| YouTube Channel

मेमीयिता-त्री (memIyitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मा माने”@} 2 ‘मिमीते मायते माने माति तत्रैव शब्लुकि।’ 3 इति देवः।
‘मानम् = वर्तनम्’ इति क्षीरस्वामी।
‘-- अन्तर्भावः’ इति मा।
धा।
वृत्तिः।
‘आधेयस्याधाराद् अनधिकपरिमाणताऽत्र मानम्।’ इति पुरुषकारः।
4 मायकः-यिका, 5 मापकः-पिका, 6 मित्सकः-त्सिका, 7 मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
8 9 निर्मान्- 10 न्ती-ती, मापयिष्यन्-न्ती-ती, मित्सिष्यन्-न्ती-ती
-- -- मापयमानः, मापयिष्यमाणः, -- मेमीयमानः, मेमीयिष्यमाणः
प्रमीः-प्रम्यौ-प्रम्यः
-- -- -- 11 मितम्-तः-तवान्, मापितः, मित्सितः, मेमीयितः-तवान्
12 प्रमः, 13 मायः, माया-मायावी-मायिकः-मायी, 14 धान्यमायः, मापः, मित्सुः, 15 मेम्यः
मातव्यम्, मापयितव्यम्, मित्सितव्यम्, मेमीयितव्यम्
16 प्रनिमानीयम्-प्रणिमानीयम्, मापनीयम्, मित्सनीयम्, मेमीयनीयम्
17 मेयम्, 18 पाय्यम्, माप्यम्, मित्स्यम्, मेमीय्यम्
ईषन्मानः-दुर्मानः-सुमानः
-- -- 19 20 मीयमानः, माप्यमानः, मित्स्यमानः, मेमीय्यमानः
मायः, 21 आमः, मापः, मित्सः, मेमीयः
मातुम्, मापयितुम्, मित्सितुम्, मेमीयितुम्
22 प्रमा-उपमा-अनुमा, प्रमितिः, मापना, मित्सा, मेमीया
प्रमाणम्, मापनम्, मित्सनम्, मेमीयनम्
मित्वा, मापयित्वा, मित्सित्वा, मेमीयित्वा
23 प्रमाय, प्रमाप्य, प्रमित्स्य, प्रमेमीय्य
मायम् २, मित्वा २, मापम् २, मापयित्वा २, मित्सम् २, मित्सित्वा २, मेमीयम्
मेमीयित्वा
24 मेरुः, 25 मात्रा, 26 मासः।
27
प्रासङ्गिक्यः
01
=>
(१२४०)
02
=>
(२-अदादिः-१०६२। सक। अनि। पर।)
03
=>
(श्लो। ९)
04
=>
[[१। ण्वुलि ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्णमुलादिष्वपि ज्ञेयम्।]]
05
=>
[[२। ण्यन्ते सर्वत्र ‘अर्त्तिह्रीव्ली--’ (७-३-३६) इति आदन्तलक्षणे पुगागमे रूपमेवम्।]]
06
=>
[[३। ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इस्भावे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे, ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वेन गुणाभावे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07
=>
[[४। यङन्ते सर्वत्र, ‘घुमास्था--’ (६-४-६६) इतीकारे, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः।]]
08
=>
[पृष्ठम्१०१४+ २४]
09
=>
[[१। शतरि, अदादित्वेन शपो लुकि, सवर्णदीर्घे, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति स्त्रियां नुम्विकल्पे निर्मान्ती-निर्माती इति रूपद्वयम् इति ज्ञेयम्।]]
10
=>
[[आ। ‘ख्यान्त्यः कथाः प्राणमुदां पतीनां निर्मान्त्य इष्टानि चट्न् वचत्यः।’ धा। का। २। ५०।]]
11
=>
[[२। ‘द्यतिस्यतिमास्थाम् इत् ति किति’ (७-४-४०) इति क्तप्रत्यये परतः प्रकृतेः इकारः। गुणनिषेधः। एवं क्त्वाक्तिन्प्रभृतिष्वपीकारो बोध्यः।]]
12
=>
[[३। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
13
=>
