
3|4|65|1 जालकिनी (जालकिनी) (स्त्री) Sheep
3|4|65|1 अविला (अविला) (स्त्री) Sheep
3|4|65|1 रुजा (रुजा) (स्त्री) Sheep
Related word(s):
Word: मेष्यः
Root: मेषी
Gender: स्त्री
Number: बहु
अर्थः मेषी नाम हिमोत्सर्गरश्मिः
Meaning(s):
100 snow making sunrays
Shloka(s):
2|1|19|2 अथ मेष्यश्च पोष्यश्च ह्लादिन्यश्च शतं शतम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|20|2 ता एव रेश्यो वाश्यश्च मेध्याश्चेति यथाक्रमम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|19|2 मेष्यः (मेषी) (स्त्री) 100 snow making sunrays मेषी नाम हिमोत्सर्गरश्मिः
2|1|20|2 रेश्यः (रेशी) (स्त्री) 100 snow making sunrays मेषी नाम हिमोत्सर्गरश्मिः
Related word(s):
परा_अपरासंबन्धः चन्द्राः
अन्यसंबन्धाः हिमम्
जातिः दिव्यम्
शब्दकल्पद्रुमः
Sanskrit
मेषी,
स्त्री,
(मिष्यते गृह्यते असौ इति मिष +घञ् ङीष् ।) तिनिशवृक्षः जटामांसी ।इति राजनिर्घण्टः
मेषस्त्रीजातिः भेडी ।(यथा, वाजसनेयसंहितायाम् ५९ ।“भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजंसुखं मेषाय मेष्यै
”)तत्पर्य्यायः जालकिनी अविः इतित्रिकाण्डशेषः
एडका मेषिका इतिशब्दरत्नावली क्रुररी रुजा अविला ८वेणी इति हेमचन्द्रः ३४३ अस्यादुग्धगुणाः मधुरत्वम् गाढत्वम् स्निग्ध-त्वम् कफापहत्वम् वातामयकरत्वम् स्थौल्य-त्वम् लोमशायाश्चेत् गुरुत्वम् वृद्धिदत्वञ्च ।इति राजनिर्घण्टः
*
अपि ।“आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरी-प्रणुत् ।अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ।गुरुकासेऽनिलोद्भूते केवले वानिले वरम्
”इति भावप्रकाशः
अस्या दधिगुणाः सुस्निग्धत्वम् कफपित्त-करत्वम् गुरुत्वम् वाते रक्तवाते पथ्य-त्वम् शोफव्रणनाशित्वञ्च
*
अस्या नव-नीतगुणाः क्लिष्टगन्धत्वम् शीतलत्वम् मेधा-हरत्वम् पुष्टिदत्वम् स्थौल्यत्वम् मन्दाग्नि-दीपनत्वम् सारकत्वम् पाके हिमत्वम् ।लघुत्वम् योनिशूले कफे वाते दुर्नाम्नि चहितत्वञ्च दुर्नाम्नि स्थाने गुदशूले इतिपुस्तकान्तरे पाठः
*
तस्या घृतगुणाः ।अतीवगौरवात् सुकुमारदेहिनां वर्ज्ज्यत्वम् ।बुद्धिपाटवहरत्वम् बलावहत्वम् वपुषां विस्र-गन्धिकारित्वञ्च इति राजनिर्घण्टः
तन्-मांसगुणाः यथा, भावप्रकाशे ।“छागमेषवृषाश्वाद्याः ग्राम्याः प्रोक्ता मह-र्षिभिः ।ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः ।मधुरा रसपाकाभ्यां वृंहणा बलवर्द्धनाः
वाचस्पत्यम्
Sanskrit
मेषी स्त्री मिष--अच् गौ० ङीष् जटामांस्यां तिनिशवृक्षेच राजनि० जातौ ङीष् मेषजातिस्त्रियाम्
Grassman
German
meṣī́, f. (vom vorigen), 1〉 weibliches Schaf, Schafmutter
2〉 Schaffell.
-íe [D.] 1〉 neben meṣā́ya {43, 6}.
-ías [G.] 2〉 áṇvāni {798, 47}
{819, 11}.
-ías [A. p.] 2〉 sṛjānám áti {720, 5}.