[[४। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि आदन्तलक्षणो णप्रत्ययः। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। स्त्रियां टापि माया इति सिद्ध्यति। मायाशब्दात् मत्वर्थीये विनिप्रत्यये मायावी इति, व्रीह्यादित्वात् (५-२-११६) इनिठन्प्रत्यययोश्च मायी-मायिकः इति रूपाणि सिद्ध्यन्ति।]]
14
=>
[[५। कर्मण्युपपदे कर्तरि, ‘ह्वावामश्च’ (३-२-२) इत्यण्प्रत्यये युगागमे रूपमेवम्। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति प्राप्तस्य कप्रत्ययस्यापवादः।]]
15
=>
[[६। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि ईकारे, उत्तरखण्डे यणि रूपमेवम्।]]
16
=>
[[७। ‘शेषे विभाषा--’ (८-४-१८) इति नेर्णत्वविकल्पः। ‘नेर्गदनदपतपदघुमा --’ (८-४-१७) इत्यत्र नास्य धातोर्ग्रहणम्, अपि तु माङ्मेङोरेव ग्रहणम् इति बहवः।]]
17
=>
[[८। यति परे, ‘ईद् यति’ (६-४-६५) इति ईकारे गुणे रूपमेवम्।]]
18
=>
[[९। माने = परिमाणेऽभिधेये ‘पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधे- नीषु’ (३-१-१२९) इत्यनेन ण्यदायादेशौ आदेः पकारश्च निपात्यन्ते।]]
19
=>
[पृष्ठम्१०१५+ २५]
20
=>
[[१। यगन्ताच्छानशि ईकारे मीयमानः इति सिद्ध्यति। क्षीरस्वामी तु ‘घुमास्था- --’ (६-४-६६) इति सूत्रे नास्य धातोर्ग्रहणमिति ‘सर्वत्र हि पामाग्रहणं लुग्विकरणस्य णत्ववर्जम्’ इति वचनं किञ्चिदुपादाय मायते इति यकि रूपं साधितवान् भाष्यादिषु नैतादृशं वचनमुपलभ्यते। प्रक्रियाकौमुदीकारं वर्जयित्वा सर्वेऽपि ‘गामादाग्रहणेष्वविशेषः’ (परि। ११६) इति परिभाषामवलम्ब्य ‘घुमास्था--’ (६-४-६६) इत्यादिषु सर्वत्र माग्रहणेष्वस्यापि ग्रहणमिच्छन्ति। स्पष्टमिदं माधवधातुवृत्त्यादिषु।]]
21
=>
[[२। = समन्तात् मीयतेऽत्रेति आमः = अपक्वपदार्थः। अधिकरणे ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कप्रत्यये, आकारलोपे रूपमेवम्।]]
22
=>
[[३। स्त्रियां भावादौ, ‘आतश्चोपसर्गे’ (३-३-१०६) इति क्तिन्नपवादोऽङ्प्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे अदन्तत्वेन टापि प्रमा, उपमा इत्यादिकं सिद्ध्यति। प्रमितिः, उपमितिः, अनुमितिः इत्यादयस्तु बाहुलकात् क्तिनि सिद्ध्यन्तीति ज्ञेयम्।]]
23
=>
[[४। समासे क्त्वाप्रत्ययस्य ल्यबादेशे, ‘न ल्यपि’ (६-४-६९) इतीकारनिषेधः।]]
24
=>
[[५। ‘मापो रुरी च’ (द। उ। १-१५७) इति रुप्रत्यये ईकारे चान्तादेशे गुणे रूपमेवम्। माति सूर्येन्दुभ्यामिति मेरुः = सुरगिरिः।]]
25
=>
[[६। ‘हुयामा--’ (द। उ। ८। ८४) इति त्रन्प्रत्यये रूपमेवम्। मीयतेऽनेनेति मात्रा = अल्पपरिमाणम्।]]
26
=>
[[७। मातीत्यर्थे ‘मासश्च’ (द। उ। ९। २७) इति सप्रत्ययो निपात्यते। मासः = त्रिंशद्दिनपरिच्छिन्नः कालविशेषः।]]
27
=>
[पृष्ठम्१०१६+ २७]
1 {@“माङ् माने शब्दे च”@} 2 ‘मिमीते मायते माने माति तत्रैव शब्लुकि।
मयते प्रणिदानेऽर्थे--।।’ 3 इति देवः।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 बोध्यानि।
5 मिमानः, 6 वातप्रमीः-वातप्रम्यौ-वातप्रम्यः, 7 प्रणिमानम्-प्रणिमापनम्, मेयम्, पाय्यम्, 8 व्योममायः, 9 चन्द्रमाः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
अस्य धातोः आत्मनेपदित्वात् शानचि-अनुमिमानः, मित्समानः, मास्यमानः, मित्स्यमानः, इति विशेषः।
10
प्रासङ्गिक्यः
01
=>
(१२४२)
02
=>
(३-जुहोत्यादिः-१०८८। सक-अक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[१। शानचि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति शपः श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचने, ‘भृञामित्’ (७-४-७६) इत्यभ्यासस्येकारः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः।]]
06
=>
[[२। वातं प्रमिमीते इत्यर्थे ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विपि ‘घुमास्थागा- पाजहातिसां हलि’ (६-४-६६) इतीकारे रूपमेवम्। ‘ईत्वे वकारप्रतिषेधः--’ (वा। ६-४-६६) इति वचनं तु श्रूयमाणवकारादिषत्ययविषयकमिति नात्र प्रवर्तते। वातप्रमीः शमीवृक्षः, पक्षिविशेषश्च।]]
07
=>
[[३। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेर्णत्वम्। एवं ण्यन्तेऽपि णत्वं ज्ञेयम्।]]
08
=>
[[B। ‘जगाम सपरीवारो व्योममायमिवोत्थितम्।।’ भ। का। ६। ८८।]]
09
=>
[[४। ‘चन्द्रे मो डित्’ (द। उ। ९-८८) इत्यनेन चन्द्रशब्द उपपदे धातोरस्यासिप्रत्यये तस्य डिद्वद्भावेन टिलोपे रूपमेवम्।]]
10
=>
[पृष्ठम्१०१७+ ३०]
1 {@“माङ् माने”@} 2 ‘मिमीते मायते माने माति तत्रैव शब्लुकि।’ 3 इति देवः।
दुर्गादयः केचिदेवामुं धातुं पठन्ति।
क्षीरस्वामिप्रभृतयस्तु पठन्ति।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 ज्ञेयानि।
शानचि, 5 मायमानः इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१२४३)
02
=>
(४-दिवादिः-११४२। सक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[१। शानचि, ‘दिवादिभ्यः--’ (३-१-६९) इति श्यनि, रूपमेवम्। अत्र श्यनोऽपि- त्सार्वधातुकत्वेन ङिद्वद्भावात् ‘घुमास्था--’ (६-४-६६) इति ईकारे सति मीयमानः इत्येव न्याय्यम्। ‘गामादाग्रहणेष्वविशेषः’ (परि। ११६) इति वचनमप्यस्य ईकारे ऽनुकूलम्। तथापि सर्वैरपि वैयाकरणैः ‘घुमास्था--’ (६-४-६६) सूत्रे भौवादिका- दादिकजौहोत्यादिकमाधातूनामेव ग्रहणस्योक्तत्वात् अत्र ईकार इति ज्ञेयम्।]]
1 {@“डु मिञ् प्रक्षेपणे”@} 2 ‘मिनोति मिनुते स्वादेः गतौ मयति माययेत्।’ 3 इति देवः।
4 5 मायकः-पिका, 6 मापकः-पिका, 7 मित्सकः-त्सिका, 8 मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
9 मिन्वन्-न्ती, मापयन्-न्ती, मित्सन्-न्ती
-- मास्यन्-न्ती-ती, मापयिष्यन्-न्ती-ती, मित्सिष्यन्-न्ती-ती
-- मिन्वानः, मापयमानः, मित्समानः, मेमीयमानः
मास्यमानः, मापयिष्यमाणः, मित्सिष्यमाणः, मेमीयिष्यमाणः
प्रमाः-प्रमौ-प्रमाः
-- -- -- 10 मितम्- 11 तः-तवान्, मापितः, मित्सितः, मेमीयितः-तवान्
12 13 मयः, 14 मायी, मापः, मित्सुः, 15 मेम्यः
मातव्यम्, मापयितव्यम्, मित्सितव्यम्, मेमीयितव्यम्
16 प्रणिमानीयम्, प्रणिमापनीयम्, मित्सनीयम्, मेमीयनीयम्
17 मेयम्, माप्यम्, मित्स्यम्, मेमीय्यम्
18 ईषत्प्रमयः-दुष्प्रमयः-सुप्रमयः
-- -- मायमानः, माप्यमानः, मित्स्यमानः, मेमीय्यमानः
19 मयः, मापः, मित्सः, मेमीयः
मातुम्, मापयितुम्, मित्सितुम्, मेमीयितुम्
मितिः, मापना, मित्सा, मेमीया
मानम्, मापनम्, मित्सनम्, मेमीयनम्
मित्वा, मापयित्वा, मित्सित्वा, मेमीयित्वा
20 प्रमाय, प्रमाप्य, प्रमित्स्य, प्रमेमीय्य
मायम् २, मित्वा २, मापम् २, मापयित्वा २, मित्सम् २, मित्सित्वा २, मेमीयम्
मेमीयित्वा
21 22 वातप्रमीः, 23 मायुः-गोमायुः, 24 मयुः, 25 जामाता, 26 मीरः।
प्रासङ्गिक्यः
01
=>
(१२५३)
02
=>
(५-स्वादिः-१२५०। सक। अनि। उभ।)
03
=>
(श्लो। १७)
04
=>
[पृष्ठम्१०२१+ २८]
05
=>
[[१। ण्वुलि वृद्धौ सत्यां एजन्तत्वेन ‘मीनातिमिनोतिदीङाम्--’ (६-१-५०) इत्यनेन आत्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि बोध्यम्।]]
06
=>
[[२। णिच्प्रत्ययोत्वत्तेरनन्तरं वृद्धौ कृतायाम् एजन्तत्वात् आत्वे, आदन्तलक्षणे पुगागमे रूपमेवम्। ण्यन्ते सर्वत्र एवमेव प्रक्रिया ज्ञेया।]]
07
=>
[[३। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘सनि मीमा--’ (७-४-५४) इति इस्भावे ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तत्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्। माधवधातुवृत्तौ सन्नन्तरूपप्रदर्शनावसरेऽत्र, “--मित्सति, मित्सते, ‘इको झल्’ (१-२-९) इति सनः कित्त्वात्, ‘अज्झ- नगमां सनि’ (६-४-१६) इति दीर्घे--” इत्याद्युक्तम्। अस्यायं भावः। अनैमित्तिक आकारः प्रथमतो प्रवर्तते। धातोः इगन्तत्वेन ‘इको झल्’ (१-२-९) इत्यादिसूत्रे सनः कित्त्वात्, एज्विषय एवाकारविधानात् इति।]]
08
=>
[[४। यङन्ते ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे द्विर्वचनादिकेषु कृतेषु, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः।]]
09
=>
[[५। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, ‘हुश्नुवोः सार्वधातुके’ (६-४-८७) इति यणि रूपमेवम्। शानजन्तेऽप्येवमेव।]]
10
=>
[[६। निष्ठायामाकारो प्रवर्तते
\n\n आकारविधायके सूत्रे (६-१-५०) ‘आदेच उपदेशे ऽशिति’ (६-१-४५) इत्यतः ‘एचः’ इत्यनुवर्तनात्, तस्य गुणयोग्यप्रत्ययेष्वेव परेषु आत्वमिति ज्ञापनात्। अतश्च निष्ठाप्रत्ययस्य कित्त्वात् गुणः, तेन रूपमेवम्। स्पष्टमिदं प्रकृतसूत्रे (६-१-५०) भाष्ये। एवमेव क्त्वाक्तिन्प्रभृतिष्वपि ज्ञेयम्।]]
11
=>
[[आ। ‘सुन्वत्प्रियं तमथ रागसिताशिताग्रम् आरोन्मितास्त्रनिचयास्तृतमानसान्ता।’ धा। का। २। ६८।]]
12
=>
[पृष्ठम्१०२२+ २५]
13
=>
[[१। पचाद्यचि, ‘निमिमीलियां खलचोः प्रतिषेधः’ (वा। ६-१-५०) इति आकार- प्रतिषेधः। गुणेऽयादेशे रूपमेवम्। अत्र वार्तिके ‘अच्’ पदेन पचाद्यचः (३-१-१३४), एरच (३-३-५६) श्च ग्रहणमिति कैयटादौ प्रतिपादितम्। अत्र वार्तिके निपूर्वकस्यैव मिनोतेः ग्रहणाद्, उपसर्गान्तरे, उपपदेशुद्धे आकार एव भवेदिति ज्ञायते। तदानीम्, ‘आतश्चोपसर्गे’ (३-१-१३६) इति कप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे प्रमः इति रूपमपि साध्विति प्रतिभाति।]]
14
=>
[[२। नन्द्यादित्वात् कर्तरि णिनिप्रत्यये युगागमे रूपमेवम्।]]
15
=>
[[३। यङन्तात् पचाद्यचि यङो लुकि ‘एरनेकाचः--’ (६-४-८२) इति यणि रूपमेवम्।]]
16
=>
[[४। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इति नेर्णत्वे रूपमेवम्।]]
17
=>
[[५। यत्प्रत्यये, अनैमित्तिक आकारे, ‘ईद् यति’ (६-४-६५) इतीकारे गुणे रूपम्।]]
18
=>
[[६। धातोरस्य सकर्मकत्वात् कर्मणि खल्प्रत्यये, ‘निमिमीलियां खलचोः प्रतिषेधः’ (वा। ६-१-५०) इति आकारप्रतिषेधे गुणायादेशयो रूपमेवम्।]]
19
=>
[[७। धातोरस्येवर्णान्तात्वत्, घञपवादतया ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्यये आकारप्रतिषेधे रूपमेवम्।]]
20
=>
[[८। ल्यपि, ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इति आकारे रूपमेवम्। अन्यथा क्त्वाप्रत्ययादेशभूतस्य ल्यप एज्विषयत्वाभावेन आकारो स्यात्, तदर्थमेव ‘--ल्यपि च’ (६-१-५०) इत्युक्तमिति ज्ञेयम्।]]
21
=>
[पृष्ठम्१०२३+ २७]
22
=>
[[१। ‘वातप्रमीः’ (उ। उ-१-८५) इति सूत्रेण प्रपूर्वकात् वातशब्दे उपपदे वातं प्रमिणोतीत्यर्थे ईप्रत्यये निष्पन्नोऽयं शब्दः। वातप्रमीः = शमीवृक्षः, पक्षी च।]]
23
=>
[[२। ‘कृवापाजिमि--’ (द। उ। १-८६) इत्युण्प्रत्यये युगागमः। मीयतेऽनेनेति मायुः मानम्। गां मिनोति = हिनस्तीति गोमायुः = शृगालः।]]
24
=>
[[३। ‘भृमृशीतॄचरित्सरितनिमि--’ (द। उ। १-९२) इत्युप्रत्यये बाहुलकादाकाराभावे गुणायादेशयोश्च रूपमेवम्।]]
25
=>
[[४। ‘नप्तृनेष्टृ--’ (द। उ। २-३) इति तृन्प्रत्यये तृच्प्रत्यये वा जायां मिनोतीत्यर्थे जायाशब्दस्य जादेशे निपातितोऽयं शब्दः। जामाता = दुहितुः पतिः।]]
26
=>
[[५। ‘शुषिचिमिभ्यो दीर्घश्च’ (द। उ। ८। ४३) इति क्रन्प्रत्यये प्रकृतेदीर्घे रूपमेवम्। मिनोति इति मीरः = देशसीमा।]]
1 {@“मी गतौ”@} 2 उभ।) आधृषीयः।
‘--गतौ, मनने’ इति क्षीरस्वामी।
‘मीञो मीनाति मीनीते हिंसायां मीयते ङितः।।
मिनोति मिनुते स्वादेः, गतौ मयति माययेत्।’ 3 इति देवः।
मायकः-यिका, मिमाययिषकः-षिका, मायकः-यिका, 4 मिमीषकः-षिका, 5 मेमीयकः-यिका
माययिता-त्री, मिमाययिषिता-त्री, 6 मेता-त्री, मिमीषिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि ण्यन्तात् ण्यन्तप्रकृतिकसन्नन्ताच्च गोमयतिवत् 7 ज्ञेयानि।
आधृषीयत्वेन णिज्वि- कल्पः।
तेन णिजभावपक्षे शुद्धात्, शुद्धप्रकृतिकसन्नन्तात्, शुद्धप्रकृतिक- यङन्ताच्च भौवादिकनयतिवत् 8 सर्वाण्यपि रूपाणि 9 ज्ञेयानि।
णिजभावपक्षे तु--शतरि-- 10 मयन्-न्ती इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१२६७)
02
=>
(१०-चुरादिः-१८२५। सक। सेट्। (अनि।)
03
=>
(श्लो। १६-१७)
04
=>
[[६। ‘सनि मीमा--’ (७-४-५४) इत्यत्र अचौरादिकैर्धातुभिः सह साहचर्यात् नास्य ग्रहणम्। अतोऽत्र ‘इस्’ भावादिकमित्यतः, ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्, ‘अज्झनगमां सनि’ (६-४-१६) इत्यनेन (पर्जन्यन्यायेन) दीर्घः। ‘श्विडीङिवर्णेष्वथ शीङ्श्रियावपि’ (व्याघ्रभूतिकारिका, भाष्ये, ७-२-१०) इति नियमाण्णिजभावपक्षे इडागमो नेत्यादिकं यथायथमूह्यम्।]]
05
=>
[पृष्ठम्१०३०+ २८]
06
=>
[[१। शुद्धे तृजन्ते इडभावात् गुणे रूपमेवम्।]]
07
=>
(४३३)
08
=>
(६८०)
09
=>
(नयतेः प्रातिस्वि- करूपाणि विना)
10
=>
[[२। णिजन्तस्थले धातोरस्योभयपदित्वेऽपि णिजभावपक्षे आत्मनेपदप्रवृत्तिनिमित्ताभा- वात्, ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदं शतेति ज्ञेयम्।]]
1 {@“मीङ् हिंसायाम्”@} 2 ‘मीञो मीनाति मीनीते, हिंसायां मीयते ङितः।।’ 3 4 मित्सकः-त्सिका, मेमीयकः-यिका
मेता-त्री, माययिता-त्री, मिमीषिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्षयतिवत् 5 ज्ञेयानि।
शतरि मीयन्-न्ती-ती इति रूपमिति विशेषः।
6
प्रासङ्गिक्यः
01
=>
(१२६८)
02
=>
(४-दिवादिः-११३७। सक। अनि। आत्म।)
03
=>
(श्लो। १६)
04
=>
[इति देवः। ‘हिंसाऽत्र मृतिः।’ इति धा। का। व्याख्यायाम् (२। ५८)। मायकः-यिका, मायकः-यिका, मिमीषकः-षिका, [[३। ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योरुभयोरपि ‘मी’ इत्यनेन ग्रहणम्-इति वृत्तिकारः। तेन नास्य ‘मी’ इत्यनेन ग्रहणमिति ज्ञायते। काश्यप- क्षीरस्वामि-वर्धमानप्रभृतयस्तु धातोरस्यापि तत्र ग्रहणमिति कृत्वा, इस्भावे, अभ्यासलोपादिके, सकारस्य तकारे कृते ‘मित्सते’ इति सन्नन्ते रूपं प्रदर्शय- न्ति। “लाक्षणिकमीरूपस्य मिनोतेः अग्रहणशङ्कापनोदनपरा वृत्तिः
\n\n त्वस्याग्र- हणपरा।” इति तेषामुपपादनं माधवधातुवृत्तिप्रतिपादितमिहानुसन्धेयम्। वस्तुतस्तु ‘इको झल्’ (१-२-९) इत्यत्र, ‘मीनातिमिनोत्योः--’ इति भाष्यो- क्त्या, ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योर्द्वयोरेव ग्रहणं न्याय्यम्
\n\n अन्यथा निरुक्तभाष्यस्योपलक्षणत्वापत्तेः। अस्य धातोरपि ग्रहणे उपलक्षकत्व- कल्पनायां प्रमाणाभावाच्चेत्यलम्। अन्यत्र विस्तरः।]]
05
=>
(३०२)
06
=>
[पृष्ठम्१०३१+ २८]
1 {@“मीङ् हिंसायाम्”@} 2 ‘मीञो मीनाति मीनीते, हिंसायां मीयते ङितः।।’ 3 इति देवः।
4 मायकः-यिका, 5 मापकः-पिका, 6 मित्सकः-त्सिका, 7 मेमीयकः-यिका
माता-मात्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि सौवादिकमिनोतिवत् 8 ज्ञेयानि।
9 मीनन्- प्रमीणन्-ती, प्रमीणानः, इति शतरि शानचि रूपम्।
मीतम्-मीतः- मीतवान्, मीत्वा, 10 प्रमाय, 11 ईषत्प्रमयः-दुष्प्रमयः-सुमयः, मयः- 12 प्रमयः, इत्यादीन्यस्य प्रातिस्विकरूपाणीति ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२६९)
02
=>
(९-क्र्यादिः-१४७६। सक। अनि। उभ।)
03
=>
(श्लो। १६)
04
=>
[[१। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इति एज्विषये आकारः। युगा- गमः। एवमेव णमुल्प्रभृतिष्वपि ज्ञेयम्।]]
05
=>
[[२। ण्यन्तेऽप्येज्विषयत्वेनाकारे, आदन्तलक्षणे पुगागमे रूपमेवं सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘सनि मीमा--’ (७-४-५४) इत्यनेन इस्, अभ्यासलोपतकारादिकं यथयथं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। यङ एज्विषयत्वाभावेन आकारो न। अभ्यासे गुणः। एवमेव यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
(१२५३)
09
=>
[[५। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। प्रत्ययस्य शित्त्वेन ङिद्वद्भावादङ्गस्य गुणो न। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। प्रमीणन् इत्यत्र ‘हिनुमीना’ (८-४-१५) इति णत्वम्। “…परनिमित्त- कस्य आल्लोपस्य (च) पूर्वविधौ स्थानिवत्त्वाद् ‘एकदेशविकृतस्यानन्यत्वात्’ (परि। ३७) वा णत्वम्।” इति माधवोक्तमिहानुसन्धेयम्। एवमेव प्रमीणानः इत्यत्रापि ज्ञेयम्।]]
10
=>
[[६। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यनेन ल्यप्यप्याकारः।]]
11
=>
[[७। ‘निमिमीलियां खलचोरात्वं न’ (वा। ६-१-५१) इति खल्प्रत्यये, अच्प्रत्यये चाकारनिषेधः। तेनैवं रूपम्। अत्र वार्तिके ‘अच्’ इत्यनेन पचाद्यचः (३-१-१३४), एरचः (३-३-५७) ग्रहणमिति ज्ञेयम्। दुष्प्रमयः = रिपुः।]]
12
=>
[[आ। ‘… मांसश्रियां प्रमयकृत् सितपीतचेलः।’ धा। का। ३। ५।]]
1 {@“मेङ् प्रणिदाने”@} 2 ‘मिमीते मायते माने, माति तत्रैव शब्लुकि।
मयते प्रणिदानेऽर्थे…।।’ 3 इति देवः।
“प्रणिदानम् = विनिमयः।
‘प्रत्यर्पणम्’ इत्यपरे।” इति मा।
धा।
वृत्तिः।
“--प्रतिदाने-इति काशकृत्स्नः।
तथैव कातन्त्रे, चान्द्रे च।
‘प्रणिधाने’ इति पाठान्तरम्।” इति क्षी।
टीका।
मायकः-यिका, मापकः-पिका, मित्सकः-त्सिका, मेमीयकः-यिका
माता- मात्री, माययिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकमातिवत् 4 ज्ञेयानि।
शानचि- 5 मयमानः- प्रणिप्रयमानः, 6 अपमित्य, 7 अपमाय वा याचते।
याचित्वा अपमयते।
8 9 धान्यमायः, इतीमानि रूपाण्यस्माद् भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१३१४)
02
=>
(१-भ्वादिः-९६१। सक। अनि। आत्म।)
03
=>
(श्लो। ९)
04
=>
(१२४०)
05
=>
[[४। शानचि, शपि अयादेशे रूपमेवम्। ‘--अशिति’ (६-१-४५) इत्युक्तत्वात् आत्वं नेति ज्ञेयम्। प्रणिमयमानः इत्यत्र ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
06
=>
[[५। अपपूर्वकादस्मात्, ‘उदीचां माङो व्यतीहारे’ (३-४-१९) इति क्त्वाप्रत्यये, तस्य सामासिके ल्यपि, ‘मयतेरिदन्यतरस्याम्’ (६-४-७०) इति इकारेऽन्तादेशे अपमित्य इति रूपम्। पक्षे अपमाय इति च। अपूर्वकालार्थं वचनमिदम्। अत्र (३-४-१९) ‘उदीचाम्’ इत्युक्तत्वात्, प्राचां मते तु ‘याचित्वाऽपमयते’ इत्यपि प्रयोगः साधुः। ‘उदीचाम्--’ (३-४-१९) इति सूत्रे ‘माङ्’ इति, मेङः कृतात्वस्य निर्देश इति ‘दाधा ध्वदाप्’ (१-१-२०) सूत्रे भाष्ये स्पष्टम्।]]
07
=>
[[आ। ‘अपमित्य तपोवित्तैरस्या भागं भगीरथः।’ सुभद्राहरणे।]]
08
=>
[पृष्ठम्१०५७+ २८]
09
=>
[[१। कर्मणि उपपदे आदन्तलक्षणं कप्रत्ययं बाधित्वा, ‘ह्वावामश्च’ (३-२-२) इत्यण्। आत्वे कृते, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः।]]